Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१० ग्रन्थः ]
वादसुधाकरः ।
गप्रसङ्गः । अस्मन्मते त्वभेदान्यथानुपपत्त्या न्यायसिद्धं समानवचनकत्वम् ।
५
अथ चैत्रादिगतसंख्याभिधायित्वमेव चैत्रादिसामानाधिकरण्यमिति चेदेतन्मते संख्यायाः कुत्रान्वय इत्यत्रैव नियामकाभावः । अत्राहुः - भावनान्वयिनि संख्यान्वयः भावनान्वययोग्यश्चेतराविशेषणीभूतप्रथमान्तपदोपस्थाप्यः चन्द्र इव मुखानि दृश्यन्त इत्यत्रेवार्थसादृश्यस्य विशेघणे चन्द्रे संख्यान्वयवारणाय इतर विशेषणेति । भावना च संख्याकालातिरिक्तप्रत्ययार्थ इति । अथ कथं न पचति चैत्र इत्यत्र भावना (न) न्वयिनि पाकानुकूलकृत्यभाववति चैत्रे संख्यान्वय इति चेन्न | भावनान्वययोग्यताया एव विवक्षितत्वात् । अत एव भावनान्वययोग्यश्चेत्युक्तम् । परे तु परंपरया भावनान्वयमूरीचकुः ।
अत्र वदन्ति । भावनान्वयिनि संख्यान्वये पचेतेत्यत्रेष्टसाधनत्वान्वितपाके संख्यान्वयापत्तिः इष्टसाधनत्वाद्यतिरिक्तत्वेन विशेषणे तु तदेव गौरवम् । यत्तूक्तनियमस्वीकारे लाघवमेव बीजम् । तथाहि भावनान्वयबोधायाऽपरपदार्थचैत्राद्युपस्थितिकल्पनमावश्यकम् । तथाच तत्र संख्यान्वयस्वीकारे पदार्थान्तरोप स्थित्यकल्पनप्रयुक्तलाघवमक्षुण्णमेवेति चेन्न । शाब्दिकमते भावनाया आख्यातवाच्यत्वाभावात् । आख्यातार्थे आश्रये संख्यान्वयस्वीकारे पदान्तराऽननुसंधानेन लाघवात् । तथाच संख्याबोधं प्रत्याख्यातजन्याश्रयोपस्थितेर्हेतुत्वं बोध्यम् । एतेन युष्मदादिसमानाधिकरणे इत्यस्य युष्मदर्थगतसंख्याभिधायिनीत्यप्यर्थोऽपास्तः । संख्यान्वयस्यानिश्चयात् । अतित्वं भवतीत्यत्रापि मध्यमत्वापत्तेश्व त्वच्छब्दस्यैव त्वत्कर्मकातिक्रमणकर्तरि लक्षणया युष्मदर्थ एवं संख्यान्वयात् इत्यलम् 1
आख्यातस्थले क्रियाविशेष्यकः शाब्दबोधः प्रथमान्तविशेष्यकः शाब्दबोधो वा । अत्राहुः - पश्य मृगो धावतीत्यत्र प्रधानदर्शनक्रियां प्रति मृगस्य कर्मत्वात् द्वितीयापत्तिः । ननु तार्किकमते नायं दोषः, वाक्यार्थस्य कर्मत्वाद्वाक्यस्य प्रातिपदिकत्वाभावेन द्वितीयाया असंभवात् । अत एव कैटादयोऽपीत्यमेव समादधुः । अत एव ' क्रमादमुं नारद इत्यबोधि सः' इत्यादी वाक्यार्थस्य कर्मत्वान्न द्वितीयेति समादधते । यत्तु तत्र निपातेनाभिहितत्वान्न द्वितीयेति तन्न । 'अनभिधानं च तिङ्कृत्त
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122