Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसंग्रहः
[३ भागः स्थितेहेतुत्वावश्यकतया संसर्गस्य तत्रप्रकारत्वाभावेनादोषात् । स्यादेतत्, वृत्त्यनुपस्थितस्यापि संसर्गस्य शाब्दबोधविषयत्वे राजपुरुष इत्यादौ यावत्संबन्धभानापत्तिः जन्यजनकभावादेरपि संभवादिति चेन्न, तात्पर्यस्य नियामकत्वात् ।
अत्रेदमवधेयम्-आख्यातस्य कर्तृवाचकत्वाभावे पच्यते तण्डुलेनेत्यादी 'कर्मवत्कर्मणा तुल्यक्रियः' इत्यतिदेशाकर्मणि द्वितीयापत्तिः । वैयाकरणानां तु लिङयाशिष्यङिति द्विलकारकाल्ल इत्यनुवृत्तेर्लकारवाच्यः कर्ता कर्मवदित्यान्नातिप्रसङ्गः । भावे लकारे च लकारेण कर्तुरनुपस्थितेः । एवं भेत्तव्यं कुसूलेनेत्यत्रापि कर्मवत्कर्मणेति कर्मवद्भावे (भावे) प्रत्ययानापत्तिः। अस्मन्मते च लकारवाच्यस्यैव कर्तुः कर्मवद्भावात्कृति कर्तुः कर्मवत्त्वाभावेनोक्तदोषभावः । नच लकारवाच्यकृत्याश्रयः कर्ता कर्मवदित्यर्थानिस्तारः शङ्कयः लकारस्य तत्र विक्लित्त्याश्रयत्ववाचकत्वेन कृतिवाचकत्वाभावात , तदाश्रयत्वस्याप्यसंभवाच । नच लकागर्थसंख्याश्रयः कर्मकर्ता कर्मवदित्यर्थ इति वाच्यम्, पच्यमानस्तण्डुल इत्यादी लकारेण संख्याया अनुपस्थित्या कर्मवद्भावानापत्तेः । अत एव लकारार्थकर्तृत्वाश्रयः कर्ता कर्मवदित्यर्थेऽप्यत्र न निर्वाहः वाचनिकातिरिक्तवचनारम्भस्यैव गुरुत्वात् ।
किंच लक्षणायाः शक्यानुसंधानपूर्वकत्वाल्लक्षणायां लाघवं नियुक्तिकमेव । अत एव निपादस्थपतिं याजयेदित्यत्र निपाश्चासौ स्थपतिश्चेति कर्मधारयो न तु निषादानां स्थपतिरिति तत्पुरुषः पूर्वपदे लक्षणाप्रसङ्गादिति सकलसिद्धान्तः । अत एव राजपुरोहितौ स्वाराज्यकामौ यजेयातामित्यत्र राजा च पुरोहितश्चेति द्वन्द्वो नतु राज्ञः पुरोहिताविति तन्पुरुपो लक्षणाप्रसङ्गादिति सर्वसिद्धान्तः । अत एवोद्भिदा यजेत पशुकाम इत्यत्रोद्भिच्छब्दः कर्मनामधेयमुनिच्छब्देन खनित्रादिकं गृहीत्वोनिद्वता यागेनेत्यर्थाश्रयणे तु मत्वर्थलक्षणापत्तिरिति उद्भिदधिकरणं संगच्छते ।
वस्तुतस्तु फलव्यापारयोरुभयोर्धातुलभ्यत्वादखण्डशक्तिरूपमाश्रयत्वमेवाख्यातशक्यतावच्छेदक मिति न गौरवसंभावना । तार्किकपरिभाषया यस्नत्वस्येव शाब्दिकपरिभाषया आश्रयत्वस्याप्यतिरिक्तत्वे बाधकाभावात् । कुमारीभार्य इत्यादौ जातेश्चेति पुंवद्भावप्रतिषेधसिद्धये कौमारादीनामपि जातित्वमभ्युपगच्छतां भाष्यकारादीनां नित्यैव जातिरिति नियमात् । अत एव दीधितिकृताऽपि सिद्धान्तलक्षणेऽधिकरणत्वादीनामतिरि
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122