Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 338
________________ यमपाशकथानकम् १७९ -७४. ३९ ] यो हि जीववधं कोऽपि करिष्यति दिनाष्टके । कालेऽत्र कृतकार्यस्य स मे वध्यो भविष्यति ॥७॥ एवं घोषणया तत्र दत्तयैकोऽस्ति वाणिजः । धर्मनाना स नाम्नैव पिशितासक्तमानसः ॥ ८॥ तेनैकस्य वराकस्य नूनमूरणिकस्य च । मिण्ढको निहतो दीनः पिशितासक्तचेतसा ॥९॥ निहतो मिण्ढकोऽनेन मांसभक्षणकारिणा । भूपस्योरणिकेनाशु तद्वार्ता कथिता तदा ॥ १० ॥ तेनापि भूभुजा शीघ्रं दुष्टो निगडसंयुतः । गुप्तौ निधापितः पापो दुःखतः सोऽवतिष्ठते ॥११॥ यावद् व्रजन्ति ते नूनं घोषणावासराः खलः । अत्र तिष्ठति धोऽयं मारयिष्याम्यमुं पुनः ॥१२॥ अतिमुक्तकसंज्ञाके श्मशाने तिष्ठति स्फुटम् । अमृताश्रवनामायं सर्वोषधिसमन्वितः ॥१३॥ यमपाशः पुनस्तत्र निजलोकसमन्वितः । उपसर्गविनाशाय श्मशाने तस्थिवानसौ ॥ १४ ॥ अमुं मुनि परिप्राप्य धर्मं श्रुत्वा जगद्धितम् । सोऽहिंसाव्रतमादाय पूर्णिमायां गृहं ययौ ॥१५॥ तत्र भायाँ निजां प्राह यमपाशः पुरः स्थिताम् । आरक्षकस्य मां ब्रूहि भद्रे ग्रामान्तरं गतम् ॥१६॥ 0 एवमुक्त्वा खकां कान्तां प्रविष्य स्वगृहान्तरः । स्वं वस्त्रेण समाच्छाद्य शिश्ये तद्वल्लभः सुखम् ॥१७॥ सुप्तमात्रस्य तस्यापि यमदण्डस्तलारकः । आगत्य तद्गृहं प्राह छर्दिकां तन्मनःप्रियाम् ॥ १८॥ छर्दिके त्वत्पतिर्भद्रे व गतो निगदाशु मे । साऽपि तद्वचनात् प्राह यमदण्डं यमोपमम् ॥१९॥ यथा भर्ता मम स्वामिन् भागिनेयाविवाहके । पलाशोपपदं ग्रामं जगामाद्य निमत्रितः ॥ २० ॥ आरक्षकः पुनः प्राह तदा तद्वचनादरम् । अद्य यस्तस्कर कोऽपि मरणं प्रापयिष्यति ॥ २१ ॥ 15 नानारुच्यानि दिव्यानि बहुमूल्यानि तस्य च । विद्यन्ते तानि सर्वाणि ग्रहीष्यत्यपरोऽन्त्यजः ॥२२॥ श्रुत्वा तद्वचनं सा च तं जगादाशु तत्प्रिया । वामहस्तेन तत्संज्ञां कुर्वती प्रीतमानसा ॥ २३ ॥ उत्क्षिप्य दक्षिणं हस्तं भूयोऽपीमं जगाद सा । स्वामिन्नद्यैव मे कान्तो गतो ग्रामं निमत्रितः ॥२४॥ यमदण्डेन तद्वाक्याद् विलोक्यैवं स भाषितः। रे रे पाप दुराचार निर्गच्छ निजमन्दिरात् ॥ २५॥ यमपाशोऽपि निर्गत्य तदानीं स्वनिकेतनात् । भयवेपितसर्वाङ्गो जगादेदं कृतानतिः ॥ २६ ॥2॥ स्वामिन् मयाऽद्य साध्वन्तेऽहिंसाव्रतमखण्डितम् । दिनमेकं गृहीतं च जिनाज्ञां कर्तुमिच्छता ॥२७॥ भवत्पादप्रसादेन यमदण्ड यमोपम । तदहिंसाव्रतं चैकं रक्षितुं नान्यतः प्रभुः ॥ २८ ॥ तद्भारती निशम्याशु यमदण्डो जगाद तम् । नृपाज्ञया समयातो न त्वां मुञ्चामि सर्वथा ॥२९॥ ततस्तौ द्वावपि क्षिप्रं सभामध्यस्थितं नृपम् । जग्मतुः प्रीतचैतस्कौ विनयानतविग्रहौ ॥ ३० ॥ यमपाशो नृपं नत्वा सभामध्ये व्यवस्थितम् । ललाटपट्टविन्यस्तकरकुड्मलराजितः ॥ ३१॥ 25 महाराज मयाऽद्यैव मुनि नत्वा तपोधनम् । अहिंसाव्रतमेकं च गृहीतं दिनमेककम् ॥ ३२ ॥ भवत्पादप्रसादेन व्रतमेतदहीनकम्' । पालयामि विना क्लेशान्मुञ्च मामधुना नृप ॥ ३३॥ श्रुत्वा तद्वचनं राजा यमपाशं जगावमुम् । कोपलोहितरक्ताक्षो भृकुटीभीषणालिकः ॥ ३४ ॥ विप्रभिक्षुपरिव्राजां भस्माङ्किततपस्विनाम् । त्वं व्रतं यदि गृह्णासि त्वां मुञ्चामि ततो ध्रुवम् ॥३५॥ नग्नश्रवणसामीप्यं परिप्राप्य त्वया खल । गृहीतं व्रतमेवेदं त्वां न मुञ्चाम्यतः स्फुटम् ॥ ३६ ॥ ॥ प्रतारणं विधायाध व्रतं दत्तं तकैस्तव । नग्नो भविष्यसि क्षिप्रं प्रभाते तन्मतेन च ॥ ३७॥ यमपाशं निगद्यैवं यमदण्डं जगौ नृपः । इमं मिण्ढकहन्तारं गृहीत्वा द्वावपि द्रुतम् ॥ ३८॥ एकं क्षपणकासक्तं द्वितीयं मिण्ढकाशनम् । नीत्वाऽमुं मुञ्च वेगेन शुंशुमाराकुले हृदे ॥ ३९ ॥ 1फ संज्ञाको. 2 पफ युग्मम् , ज युगलम्. 3 पफ युग्मम् , ज युगलम्. 4 ज जगादेयं. 5 पफज त्रिकलमिदम्. 6जन तां. 7 पफ द्विहीनकम्.8 पफज त्रिकलमिदम्.9 पफ रक्ताख्यो. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566