Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 453
________________ २९४ हरिषेणाचार्यकृते बृहत्कथाकोशे [ १२१.११ २३ ॥ महिषी यूथयोर्मध्ये द्वयोरपि तदा पुनः । एकत्र समये सूता सुभद्रा भद्रया समम् ॥ ११ ॥ ततः पुरात् समागत्य वेगेनागत्य तद्वने । सुभद्रापडको बालो गोविन्देन प्रभक्षितः ॥ १२ ॥ तो हतोऽमुनानेन विधिना पडकः सकः । सुभद्राजठरे जातः सप्तकृत्वो वराककः ॥ १३ ॥ जातो जातो' वराकोऽसौ सप्तकृत्वस्ततो वने । हत्वा हत्वाऽतिपापेन गोविन्देन प्रभक्षितः ॥ १४ ॥ यथाऽप्यष्टमवेलायामसौ तत्कुक्षिमाश्रितः । हित्वा सा महिषी यूथं प्रसूताऽन्यत्र पंडुकम् ॥१५॥ गोविन्देन परिज्ञाय सुभद्राप्रसवं पुनः । अनुमार्गेण संप्राप्य दृष्टा सा पटुकाऽन्विता ॥ १६ ॥ दृष्ट्वाऽमुं पडिको दूराद् गोविन्दं भयवेपितः । तत्सन्मुखं स संप्राप्य ननाम नतमस्तकः ॥१७॥ स्वपादप्रणतं दृष्ट्वा पटुकं भयविह्वलम् । गोविन्दोऽपि जगौ वत्स मा भयं व्रज सांप्रतम् ॥ १८ ॥ ततो जातिस्मरो भूत्वा पटुको विनयानतः । गोविन्देन सहापन्नो महिषीयूथमादरात् ॥ १९ ॥ 10 ऋषभादिकसेनस्य श्रेष्ठिनः पादयोरयम् । पटुकः पतितः शीघ्रं गोविन्दवचनेन च ॥ २० ॥ जरन्तं तं समादाय तोषपूरितमानसः । साकेताख्यपुरं श्रेष्ठी विवेश परमोत्सवम् ॥ आस्थानमण्डपस्थस्य श्रेष्ठिवाक्येन वेगतः । सीमंधरनरेन्द्रस्य प्रणामो विहितोऽमुना ॥ स्वपादप्रणतं दृष्ट्वा जरन्तं धरणीपतिः । सर्वापणेषु चैकैकं धान्यग्रासं स मुक्तवान् ॥ विशिखान्तं प्रविष्टस्य नितरां प्रीतचेतसः । नकुलादिजरन्तस्य सुखेन वसतः पुरे ॥ २४ ॥ " इभ्यः श्रेष्ठितनूजोऽपि नकुलाख्योऽत्र चौरिकाम् । कुर्वन् धृतस्तलारेण बद्धस्तिष्ठति तद्गृहे ॥ २५ ॥ ततो जनापवादोऽस्य संजातो नकुलस्य सः । चौरिका विहिताऽनेन नकुलेन विसंशयम् ॥ २६ ॥ ततः श्रेष्ठिसुतस्येमं लोहपिण्डं खराग्निना । नकुलाख्यस्य संतप्तं मुक्तं पञ्चकुलेन च ॥ २७ ॥ नकुलाख्यो जरन्तोऽयं स्वशङ्काग्रस्त मानसः । दन्तैरादाय तं पिण्डं जगाम नृपसंनिधिम् ॥ २८ ॥ तदवस्थं समालोक्य महिषं भूपतिस्तदा । सभ्यान् जगाद संतुष्टः सभामध्ये निवासिनः ॥ २९ ॥ 2• अहो सभ्या जरन्तोऽयं दोषवर्जितविग्रहः । विराजते तरां लोके महिषो भद्रपूर्वकः ॥ ३० ॥ अन्यदा विचरन् क्वापि महिषो भद्रपूर्वकः । अशोकवनमध्यस्थे चारुपुष्करिणीजले ॥ ३१ ॥ विषाणपद्मसंयुक्ते रक्तोत्पलविराजिते । संक्रीडते तरां हृष्टः करमुक्तजलोत्करैः ॥ ३२ ॥ श्रेष्ठिमत्रिसुतैः सार्धं तदशोकवनं परम् । आजगाम मुदा रन्तुं सानुरागो मृगध्वजः ॥ ३३ ॥ esi महिषं तत्र क्रीडन्तं निजलीलया । सद्यश्चुकोप दुष्टात्मा रक्ताक्षोऽयं मृगध्वजः ॥ ३४ ॥ स्वभक्षणनिमित्तेन महिषस्यास्य पश्चिमम् । छित्त्वोरुमानय क्षिप्रं मदन्तं नरकुञ्जरः ॥ ३५ ॥ तद्वाक्येन समुच्छिन्ने नरेणानेन तत्र च । पादत्रयेण संप्राप्य भूपान्तं महिषोऽपतत् ॥ ३६ ॥ विलोक्य महिषं राजा मर्तुकामं सभान्तरे । सल्लेखनां ददावस्मै नमस्कारपुरस्सरम् ॥ ३७ ॥ समाधिमरणं प्राप्य महिषो भद्रपूर्वकः । सौधर्मे धर्मसंयोगाज्जातो देवो महर्द्धिकः ॥ ३८ ॥ तद्वृत्तान्तं परिज्ञाय मन्त्री सिद्धार्थनामकः । राज्ञा संप्रेषितः कोपात् तत्कुमारमृतिं प्रति ॥ ३९ ॥ 30 ततस्ते मन्त्रिणा सर्वे तदानीं राजपुत्रकाः । मुनिदत्तान्तिकं नीता दीक्षिताश्च यथाक्रमम् ॥ ४० ॥ दापयित्वा च तद्दीक्षां मन्त्री राजान्तिकं गतः । प्रोक्तोऽयं भूभुजा रोषात् सर्वे ते निहितास्त्वया ॥४१॥ उक्तस्तद्वाक्यतो राजा मत्रिणा कुशलेन च । राजन् मया तके सर्वे कुमाराः सुहता द्रुतम् ॥४२॥ राज्ञा तद्वाक्यतो मत्री भूयोऽपि गदितो रुषा । मत्रिन् राजकुमारास्ते कथं सुनिहितास्त्वया ॥४३॥ 5 फ गोविन्दे 6 पफज 5 25 1 फ जाताजातो. 2 [ पड्डुकम् ]. युगलमिदम्. 7 [ नरकुञ्जर ]. Jain Education International 3 ज पहुकान्विता 4 ज पट्टिको For Private & Personal Use Only २१ ॥ २२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566