Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 474
________________ - १२९. ३८ ] सनत्कुमारचक्रीकथानकम् एवमस्मिन् स्थिते चक्रे देवः संगमनामकः । ईशानकल्पतः प्राप सौधर्मेन्द्रसमीपताम् ॥ ५॥ तस्मिन् समागते देवे नष्टं तेजोऽमरेशिनाम् । नूनं चन्द्रगणस्येव दिननाथोदये सति ॥ ६ ॥ ततो विस्मितचेतोभिः शक्रः पृष्टः सुरैरिदम् । केनेश कारणेनायं ब्रूहि देवो रविप्रभः ॥ ७ ॥ निशम्य तद्वचस्तत्र सौधर्मेन्द्रो जगावमुम् । आचाम्लवर्धमानाख्यं तपोऽनेन कृतं पुरा ॥ ८ ॥ भूयोऽपि गदितो देवैः पुनरुक्तं पुरन्दरः । ईशोऽन्योऽपि किं रूपी विद्यते तेजसोज्वलः ॥ ९ ॥ ततो बिडौजसा प्रोक्ता भूयो देवाः पुरः स्थिताः । नितान्तं विस्मितस्त्रान्ताः करकुड्मलमस्तकाः ॥१०॥ हस्तिनागपुरे रूपी कुरुवंशसमुद्भवः । चक्री सनत्कुमाराख्यो विद्यते तेजसाऽधिकः ॥ ११ ॥ आखण्डलवचः श्रुत्वाऽसूयया विप्रवेषकृत् । विजयो वैजयन्तोऽपि तदन्तं विबुधोऽगमत् ॥१२॥ एतौ भूपान्तिकं प्राप्तौ प्रतिहारविसर्जितौ । आभ्यां विलोकितश्चक्री भ्रमंस्तैलावगुण्डितः ॥ १३ ॥ विलोक्य चक्रिणं देवौ विस्मयव्याप्तमानसौ । ऊचतुर्युगपत् तुष्टाविमं संसद्व्यवस्थितम् ॥ १४ ॥ ७ भो भो सनत्कुमारेदं तेजो रूपं च यौवनम् । यथेन्द्रभाषितं सर्वं विद्यते तेऽधिकं भुवि ॥ १५ ॥ गीर्वाणोदितमाकर्ण्य पृष्टौ तौ चक्रिणा तदा । कौ भवन्तौ कुतः प्राप्तौ ब्रूतं मे सांप्रतं शुभौ ॥१६॥ निशम्य चक्रिणो वाक्यं विस्मयाकुलचेतसौ । अवोचतामिदं देवौ नानासामन्तसेवितम् ॥ १७ ॥ सौधर्मसंसदि स्पष्टं तेजो रूपं च यौवनम् । भवतः पुण्ययुक्तस्य सौधर्मेन्द्रेण वर्णितम् ॥ १८ ॥ श्रद्दधानौ न सौरेशं वचनं सुरसंसदि । एतानि द्रष्टुमायातौ सुरौ सौधर्मनाकतः ॥ १९॥ रूपयौवनतेजांसि यादृशानि सुरेशिना । अधिकं तानि दृष्टानि तवावाभ्यां नराधिपः ॥ २० ॥ सांप्रतं वसुधानाथ नतसामन्तमण्डल । रूपादिगुणसंपन्न व्रजावो निजमालयम् ॥ २१ ॥ श्रुत्वाऽमरवचश्चकी रोमाञ्चाञ्चितविग्रहः । कृत्वा स्थितं स्मयेनैतौ वभाण सदसि स्थितः ॥ २२ ॥ भो भो सुरौ यदस्माकं रूपमिन्द्रेण वर्णितम् । भवद्भ्यां किं पुनर्दृष्टं तिष्ठतं घटिकाद्वयम् ॥ २३ ॥ विधाय मज्जनं यावत् कृत्वा मण्डनभूषणम् । आदाय पुष्पताम्बूलदिव्य वस्त्रादिकस्तथा ॥ २४ ॥ " सिंहासनस्थितस्यास्य मम सामन्तसेविनः । रूपयौवनतेजांसि पश्यतां सुरकुञ्जरौ ॥ २५ ॥ श्रुत्वा तद्वचनं देवौ कौतुकव्याप्तमानसौ । मुहूर्तमेकमन्यत्र स्थितौ तद्रूपमीक्षितुम् ॥ २६ ॥ स्नानं विलेपनं भव्यं कृत्वा निजतनौ तदा । आजुहाव सुरौ चक्री सिंहासनमधिष्ठितः ॥ २७ ॥ यौवनं रूपमालोक्य तेजोऽप्यस्य महीभृतः । इदं प्रोक्तं पुनस्ताभ्यां सुराभ्यां तत्पुरस्तदा ॥ २८ ॥ अहो रूपं बलं तेजो यौवनं च धनादिकम् । विद्युद्धनेन्द्र चापाभं प्रविनश्यति तत्क्षणात् ॥ २९ ॥ 25 श्रुत्वाऽमरोदितं चत्री महाविस्मयमागतः । वसुधाधिप देवानां रूपयौवनकादयः ॥ ३० ॥ प्रथमोत्पत्तिमारभ्य यावदायुः परिक्षयम् । तावद्रूपादिना देवा न मुच्यन्ते महाप्रभाः ॥ ३१ ॥ मनुष्याणां पुना राजन् वृद्धिं रूपादयो ययुः । यावद् युवत्वमेतच्च प्रसिद्धं सर्वजन्तुषु ॥ ३२ ॥ ततः पश्चादमी सर्वे हानिं गच्छन्ति देहिनाम् । यावज्जीवितपर्यन्तं तावज्जानीहि मद्वचः ॥ ३३ ॥ त्वद्यौवनोदये राजन् रूपं साधु विलोकितम् ' । आवाभ्यामधुना तद्धि गतं विच्छायतां क्षणात् ॥३४॥ " ततो देवोदितं श्रुत्वा चक्री विस्मितमानसः । पश्यति स्म निजं देहं छायया परिवर्जितम् ||३५|| चन्द्ररश्मिसमानाभहारराजितमप्यदः । वक्षस्स्थलं ददर्शायं नष्टलावण्यसंपदम् ॥ ३६ ॥ इमां निजतनूं दृष्ट्वा विच्छायां चत्रिनामकः । दध्यौ विस्मितचेतस् को महावैराग्यसंगतः ॥ ३७ ॥ एतावति गते काले रूपं तेजोऽपि यौवनम् । मम नष्टमिदं किं न शेषकाले विनश्यति ॥ ३८ ॥ 1 पफज युगलमिदम्. 2 [ नराधिप ] 3 पफज चतुः कुलकमिदम्. 4 [ वस्त्रादिकं तथा ]. 5 पफज चतुः कुलकमिदम् 6 पफ मानुष्याणां 7 पफ विलोक्य तम्. ४ पफज चतुः कुलकमिदम्. Jain Education International ३१५ For Private & Personal Use Only 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566