Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 476
________________ -१३१.३२] भद्रबाहुकथानकम् ___३१७ १३१. भद्रबाहुकथानकम् । अथास्ति विषये कान्ते पौण्ड्रवर्धननामनि । कोटीमतं पुरं पूर्व देवकोटं च सांप्रतम् ॥ १॥ तत्र पद्मरथो राजा नताशेषनरेश्वरः । बभूव तन्मता देवी पद्मश्रीरतिवल्लभा ॥२॥ अस्यैव भूपतेरासीत् सोमशर्माभिधो द्विजः । रूपयौवनसंयुक्ता सोमश्री तत्प्रिया प्रिया ॥३॥ कुर्वाणः सर्वबन्धूनां भद्रं भद्राशयो यतः । भद्रबाहुस्ततः ख्यातो बभूव तनयोऽनयोः ॥४॥ भद्रबाहुः समुञ्जः सन् बहुभिब्रह्मचारिभिः । देवकोट्टपुरान्तऽसौ रममाणो वितिष्ठते ॥५॥ एवं हि तिष्ठताऽनेन रममाणेन तत्पुरे । कुमारैर्बहुभिः सार्धमनया क्रीडया यथा ॥६॥ एकस्य विहितो वट्टो वट्टकस्योपरि द्रुतम् । त्रयोदशामुना तेषु चतुर्दश निधापिताः ॥ ७॥ अत्रान्तरे महामानो वर्धमानः सुरस्तुतः। निर्वाणमगमद् वीरो हतकर्मकदम्बकः ॥८॥ गोवर्धनश्चतुर्थोऽसावाचतुर्दशपूर्विणाम् । निर्मलीकृतसर्वाशो ज्ञानचन्द्रकरोत्करैः ॥९॥ ऊर्जयन्तं गिरि नेमि स्तोतुकामो महातपाः । विहरन् क्वापि संप्राप कोटीनगरमुवजम् ॥ १० ॥ भद्रबाहुकुमारं च स दृष्ट्वा नगरे पुनः । उपर्युपरि कुर्वाणं तांश्चतुर्दशवट्टकान् ॥ ११॥ पूर्वोक्तपूर्विणां मध्ये पञ्चमः श्रुतकेवली । समस्तपूर्वधारी च नानर्द्धिगणभाजनः ॥ १२॥ देवदानवलोकार्यो भद्रबाहुरयं बटुः । स्तोकैरेव दिनैनूनं भविष्यति तपोनिधिः ॥ १३॥ . गोवर्धनो विधायेममादेशं विधिपूर्वकम् । भद्रबाहुबटुं स्वान्ते चकार पितृवाक्यतः॥१४॥ 5 गोवर्धनमुनिः क्षिप्रं नानाशास्त्रार्थकोविदम् । चकार विधिवत् तत्र भद्रबाहुकुमारकम् ॥१५॥ ततः स्वजनकं प्राप्य दृष्ट्वाऽमुं विधिपूर्वकम् । आजगाम मुनेः पार्श्व भद्रबाहुर्बटुः पुनः ॥ १६॥ .. महाबैराग्यसंपन्नो ज्ञाननिष्णातबुद्धिकः । गोवर्धनसमीपेरं भद्रबाहुस्तपोऽग्रहीत् ॥ १७॥ .... ततः स्तोकेन कालेन समस्तश्रुतपारगः । गोवर्धनप्रसादेन भद्रबाहुरभून्मुनिः ॥ १८ ॥ श्रुतं समाप्तिमायातमिति सद्भक्तिनोदितम् । भद्रबाहुः प्रभातेऽसौ कायोत्सर्गेण तस्थिवान् ॥१९॥ ॥ देवासुरनररेत्य भक्तिनिर्भरमानसैः। भद्रबाहुरयं योगी पूजितो बहुपूजया ॥ २० ॥ .. अथ धर्मोपदेशेन समस्तगणपालकः । बभूवासौ सदाचारः श्रुतसागरपारगः ॥२१॥ , नानाविधं तपः कृत्वा गोवर्धनगुरुस्तदा । सुरलोकं जगामाशु देवीगीतमनोहरम् ॥ २२ ॥ अवन्तीविषयोद्धृतश्रीमदुज्जयनी पुरी । आसीन्मनोहरी वापी सौधापणसरोवरैः ॥ २३॥ श्रीमदुजयिनीपार्थलग्नसिप्रानदीतटे । बभूवोपवनं रम्यं नानातरुकदम्बकैः ॥ २४ ॥ चतुर्विधेन संघेन महता परिवारितः । इदं वनं परिणाप भद्रबाहुमहामुनिः ॥ २५॥ तत्काले तत्पुरि श्रीमांश्चन्द्रगुप्तो नराधिपः । सम्यग्दर्शनसंपन्नो बभूव श्रावको महान् ॥ २६ ॥ कनत्कनकसद्वर्णा विद्युत्पुञ्जसमप्रभा । अभवत् तन्महादेवी सुप्रभा नाम विश्रुता ॥ २७॥ अन्यदानुक्रमेणायं भिक्षार्थ गृहतो गृहम् । भद्रबाहुमहायोगी विवेश स्थिरमानसः ॥ २८॥ गत्या मन्थरगामिन्या प्रविष्टो यत्र मन्दिरे । भद्रबाहुमुनिस्तत्र जनः कोऽपि न विद्यते ॥ २९ ॥ 30 केवलं विद्यते तत्र चोलिकान्तर्गतः शिशुः । तेनोदितो मुनिः क्षिप्रं गच्छ त्वं भगवन्नितः ॥३०॥ श्रुत्वा शिशदितं तत्र ध्यादेवं स्वचेतसि । भद्रबाहुमुनिवर्वीरो दिव्यज्ञानसमन्वितः॥३१॥ ईदृशं वचनं तत्र बालस्य श्रूयते तदा । तदा द्वादशवर्षाणि मण्डलेऽत्र न वर्षणम् ॥ ३२॥ . 1 पफज युगलमिदम्. 2 पफज चतुष्कुलकमिदम्. 3 ज भद्रबाहुमहा. 4 पफज त्रिकलमिदम्, 5 [दध्यावेवं ]. 6 पफ भद्रबाहुर्मुनि. 7 [यदा ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566