Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 496
________________ - १४३. ६१ ] चाणक्यमुनिकथानकम् ३३७ पश्य पादमिमं भिन्नमनया रुधिरारुणम् । शेषतोन्मूलयाम्येतां दर्भसूचीं नरोत्तम ॥ २९ ॥ अवाचि कविना भूयश्चाणाक्यः खिन्नविग्रहः । खातं बहु त्वया विप्र पर्याप्तं खननेन ते ॥ ३० ॥ कविवाक्यं समाकर्ण्य चाणाक्यो निजगावमुम् । तदाग्रहसमुद्भूतविस्मयव्याप्तमानसः ॥ ३१ ॥ मूलं नोन्मूलते यस्य तत्किं खातं भवेद् भुवि । स किं हतो नरैरज्ञैश्छिद्यते यस्य नो शिरः ||३२|| यावन्मूलं न चाप्नोति दर्भसूच्याः कृतागसः । भूयो भूयः प्रबन्धेन तेन तावत् खनाम्यहम् ||३३|| ' निशम्य तद्वचः सत्यं नन्दस्य सचिवः कविः । दध्यौ स्वचेतसि स्पष्टं विस्मयाकुलमानसः ॥३४॥ नन्दभूपालवंशस्य समर्थस्य महीतले । नाशं करिष्यति क्षिप्रं एष कोऽपि महानरः ॥ ३५ ॥ चिन्तयित्वा चिरं तत्र सभामध्ये जनाकुले । श्लोकमेकं लिलेखेमं कविविस्मितचेतसा ॥ ३६ ॥ नरेणैकशरीरेण नयशास्त्रयुतेन च । व्यवसायेन युक्तेन जेतुं शक्या वसुंधरा ॥ ३७ ॥ अन्यदाऽयं विलोक्यात्र लोकमेकं विचक्षणः । लिलेख निजहस्तेन चाणाक्यो धीरमानसः ||३८|| नरेणैकशरीरेण नयशास्त्रयुतेन च । व्यवसायेन युक्तेन जेतुं शक्या वसुंधरा ॥ ३९ ॥ इमं लिखितमालोक्य कविः श्लोकं मनोहरम् । चाणाक्योपरि संतुष्टचेतसाश्चर्यमीयुषा ॥ ४० ॥ अन्यदा भार्यया सार्धं चाणाक्योऽयं निमन्त्रितः । कविनाश्चर्ययुक्तेन तगृहं स गतोऽशितुम् ॥४१॥ ततोऽपि कविना तेन चाणाक्यस्य गृहाजिरे । दीनारा बहवः शीघ्रं निक्षिप्तास्तं परीक्षितुम् ॥४२॥ यशोमत्या गृहीतास्ते दीनाराः स्वगृहाङ्गणे । आदाय तान् पुरस्तुष्टा जगौ चाणाक्यमादरात् ॥४३॥ 1 ददाति कपिलां" नन्दो ब्राह्मणेभ्यो मनःप्रियाम् । तदन्तिकं परिप्राप्य गृहीत्वा गच्छतानरम् ॥४४॥ भार्यावचनमाकर्ण्य चाणक्यो निजगाद ताम् । त्वद्वाक्यतः प्रगृह्णामि गत्वा तां कपिलामहम् ॥४५॥ तत्संप्रधारणं श्रुत्वा कविमत्री कुतूहलात् । इदं निवेदयामास नन्दस्य प्रीतचेतसः ॥ ४६ ॥ बहुदुग्धसमायुक्तं महाराज समुज्जवलम् । गोसहस्रं प्रदेहि त्वं माहनेभ्यः सुभक्तितः ॥ ४७ ॥ कविवाक्यं समाकर्ण्य नन्दोऽपि निजगाद तम् । गोसहस्रं ददाम्येव ब्राह्मणानानय द्रुतम् ||४८ || 20 ततश्चाणक्यमाहूय नरेन्द्रवचनादरम् | कविर्निवेशयामास प्रधानाग्रासने तदा ॥ ४९ ॥ उपविष्टः स चाणक्यो दर्भासनकदम्बकम् । कुण्डिकाभिर्वृशीकाभी रुद्धा तस्थौ नृपान्तिके ॥५०॥ ततोऽयं कविना प्रोक्तो भट्टनन्दो जगाविदम् । तदर्थमासनं चैकं मुञ्च विप्राः समागताः ॥ ५१ ॥ तद्वाक्यतो विहायैकं विष्टरं स द्विजः पुनः । एकैकमासनं मुक्तं भूयः प्रोक्तोऽमुनेदृशम् ॥ ५२ ॥ भट्टनन्दो वदत्येवं भवन्तं भक्तितत्परः । अग्रासने परो विप्रो गृहीतो भूभुजा महान् ॥ ५३ ॥ 25 भव राजगृहाद्दूरे निर्गत्य त्वरितं द्विज । गत्वा बहिर्गृहद्वारे तिष्ठ त्वं सुसमाहितः ॥ ५४ ॥ निशम्य वचनं तस्य चाणक्यो " रक्तलोचनः । जगाद कर्तिका हस्तस्तं " नरं परुषस्वनः ॥ ५५ ॥ इदं न युज्यते कर्तुं भवतो न्यायवेदिनः । भोजनार्थं निविष्टस्य त्वगृहे मन्निरासनम् ॥ ५६ ॥ अर्धचन्द्रं गले दत्त्वा चाणक्यो घाटितोऽमुना । तन्निमित्तं रुषं प्राप्य निर्गतस्तगृहाद्बहिः ॥ ५७ ॥ नन्दवंशक्षयं शीघ्रं विदधामि विसंशयम् । एवं विचिन्त्य चाणाक्यो निजगाद वचः स्फुटम् ॥५८॥ ३° यदीच्छति नरः कोऽपि राज्यं निहतकण्टकम् । ततो मदन्तिके शीघ्रं तिष्ठतु प्रीतमानसः ॥ ५९ ॥ चाणाक्यवचनं श्रुत्वा नरः कोऽपि जगाविदम् । अहमिच्छामि भो राज्यं दीयतां मे द्रुतं प्रभो ॥ ६० ॥ निजहस्तेन तं हस्ते समादाय त्वरान्वितः । चाणक्यो रोषसंपूर्णो निजगाम पुरादरम् ॥ ६१ ॥ 1 पफज युगलमिदम्. 2 पफज त्रिकलमिदम् 3 [ कविर्विस्मित ]. 4 फ omits Nos. 38-39. 5 पफ कपिलं. 6 [ गृहीत्वाऽऽगच्छ तामरम् ] 7 पफज युगलमिदम्. 8 पफ युग्मम्, ज युगलम्. 9 पफ युग्मम् ज युगलम्. 10 ज चाणाक्यो. 11 पफ कार्तिका [ कर्तिका ]. बृ० को ० ४३ Jain Education International For Private & Personal Use Only 10 www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566