Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 511
________________ ३५२ हरिषेणाचार्यकृते बृहत्कथाकोशे [१५७. ७२० एवं संतिष्ठतेऽमुष्मिन् एको रिक्षोऽतिचञ्चलः' । व्याघ्रभीतः परिप्राप्य तं वटं पृथुमण्डलम् ॥७२॥ न्यग्रोधकं समारुह्य राजपुत्रसमीपके । स्थित्वा जगाविमं रिक्षो नृराजंस्तिष्ठ निर्भयः ॥७३॥ तत्कुमारान्तिके यावद्रिक्षस्तिष्ठति निर्भयः । तावद्व्याघ्रोऽपि संप्राप्य तद्वटाधःस्थितो जगौ ॥ ७४ ॥ मित्र क्षुधापरिश्रान्तस्तिष्ठाम्यत्र वटान्तिके । सुप्तनरमिमं मुञ्च भोजनार्थं मम द्रुतम् ॥ ७५ ॥ • रिक्षो निशम्य तद्वाक्यं पुण्डरीकं जगाविदम् । बुभुक्षाग्रस्तचेतस्कं वटमूलव्यवस्थितम् ॥ ७६ ॥ मदन्तिकं परिप्राप्तं शरणार्थं महावने । अमुं कथं प्रमुञ्चामि सुप्तं नन्दस्य नन्दनम् ॥ ७७ ॥ आकयं तद्वचो व्याघ्रो बभाणेमं पुरस्थितम् । कृतघ्ना मानुषाः सन्ति मुञ्चसे तेन मां प्रति ॥७८॥ मूकभावं परिप्राप्य स्थापयित्वा निजान्तिके । कुमारं सोऽपि सुष्वाप निद्राघूर्णितलोचनम् ॥७९॥ रिक्षेऽमुष्मिन् प्रसुप्ते च पुण्डरीको जगावमुम् । कुमारेमं प्रमुञ्चाशु येन भुक्त्वा व्रजाम्यतः ॥८॥ 10 सुनन्दस्तद्वचः श्रुत्वा जगौ व्याघ्र क्षुधादितम् । दुष्टाश्वेनाहमानीतो वनं व्याघ्र भयावहम् ॥८॥ एकाकी रक्षितोऽनेन वटवृक्षेत्र शोभने । कथमेतं प्रमुञ्चामि भवन्तं प्रति सांप्रतम् ॥ ८२ ॥ एवं निगद्य तं तत्र रिक्षो हस्तद्वयेन च । उत्थापितः कुमारेण रुषं प्राप्य जगावमुम् ॥ ८३ ॥ उ ते वं ते हं किं चि दु सि मि ।। मुक्ताक्षराणि चैतानि दशापि त्वं नराधम । शेषाक्षरेषु यत्कार्यं भूतं भावि भवत्यपि ॥ ८४ ॥ is अथवा योऽर्थमेतेषामक्षराणां भविष्यति । सर्वेषामपि तं दृष्ट्वा तस्य कार्य भविष्यति ॥ ८५ ॥ एवमुक्त्वा तकं रिक्षो व्याघ्रोऽपि वटदेशतः । अदर्शनीयतां प्राप्य यथास्वं निलयं गतः ॥८६॥' प्रभातसमये जाते सुनन्दः प्रीतमानसः । पितुरुत्कण्ठितो भूत्वा ययौ स्खं स निकेतनम् ॥ ८७॥ यत्कोऽपि तगृहे वाक्यं तत्समं वदति स्फुटम् । तत्तस्य हृषयन् सर्व कुमारो व्यवतिष्ठते ॥ ८८॥ नन्दः पलाशकूटाख्यग्रामलोकमशेषकम् । तदानीमादिदेशेदं कोपलोहितलोचनः ॥ ८९ ॥ 20 आकाशभूमिसंत्यक्तं जलमानीयतां मम । यदि नानयसि क्षिप्रं दण्डयोग्योऽसि सांप्रतम् ॥९०॥ नन्दभूपवचः श्रुत्वा समस्तः श्रुतपूर्वकम् । "पलाशकूटसंजातजनोऽजनि ससाध्वसः ॥ ९१ ॥ पलाशकूटजं लोकं विलोक्य भयविह्वलम् । इदं वररुचिः प्राह विपश्चिद्गणसंमतः ॥ ९२॥ स्नानं विधाय विश्रब्धः कुरुध्वं भोजनं जनाः । प्रवेशयामि तस्याहं प्रभाते जलमुत्तमम् ॥ ९३ ॥ विश्रब्धीकृत्य तल्लोकं तदा वररुचिः पुनः । तत्तोयप्रापणे बुद्धिं चकारेमा विचक्षणः ॥ ९४ ॥ 25 उपाचलभृतान् कुम्भांस्तजनस्य समर्प्य सः । इमं प्रवेशयामास नन्दभूपालसंनिधिम् ॥ ९५॥" तद्रामवासिलोकेन मुक्तान् जलभृतान् कुटान् । विलोक्य भूपतिः प्राह तल्लोकं बहुविस्मयः ॥९६॥ इदं जलं कुतो लब्धं भवद्भिस्तोषसंगतैः । कुतो वत्स समानीतं जनाः कथयताशु मे ॥ ९ ॥ नन्दवाक्यं समाकर्ण्य तज्जनो निजगाद तम् । महाविस्मयसंपन्नं भयवेपितविग्रहः ॥ ९८॥ पलाशकूटसद्रामात् समानीतमिदं जलम् । उषासमुद्भवं राजन्नस्माभिर्भवदन्तिकम् ॥ ९९ ॥ 30 पलाशकूटलोकस्य निशम्य वचनं नृपः । भूयो बभाण तं रुष्टो विस्मयव्याप्तमानसः ॥१०॥ युष्माकं केन संदत्तो ह्युपदेशोऽयमीदृशः । एतद्वदत मे सत्यं यथावृत्तं महत्तराः ॥ १०१॥ 1 The Mss. uniformly read रिक्ष which is retained, but better [ ऋो]. 2 पफ रक्षो, [ऋक्षो]. 3 [सुप्तं]. 4 पफ युग्मम् , ज युगलम्. 5 पफ युग्मम् , ज युगलम्. 6 [से ], 7 पफज चतुःकुलकमिदम्. 8 ज पलाशकूपाख्य. 9 पफज युगलमिदम्. 10 ज पलाशकूपसं. 11 पफज चतुःकुलकमिदम्. 12 पफ युग्मम् , ज युगलम्. 13 पफ युग्मम् , ज युगलम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566