Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 514
________________ -१३] प्रशस्तिः - [ प्रशस्तिः ] - यावच्चन्द्रो रविः स्वर्गे यावत् सलिलराशयः । यावद्व्योम नगाधीशो यावद्गङ्गादिनिम्नगाः ॥ १ ॥ यावत्तारा धरा यावद्रामरावणयोः कथा । तावच्चारुकथाकोश स्तिष्ठतु क्षितिमण्डले ॥ २ ॥ यो बोधको भव्यकुमुद्वतीनां निःशेषराद्धान्तवचोमयूखैः । • पुन्नादसंघाम्बर संनिवासी श्री मौनि भट्टारकपूर्णचन्द्रः ॥ ३ ॥ जैनालयव्रातविराजितान्ते चन्द्रावदातद्युतिसौधजाले । कार्तस्वरापूर्णजनाधिवासे श्रीवर्धमानाख्यपुरे वसन् सः ॥ ४ ॥ सारागमाहितमतिर्विदुषां प्रपूज्यो नानातपोविधिविधानको विनेयः । तस्याभवद् गुणनिधिर्जनताभिवन्द्यः श्रीशब्दपूर्वपदको हरिषेणसंज्ञः ॥ ५ ॥ छन्दोऽलंकृतिकाव्यनाटकचणः काव्यस्य कर्ता सतो वेत्ता व्याकरणस्य तर्कनिपुणस्तत्त्वार्थवेदी परम् । नानाशास्त्रविचक्षणो बुधगणैः सेव्यो विशुद्धाशयः सेनान्तो भरतादित्र परमः शिष्यो बभूव क्षितौ ॥ ६॥ 'लक्षणलक्ष्यविधानविहीनश्छन्दसाऽपि रहितः 'श्रमया च । तस्य शुभ्रयशसो हि विनेयः संबभूव विनयी हरिषेणः ॥ ७ ॥ आराधनोद्वृतः पथ्यो भव्यानां भावितात्मनाम् । हरिषेणकृतो भाति कथाकोशो महीतले ॥ ८ हीनाधिकं 'चारुकथाप्रबन्धख्यातं यदस्माभिरतिप्रमुग्धैः । मात्सर्यहीनाः कवयो धरायां तच्छोधयन्तु स्फुटमादरेण ॥ ९ ॥ Jain Education International भद्रं भूयाजिनानां निरुपमयशसां शासनाय प्रकामं जैनो धर्मोऽपि जीयाज्जगति हिततमो देहभाजां समस्तम् । राजानोऽवन्तु लोकं सकलमतितरां चारुवातोऽनुकूलः ११ ॥ सर्वे शाम्यन्तु सत्त्वा जिनवरवृषभाः सन्तु मोक्षप्रदा नः ॥ १० ॥ नवाष्टनवकेष्वेषु स्थानेषु त्रिषु जायतः । विक्रमादित्यकालस्य परिमाणमिदं स्फुटम् ॥ शतेष्वष्टसु विस्पष्टं पञ्चाशत्यधिकेषु च । शककालस्य सत्यस्य परिमाणमिदं भवेत् ॥ १२ ॥ संवत्सरे चतुर्विंशे वर्तमाने खराभिधे । विनयादिकपालस्य राज्ये शक्रोपमानके ॥ १३ ॥ ३५५ 1 पफज युगलमिदम्. 2 [ पुरेऽवसत् ] 3 पफज युगलमिदम् 4 [ लक्ष्यलक्षण ]. 5 ज प्रभया. 6 [ आराधनोद्धृतः ]. 7 [ प्रबन्धं ]. For Private & Personal Use Only 5 10 15 20 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566