Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 513
________________ ३५४ हरिषेणाचार्यकृते बृहत्कथाकोशे [ १५७. १३१प्राप्य निःशेषराद्धान्तसागरान्तं क्रमेण सः । शकटालस्तपोराशिमहाचार्यपदं ययौ ॥ १३१ ॥ ततो वाररुचिस्तत्र' नन्दभूपालपूजितः । सर्वं वैरं समादाय तस्थौ मुदितमानसः ॥१३२॥ . द्वेषी वररुचिः कृत्वा प्रयोगं स्वमनीषितम् । नन्दभूपालसन्मानमहागर्वसमन्वितः ॥ १३३ ॥ . अथ मध्याह्नवेलायां भिक्षार्थं तं महामुनिम् । अयं प्रवेशयामास नन्दान्तःपुरमन्दिरम् ॥१३४॥ 5 विधिना भोजनं कृत्वा शकटालोऽत्र सत्वरम् । जगाम शुद्धचेतस्कस्तदानीं निजमालयम् ॥१३५॥ ततो वररुचिः प्राह नन्दभूपालमादरात् । राजन्नद्य भवद्रोहं शकटालः प्रविष्टवान् ॥ १३६ ॥ भिक्षाव्याजेन संप्राप्य त्वदीयं भवनं नृप । भुक्त्वा तेऽन्तःपुरं सर्वं निर्ययौ त्वद्हादयम् ॥१३७॥ श्रुत्वा वररुचेर्वार्ता नन्दः कोपारुणेक्षणः । प्रजिघाय निजं लोकं शकटालवधं प्रति ॥ १३८॥ तद्वृत्तान्तमिदं ज्ञात्वा कृत्वा खालोचनाविधिम् । शरीरादिकमुज्झित्वा जपन् पञ्चनमस्कृतिम् ॥१३९॥ 10 आदाय क्षुरिकां शातां पाटयित्वा निजोदरम् । समाधिमरणं प्राप्य शकटालो दिवं ययौ ॥१४०॥" शकटालमुनि ज्ञात्वा निर्दोष पञ्चतामितम् । सद्यो बभूव नन्दोऽपि पश्चात्तापपरायणः ॥ १४१॥ महापद्मान्तिके श्रुत्वा जिनधर्मं सुखालयम् । स्वनिन्दनादिकं कृत्वा नन्दोऽरं श्रावकोऽभवत् ॥१४२॥ ॥ इति श्रीशकटालमुनिकथानकम् ॥ १५७ ॥ * . ॥ एवं कथानकानां सप्तपञ्चाशदधिकशतैकं कथाकोशपुस्तके ॥ ** ILE ___1 [वररुचिस्तत्र]. 2 पफज युगलमिदम्. 3 पफज युगलमिदम्. 4 पफ शकटालाभिधं. 5 पफज युगलमिदम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566