________________
३५४
हरिषेणाचार्यकृते बृहत्कथाकोशे [ १५७. १३१प्राप्य निःशेषराद्धान्तसागरान्तं क्रमेण सः । शकटालस्तपोराशिमहाचार्यपदं ययौ ॥ १३१ ॥ ततो वाररुचिस्तत्र' नन्दभूपालपूजितः । सर्वं वैरं समादाय तस्थौ मुदितमानसः ॥१३२॥ . द्वेषी वररुचिः कृत्वा प्रयोगं स्वमनीषितम् । नन्दभूपालसन्मानमहागर्वसमन्वितः ॥ १३३ ॥ .
अथ मध्याह्नवेलायां भिक्षार्थं तं महामुनिम् । अयं प्रवेशयामास नन्दान्तःपुरमन्दिरम् ॥१३४॥ 5 विधिना भोजनं कृत्वा शकटालोऽत्र सत्वरम् । जगाम शुद्धचेतस्कस्तदानीं निजमालयम् ॥१३५॥ ततो वररुचिः प्राह नन्दभूपालमादरात् । राजन्नद्य भवद्रोहं शकटालः प्रविष्टवान् ॥ १३६ ॥ भिक्षाव्याजेन संप्राप्य त्वदीयं भवनं नृप । भुक्त्वा तेऽन्तःपुरं सर्वं निर्ययौ त्वद्हादयम् ॥१३७॥ श्रुत्वा वररुचेर्वार्ता नन्दः कोपारुणेक्षणः । प्रजिघाय निजं लोकं शकटालवधं प्रति ॥ १३८॥ तद्वृत्तान्तमिदं ज्ञात्वा कृत्वा खालोचनाविधिम् । शरीरादिकमुज्झित्वा जपन् पञ्चनमस्कृतिम् ॥१३९॥ 10 आदाय क्षुरिकां शातां पाटयित्वा निजोदरम् । समाधिमरणं प्राप्य शकटालो दिवं ययौ ॥१४०॥"
शकटालमुनि ज्ञात्वा निर्दोष पञ्चतामितम् । सद्यो बभूव नन्दोऽपि पश्चात्तापपरायणः ॥ १४१॥ महापद्मान्तिके श्रुत्वा जिनधर्मं सुखालयम् । स्वनिन्दनादिकं कृत्वा नन्दोऽरं श्रावकोऽभवत् ॥१४२॥
॥ इति श्रीशकटालमुनिकथानकम् ॥ १५७ ॥
*
.
॥ एवं कथानकानां सप्तपञ्चाशदधिकशतैकं कथाकोशपुस्तके ॥
**
ILE
___1 [वररुचिस्तत्र]. 2 पफज युगलमिदम्. 3 पफज युगलमिदम्. 4 पफ शकटालाभिधं. 5 पफज युगलमिदम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org