________________
३५३
-१५७. १३०]
शकटालमुनिकथानकम् नन्दस्य वचनं श्रुत्वा ते वदन्ति नरेश्वरम् । अस्मद्रामे वसत्येषा यक्षादेवी प्रियंवदा ॥ १०२॥ समस्तलोकविख्याता समस्तजनवल्लभा । अर्थ मनोगतं नृणां जानाति नरकुञ्जरः ॥ १०३॥ महत्तरवचः श्रुत्वा तदानीं वसुधाधिपः । विस्मयव्याप्तचेतस्को मौनमादाय तस्थिवान् ॥ १०४॥ अन्येषुः प्रातरुत्थाय नन्दो वदति तजनान् । ममेमं मृष्टपानीयं कूपमानयत द्रुतम् ॥ १०५॥ तथानयत मे शीघ्रं हस्तिनं मदशालिनम् । कूपः पश्चिमदिग्भागे तद्रामस्य विधीयताम् ॥१०६ ॥ । एवमादिकमुद्दिश्य हित्वा मार्ग दिवानिशम् । यक्षदेवीं ममाभ्याशं तूर्णमानयतां जनाः ॥१०७॥ ततस्तैनन्दवाक्येन सा नीता यक्षदेवता । नृपान्तिकं समासेन तदुक्तिविधियोगतः ॥ १०८॥ आनीतया तया देव्या नन्दभूपालसंनिधिम् । दृष्टः पठन् कुमारोऽसौ पूर्वोक्ताक्षरपद्धतिम् ॥१०९॥ दृष्ट्वाऽमुं देवता प्राह कुमारं प्रीतमानसा । यथागतं तथा सर्वमनुक्रमविधानतः ॥ ११० ॥ उत्तिष्ठाशु दुराचार सुमित्रत्वं त्वमर्हसि । स्मर रिक्षं तथा व्याघ्र वटे यद्विहितं त्वया ॥१११॥1॥ ते नराः पुण्यवन्तः कौ मित्रस्यापकृतं बहु । ये मन्यन्ते महासत्त्वाः कीर्तिव्याप्तदिगन्तराः॥११२॥ वंदितोपचितोऽत्यर्थं पालितो बालपुत्रवत् । यः पायः पापहीनस्य कां गतिं स प्रयास्यति ॥११३॥ तेन ते पापरूपेण नर पाप दुरात्मना । दह्यते हृदयं किं न शुष्कैधमिव वह्निना ॥ ११४ ॥ हंति पक्षद्वयं सोऽपि यो नरः साध्वसूयकः । व्याजेन सेवनं कुर्यान्मित्रस्य धनदायिनः ॥११५॥ किं तेन न समं वैरं कृतमन्यत्र जन्मनि । येन रिक्षमिमं पाप निद्रालुं हन्तुमिच्छसि ॥ ११६॥ 15 चिरोपार्जितवैराशा नराः पापं सुदारुणम् । न कुर्वते महापाप यथा त्वं दुष्टमानसः ॥ ११७ ॥ दुष्टचित्त न किं वेत्सि सर्वराद्धान्तजं फलम् । अत्रामुत्र सुखं नास्ति मित्रवञ्चनकारिणाम् ॥११८॥ सेतुं प्राप्य नदीनं वा सरितः संगम खल । ब्रह्महा शुद्धिमायाति कृतघ्नो नैव जातुचित् ॥११९॥ मित्रबान्धवसंयुक्तः साधुभृत्यपरिच्युतः । अप्राप्नुवन् वने स्थानं कृतघ्नो नरकं व्रजेत् ॥ १२० ॥ पुरे वससि यत्पाप वृक्षाटव्यां प्रयोजनम् । सिंहशार्दूलरिक्षाणां कथं जानासि मानसम् ॥ १२१॥ 20 मानसे मम सावित्री रसनाने सरस्वती । तेनेदं नृप जानामि गुह्यान्ते तिलकं यथा ॥ १२२ ॥ श्रुत्वा वाररुचं वाक्यं तन्मनःप्रीतिकारिणम् । नन्दोऽमुं स्थापयामास स्वपदे तुष्टमानसः॥१२३॥ षडङ्गान्यस्य जिह्वाग्रे स्वक्रमो येन रक्षितः । सोऽयं गुणी चतुर्वेदी दैवमाक्रम्य खण्डितः ॥१२४॥ श्लोकोऽयमिन्द्रदत्तेन नन्दभूपालसंनिधौ । पठितः खानुरागेण सभामध्यानुयायिना ॥ १२५ ॥ एते यथाक्रमं सर्वे वररुच्यादयोऽनघाः । तस्थुः खधामसु स्पष्टं नन्दभूपालमानिताः ॥ १२६ ॥ 25 अत्रान्तरे महापद्मसूरिः संघसमावृतः । नगरं पाटलीपुत्रमाजगाम महामनाः ॥ १२७ ॥ श्रुत्वा समागतं सूरिं तत्पुरोधानमण्डपे । शकटालः परिप्राप धर्मामृतपिपासया ॥ १२८ ॥ त्रिः परीत्य तमीशानं वन्दित्वा भक्तितो भृशम् । श्रुत्वा जैनेश्वरं धर्म हित्वा सर्व परिग्रहम् ॥१२९॥ महापद्मगुरोः पार्श्वे महावैराग्यसंगतः । शकटालो विनीतात्मा तपो जैनमशिश्रियत् ॥ १३०॥
- 1 [नरकुञ्जर]. 2 पफज युगलमिदम्. 3 पफज त्रिकलमिदम्. 4 Verses, Nos. 111 to 120, begin with the letters mentioned above (after verse No. 83). In the Mss, the letters 3 etc. are written at the beginning of each verse, being separated by two Daņdas. For the convenience of printing, those letters are put here in dark type. 5 [प्रायः पापहीनश्च]. 6 पफज कुलकमिदम्. 7 पफ प्रीतकारिणम्. 8 पफज युगलमिदम्.
बृ० को० ४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org