________________
३५२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१५७. ७२० एवं संतिष्ठतेऽमुष्मिन् एको रिक्षोऽतिचञ्चलः' । व्याघ्रभीतः परिप्राप्य तं वटं पृथुमण्डलम् ॥७२॥ न्यग्रोधकं समारुह्य राजपुत्रसमीपके । स्थित्वा जगाविमं रिक्षो नृराजंस्तिष्ठ निर्भयः ॥७३॥ तत्कुमारान्तिके यावद्रिक्षस्तिष्ठति निर्भयः । तावद्व्याघ्रोऽपि संप्राप्य तद्वटाधःस्थितो जगौ ॥ ७४ ॥ मित्र क्षुधापरिश्रान्तस्तिष्ठाम्यत्र वटान्तिके । सुप्तनरमिमं मुञ्च भोजनार्थं मम द्रुतम् ॥ ७५ ॥ • रिक्षो निशम्य तद्वाक्यं पुण्डरीकं जगाविदम् । बुभुक्षाग्रस्तचेतस्कं वटमूलव्यवस्थितम् ॥ ७६ ॥ मदन्तिकं परिप्राप्तं शरणार्थं महावने । अमुं कथं प्रमुञ्चामि सुप्तं नन्दस्य नन्दनम् ॥ ७७ ॥ आकयं तद्वचो व्याघ्रो बभाणेमं पुरस्थितम् । कृतघ्ना मानुषाः सन्ति मुञ्चसे तेन मां प्रति ॥७८॥ मूकभावं परिप्राप्य स्थापयित्वा निजान्तिके । कुमारं सोऽपि सुष्वाप निद्राघूर्णितलोचनम् ॥७९॥ रिक्षेऽमुष्मिन् प्रसुप्ते च पुण्डरीको जगावमुम् । कुमारेमं प्रमुञ्चाशु येन भुक्त्वा व्रजाम्यतः ॥८॥ 10 सुनन्दस्तद्वचः श्रुत्वा जगौ व्याघ्र क्षुधादितम् । दुष्टाश्वेनाहमानीतो वनं व्याघ्र भयावहम् ॥८॥
एकाकी रक्षितोऽनेन वटवृक्षेत्र शोभने । कथमेतं प्रमुञ्चामि भवन्तं प्रति सांप्रतम् ॥ ८२ ॥ एवं निगद्य तं तत्र रिक्षो हस्तद्वयेन च । उत्थापितः कुमारेण रुषं प्राप्य जगावमुम् ॥ ८३ ॥
उ ते वं ते हं किं चि दु सि मि ।। मुक्ताक्षराणि चैतानि दशापि त्वं नराधम । शेषाक्षरेषु यत्कार्यं भूतं भावि भवत्यपि ॥ ८४ ॥ is अथवा योऽर्थमेतेषामक्षराणां भविष्यति । सर्वेषामपि तं दृष्ट्वा तस्य कार्य भविष्यति ॥ ८५ ॥
एवमुक्त्वा तकं रिक्षो व्याघ्रोऽपि वटदेशतः । अदर्शनीयतां प्राप्य यथास्वं निलयं गतः ॥८६॥' प्रभातसमये जाते सुनन्दः प्रीतमानसः । पितुरुत्कण्ठितो भूत्वा ययौ स्खं स निकेतनम् ॥ ८७॥ यत्कोऽपि तगृहे वाक्यं तत्समं वदति स्फुटम् । तत्तस्य हृषयन् सर्व कुमारो व्यवतिष्ठते ॥ ८८॥
नन्दः पलाशकूटाख्यग्रामलोकमशेषकम् । तदानीमादिदेशेदं कोपलोहितलोचनः ॥ ८९ ॥ 20 आकाशभूमिसंत्यक्तं जलमानीयतां मम । यदि नानयसि क्षिप्रं दण्डयोग्योऽसि सांप्रतम् ॥९०॥
नन्दभूपवचः श्रुत्वा समस्तः श्रुतपूर्वकम् । "पलाशकूटसंजातजनोऽजनि ससाध्वसः ॥ ९१ ॥ पलाशकूटजं लोकं विलोक्य भयविह्वलम् । इदं वररुचिः प्राह विपश्चिद्गणसंमतः ॥ ९२॥ स्नानं विधाय विश्रब्धः कुरुध्वं भोजनं जनाः । प्रवेशयामि तस्याहं प्रभाते जलमुत्तमम् ॥ ९३ ॥ विश्रब्धीकृत्य तल्लोकं तदा वररुचिः पुनः । तत्तोयप्रापणे बुद्धिं चकारेमा विचक्षणः ॥ ९४ ॥ 25 उपाचलभृतान् कुम्भांस्तजनस्य समर्प्य सः । इमं प्रवेशयामास नन्दभूपालसंनिधिम् ॥ ९५॥" तद्रामवासिलोकेन मुक्तान् जलभृतान् कुटान् । विलोक्य भूपतिः प्राह तल्लोकं बहुविस्मयः ॥९६॥ इदं जलं कुतो लब्धं भवद्भिस्तोषसंगतैः । कुतो वत्स समानीतं जनाः कथयताशु मे ॥ ९ ॥ नन्दवाक्यं समाकर्ण्य तज्जनो निजगाद तम् । महाविस्मयसंपन्नं भयवेपितविग्रहः ॥ ९८॥ पलाशकूटसद्रामात् समानीतमिदं जलम् । उषासमुद्भवं राजन्नस्माभिर्भवदन्तिकम् ॥ ९९ ॥ 30 पलाशकूटलोकस्य निशम्य वचनं नृपः । भूयो बभाण तं रुष्टो विस्मयव्याप्तमानसः ॥१०॥
युष्माकं केन संदत्तो ह्युपदेशोऽयमीदृशः । एतद्वदत मे सत्यं यथावृत्तं महत्तराः ॥ १०१॥
1 The Mss. uniformly read रिक्ष which is retained, but better [ ऋो]. 2 पफ रक्षो, [ऋक्षो]. 3 [सुप्तं]. 4 पफ युग्मम् , ज युगलम्. 5 पफ युग्मम् , ज युगलम्. 6 [से ], 7 पफज चतुःकुलकमिदम्. 8 ज पलाशकूपाख्य. 9 पफज युगलमिदम्. 10 ज पलाशकूपसं. 11 पफज चतुःकुलकमिदम्. 12 पफ युग्मम् , ज युगलम्. 13 पफ युग्मम् , ज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org