________________
-१५७. ७१] शकटालमुनिकथानकम्
३५१ निर्माल्यस्य सतस्तत्र संबन्धेन परीक्षणम् । कृत्वा निर्धाटितोऽनेन पिशाचोऽपि तदन्तिकात् ॥४७॥ ततो निर्धाटितेऽमुष्मिन् शकटालेन तगृहात् । श्रेष्ठिनस्तस्य संजाता सा भार्या वशवर्तिनी ॥४८॥ नन्दोपरि रुषं धृत्वा छिद्रान्वेषी दिवानिशम् । भस्मगूढाग्निवत् तस्थौ शकटालः प्रियंवदः॥४९॥ लब्ध्वा वररुचिर्दिव्यं नन्दराज्यपदं ययौ । नरेन्द्रशेखरीभूतः संतस्थे प्रीतमानसः ॥ ५० ॥ अनयोस्तिष्ठतोरेवं नन्दो वररुचिं जगौ । कौतुकव्याप्तचेतस्को महासामन्तमध्यगः ॥५१॥ काव्यस्य भट्टपुत्राहं चतुर्थं पादमादरात् । करोमि त्वं पुनः शीघ्रं कुरु पादत्रयं बुध ॥ ५२ ॥ नन्दस्य वचनं श्रुत्वा सभामध्यानुयायिनः । ऊचे वररुचिः स्पष्टमेवं भवतु भूपते ॥ ५३॥ ततोऽन्यदिवसे जाते प्रविष्टस्यास्य संसदम् । नन्दो जगाद तं भूयस्त्विदं संतुष्टमानसः ॥ ५४॥
विपश्चितां मानसवल्लभोऽयं श्रुतिप्रियः स्पष्टवराक्षरोक्तिः।।
लब्धो मया काव्यचतुर्थपादो रणं टणं टण्टणटण्टणेति ॥ ५५ ॥ बालवृद्धमनोहारि बुद्धकर्मरसायनम् । काव्यपादत्रयं ब्रूहि प्रथमं त्वं महामते ॥५६॥ नन्दवाक्यं समाकर्ण्य तोषकण्टकिताङ्गकः । काव्यपादत्रयं प्रोचे पूर्व वररुचिस्त्विदम् ॥ ५७॥
नन्दनस्य राज्ञो मदविह्वलाया हस्ताच्युतः स्वर्णघटो युवत्याः। सोपानमाश्रित्य करोति शब्दं रणं टणं टण्टणटण्टणेति ॥ ५८॥ कपाटमाश्रित्य वराङ्गनायाः संदर्शितो यौवनगर्वितायाः।
न रोचते तस्य जितेन्द्रियस्य सनूपुरः प्रव्रजितस्य पादः ॥ ५९॥ नाप्यागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयो न भवति प्रथमप्रदोषे । अव्यक्तनूपुररवध्वनिबोधितेन पारापतेन पतता कृतमन्धकारम् ॥ ६०॥
सुभ्र सुचारुरयं कविपुत्रो राजपथेन गतः प्रवदन् सः। पश्चिमपादमिमं हि पठंश्च कर्कशनालमकर्कशनालम् ॥ ६१॥ कापि न मेऽस्ति हि कारणबुद्धिस्तस्य पदस्य परस्य न वेत्ता। मामिदमद्य भणिष्यति राजा कर्कशनालमकर्कशनालम् ॥ ६२ ॥ उत्पलनालकृताभरणा सा त्वं न गतः स्थित एव निराश । अद्य कृतं कमलं कमलाक्षि कर्कशनालमकर्कशनालम् ॥ ६३॥ अङ्गुलितर्जनजर्जरिताङ्गं शीर्णविशीर्णपवित्रपलाशम् ।
अद्य कृतं कमलं कमलाक्षि कर्कशनालमकर्कशनालम् ॥ ६४ ॥ निशम्य वचनं तस्य शकटालो जगौ नृपम् । राजन्नस्य मतिर्दुष्टा त्वदन्तःपुरनाशिनी ॥६५॥ शकटालवचः श्रुत्वा कोपारुणनिरीक्षणः । जगाद किङ्करान् राजा भृकुटीभीषणालिकः ॥ ६६ ॥ इमं वररुचिं दुष्टमन्तःपुरविनाशिनम् । बहिर्नगरतो नीत्वा कुरुतास्य विहिंसनम् ॥ ६७॥" नन्दोदितं समाकर्ण्य गृहीत्वाऽमुं च किङ्कराः । मुक्त्वा वररुचिं मार्गे जनुरन्यं नरं पुनः ॥६८॥ पाटलीपुत्रसंज्ञस्य पुरस्यास्य समीपगम् । पलाशकूटनामानं ग्रामं प्राप्य स तस्थिवान् ॥ ६९॥ अथ नन्दस्य भूपस्य नन्दनो दुष्टवाजिना । नीतोऽटवीं तरुच्छन्नां सुनन्दो नाम विश्रुतः ॥७॥ भिन्नालनसमानायां क्षणदायां स तद्वने । न्यग्रोधवृक्षमारुह्य तस्थौ नरपतेः सुतः ॥ ७१॥
1 पफ युग्मम् , ज युगलम्. 2 पफज युगलमिदम्. 3 [नन्दस्य ]. 4 पफज चतुष्कुलकमिदम्. 5 पफज युगलमिदम्. 6 पफज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org