________________
३५० हरिषेणाचार्यकृते बृहत्कथाकोशे
[१५७. १३दृष्ट्वाऽमुं देवता विप्रं स्वपादपतितं वने । ददौ वरमिमं तुष्टा द्विजायास्मै कृपावती ॥१३॥ नानाशास्त्रकृताभ्यासश्चतुर्वेदषडङ्गधीः । त्वं काव्यनाटकोपेतः संक्षेपेण भविष्यसि ॥ १४ ॥ एवं निगद्य तं देवी संप्रेष्य निजमन्दिरम् । तोषपूरितचेतस्कः संतस्थे स निजास्पदे ॥ १५॥
एवं संतिष्ठतेऽमुष्मिन् कौशाम्बीनगरान्तिके । वटग्रामेऽभवद् विप्रः सूर्यशर्मा जनप्रियः ॥ १६ ॥ । वसुमित्रा प्रिया तस्य मनोनयनवल्लभा । पुत्रो वररुचिस्तस्यां बभूव विनयान्वितः ॥ १७॥
ततो वररुचिः पूर्वं नमुचिश्च बृहस्पतिः । इन्द्रदत्तोऽप्यमी सर्वे पठनार्थं विनिर्ययुः ॥ १८॥ एकसंस्थो भवेदाद्यः स्फुटं वररुचिर्बटुः । द्विसंस्थो नमुचिः प्रोक्तस्त्रिसंस्थोऽयं बृहस्पतिः ॥ १९॥ इन्द्रदत्तश्चतुःसंस्थो यथाक्रममवस्थिताः । उपाध्यायगृहे सर्वे पठन्ति प्रीतचेतसः ॥२०॥ अपरो ब्राह्मणस्तेषां चतुर्णामपि सर्वदा । संस्थामेकां ददात्येष चारुनादेन सर्वदा ॥ २१ ॥ " एकया संस्थया तत्र नूनं वररुचिर्बटुः । स्वीकरोति तदुक्तार्थ समस्तमपि मूलतः ॥ २२ ॥ एकां वररुचिः संस्थां त्रयाणामपि शोभनाम् । ददाति नमुचिः स्पष्टं तयादत्ते तदुक्तिकम् ॥२३॥ ददाति नमुचिर्भूयः संस्थामेकां द्वयोरपि । तया बृहस्पतिः क्षिप्रमादत्ते तेन भाषितम् ॥ २४ ॥ भूयो बृहस्पतिः संस्थामिन्द्रदत्तस्य चैकिकाम् । ददाति प्रीतचेतस्को वाचा धीरगभीरया ॥२५॥
तदुक्तमिन्द्रदत्तोऽपि यथावस्थितमादरात् । संस्थाचतुष्टयेनापि गृह्णाति सकलं द्रुतम् ॥ २६ ॥ 15 अनेन विधिना सर्वे वेदवेदार्थपारगाः । पठन्तोऽनुदिनं हृष्टा बभूवुः शास्त्रवेदिनः ॥ २७॥ ततः सर्वेऽपि ते पुष्टाः' प्रदाय गुरुदक्षिणाम् । एकवर्णमनोहारि गोसहस्रसमुद्भवम् ॥ २८॥ नगरे पाटलीपुत्रे पताकावलिभासिते । ययुनन्दसमीपं ते तोषविस्फारितेक्षणाः ॥ २९ ॥ अत्रान्तरे महीपालो नन्दाख्यो नन्दितावनिः । कालगोचरतां प्राप्तो विधि को वाऽवलङ्घयेत् ॥३०॥ देहसंक्रमणोपेतविद्यया नमुचिस्तदा । हित्वा शरीरमत्रैव नन्दकायं विवेश सः ॥ ३१ ॥ 20 एवं कृतेऽमुना नूनमुत्थाय सहसा पुनः । नन्दश्चिरंतने राज्ये तस्थौ मुदितमानसः ॥ ३२ ॥
एकवर्णगवां दिव्यं सहस्रं बहुदुग्धकम् । वररुच्यादिविप्रेभ्यो ददौ नन्दः स्वतोषतः ॥ ३३ ॥ गोसहस्रमिदं दिव्यमुपाध्यायस्य तैः पुनः । अन्यस्य कस्यचिद्धस्ते प्रेषितं तोषमागतैः ॥ ३४ ॥ गोसहस्रमिदं दृष्ट्वा चोपाध्यायोऽन्तिके तदा । सुरुष्टेनापरेणैभ्यो दत्तः शापोऽयमीदृशः ॥ ३५ ॥
गोसहस्रमिदं खेन गृहीत्वा खलचेष्टिताः । मदन्तिकं न संप्राप्ताः परहस्ते प्रवेशितम् ॥ ३६ ॥ 25 अनेन नमुचेः शापो मद्यविद्यालनामकः । स मारणात्मकः शापो दत्तो वररुचेरपि ॥ ३७॥ इन्द्रदत्तस्य शापोऽयं वितीर्णोऽनेन कोपिना । महाग्रहसमुत्थानं ग्रहणं ते भविष्यति ॥ ३८॥ शापमेवंविधं लब्धं स्वयोग्यमपरद्विजात् । योगानन्दस्य कुर्वाणाः सेवां तिष्ठन्ति ते पुनः ॥ ३९ ॥ एवं हि तिष्ठतां तेषां मद्यं दोषावहं नृणाम् । योगानन्दपरीक्षार्थ शकटालेन पायितः ॥ ४०॥ नन्देनापि च रुष्टन शरावं भक्तिपूरितम् । एवं दिने दिने साधु कांजिकेन प्रयच्छता ॥४१॥ 30 घनान्धकारसंयुक्ते चाण्डकारे भयानके । शतेन सह पुत्राणां शकटालो निधापितः ॥ ४२॥
अत्रैव नगरे श्रेष्ठी दत्तान्तः सागरादिकः । बभूव लोकविख्यातः सुनन्दाख्यप्रियापतिः ॥४३॥ ततो भोजनवेलायामनेन श्रेष्ठिना सह । एको हि श्रेष्ठिरूपेण पिशाचो भोक्तुमिच्छति ॥ ४४ ॥ बुभुक्षाग्रस्तचित्तस्य तत्सम भोक्तुमिच्छतः । व्यवहारो बभूवायं तदा श्रेष्ठिपिशाचयोः ॥४५॥ स्मृत्वेमं भूभुजा तत्र शकटालं महामतिम् । कूपादुत्तारितः शीघ्रमयं कौतुकमिच्छता ॥ ४६॥
__ 1 ज तुष्टाः. 2 पफ युग्मम् , ज युगलमू, 3 [ चण्डागारे ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org