________________
- १५७. १२ ]
शकटालमुनिकथानकम्
३४९
स्थापयित्वा जनं सर्वं जिनायतनबाह्यतः । जिनं मुनिगणं नत्वा प्रविश्यात्र जिनालयम् ॥ २७ ॥ ततो मन्त्रनिमित्तेन जिनचैत्यालयान्तरे । विवेश भक्तिसंपन्नो राजाचार्योऽभिसारकः ॥ २८ ॥ जिनायतनगर्भस्थास्त्रयोऽपि प्रीतमानसाः । खदुःखसुखसंपन्नास्तिष्ठन्ति कृतजल्पनाः ॥ २९ ॥ आचार्यपादयोर्यावच्छिरसा भूतलस्पृशा । करोति पतनं राजा जानुस्पृष्टमहीतलः ॥ ३० ॥ तावदादाय वेगेन खड्गधेनुं सिताननाम् । हत्वा तया गले भूपं नष्टोऽयमभिसारकः ॥ ३१ ॥' क्षुरिकैकप्रहारेण विह्वलीभूतमानसः । पतित्वा धरणीपीठे ममारायं महीपतिः ॥ ३२ ॥ मृतं महीपतिं दृष्ट्वा पतितं तं जिनाग्रतः । दध्यौ स्वचेतसि क्षिप्रमाचार्योऽयं कुशाग्रधीः ॥ ३३ ॥ उपप्लवोऽयमीदृक्षः शमनं याति निश्चितम् । न विनात्मविघातेन विहितेन महीतले ॥ ३४ ॥ एवं विचिन्त्य योगीन्द्रो नृपरक्तं प्रगृह्य सः । करेणैतां च तत्कुड्ये लिलेखाक्षरपतिकाम् ॥३५॥ मयेदं कर्म नो लोक विहितं नियतं भुवि । कृतमेतदिदं क्षिप्रमभिसारेण सांप्रतम् ॥ ३६ ॥ लोकापवादभीतेन मुनिवेषविधायिना । उपप्लवविनाशार्थं मया स्वस्य वधः कृतः ॥ ३७ ॥ एवंविधां हि तत्कुये लिखित्वाऽक्षरपतिकाम् । खनिन्दनादिकं कृत्वा जिनेन्द्रपदसंनिधौ ॥ ३८ ॥ जिनेन्द्रदीक्षया शुद्धः सर्वत्यागं विधाय च । स्मरन् पञ्चनमस्कारं धर्मध्यानपरायणः || ३९ ॥ स्वकीयमुदरं हत्वा करवाल्याऽतितीक्ष्णया । समाधिमरणं प्राप्य सूरिरेष दिवं ययौ ॥ ४० ॥ * वीरसेन कुमारोऽपि दृष्ट्वैतौ मृतिमागतौ । उपसर्ग चकारास्य संघस्य सकलस्य सः ॥ ४१ ॥ जिनमन्दिरसद्भित्तौ प्रवाच्याक्षरपङ्क्तिकाम् । आचार्यलिखितां स्पष्टां निजाभिज्ञानसंगताम् ॥४२॥ स्वनिन्दनविधिं कृत्वा जिनधर्मविधायकः । वीरसेनकुमारोऽयं तस्थौ कृतजिनस्तुतिः ॥ ४३ ॥ ॥ इति श्री अभिसारशस्त्र निहतजयसेननृपतिकथानकमिदम् ॥ १५६ ॥
*
1 पफ युग्मम् ज युगलमिदम्. 2 पफज कुलकम्. 3 ज आचार्यालिखितां 4 पफ अभिशारद. 5 पफ No. 156, ज No. 155. 6 [ वेदाङ्गस्मृति ]. 7 पफज चतुष्कुलकमिदम्.
Jain Education International
5
१५७. शकटालमुनिकथानकम् ।
॥
अभवत् पाटलीपुत्रे नन्दो नाम महीपतिः । सुनन्दा तन्महादेवी नन्दिताशेषबान्धवा ॥ १ ॥ अस्यैव भूपतेर्मत्री शकटालो महापतिः । महाबन्धुत्वमापन्नः प्रीणिताशेषभूपतिः ॥ २ ॥ अथ साधुजनाकीर्णे विषये वत्सकाभिधे । आसीदत्र धनापूर्णा कौशाम्बी नगरी परा ॥ ३ ॥ सुभूतिर्ब्राह्मणस्तस्यां तद्भार्या कपिलाभिधा । द्वावभूतां सुतौ तस्यां रूपराजितविग्रहौ ॥ ४ ॥ आद्येोऽपराभिधो ज्ञेयो वेदस्मृतिविवर्जितः । सोमिल्लारमणीकान्तो मुग्धभावो प्रियंवदः ॥ ५ ॥ अपरो वेदवेदाङ्गः" स्मृतिशास्त्रार्थकोविदः । समस्तलोकविख्यातः सुप्रभाख्यप्रियापतिः ॥ अन्यदा दुःखसंतप्ता सोमिल्ला दीनमानसा । उपोषिता प्रयत्नेन व्रतं दुःखवताविधिम् ॥ ७ ॥ अवसाने विधेरस्य मूर्खकर्कशतायुजः । द्विजस्य भोजनं पश्चाद्दातव्यं विधियोगतः ॥ ८ ॥ इदं विचिन्त्य सा तत्र सोमिल्लाऽपरनामकम् । भोजयित्वा निजं कान्तं मृष्टाशनविधानतः ॥ ९ ॥ दत्त्वाऽस्मै कृष्णवस्त्राणि तथा कृष्ण वृषद्वयम् । कृष्णोपकरणं सा तं विससर्ज जुगुप्सितम् ॥१०॥ * भुक्त्वा तद्भोजनं सोऽपि निर्गत्य शनकैर्गृहात् । उक्तोऽहमनया मूर्खो विवेश गहनं वनम् ॥११॥ नानाश्वापदसंकीर्णे नानातरुसमाकुले । पादयोर्हि पपातायं देवताया भयोज्झितः ॥ १२ ॥
30
For Private & Personal Use Only
10
15
20
25
www.jainelibrary.org