SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ३४८ हरिषेणाचार्यकृते बृहत्कथाकोशे [१५५. १३वारद्वयं ममानेन व्रतभङ्गः कृतः कथम् । अयं तृतीयवेलायां तपोभङ्गं करिष्यति ॥ १३ ॥ एवं विचिन्त्य तत्रत्यः स साधुः साधुचेष्टितः । संन्यास विधिना कालं कृत्वाऽभूत् त्रिदिवेश्वरः॥१४॥ ॥ इति वृषभसेनमुनिकथानकमिदम् ॥ १५५ ॥' १५६. जयसेननृपतिकथानकम् । 5 जयसेनो महीपालः श्रावस्तीनगरीभवः । आसीदुपासकः श्रीमान् वीरसेनाऽतिवल्लभः ॥ १॥ हारराजितवक्षस्कः कलाविज्ञानकौशलः । वीरसेनोऽभवत् पुत्रस्तयोरत्यन्तवल्लभः ॥२॥ मनसा वाञ्छितं भोगं तया सार्धं दिवानिशम् । अयं प्रेमाकरो रूपी भुञ्जानो व्यवतिष्ठते ॥३॥ अस्यामेव पुरि क्षुद्रः शिवगुप्ताभिधानकः । भिक्षुरेकः ससंघोऽसौ वसति प्रीतमानसः ॥ ४ ॥ भूपालस्य गुरुः प्रेयान्निजराद्धान्तकोविदः । व्याख्यानं विदधत्तस्य संघस्य पुरतो मदी ॥५॥ 10 अन्यदा बिहरन कापि वृषभो यतिपूर्वकः । राजाचार्यः समायातः श्रावस्ती संघसंगतः ॥ ६॥ जयसेनस्तदाभ्यास श्रुत्वा जैनेश्वरं वृषम् । बौद्धधर्मं विहायाशु बभूव श्रावको महान् ॥ ७॥ अनेन भूभुजा तत्र सामन्तान्तःपुरादिकः । महाजनपदः सर्वः श्रावकः परमः कृतः ॥ ८॥ खकीयं मण्डलं तेन जिनायतनमण्डितम् । कारितं भक्तियुक्तेन जयसेनेन सर्वतः ॥ ९॥ एवं कृतेऽमुना राज्ञा जिनधर्मं प्रकुर्वता । शिवगुप्ताभिधो भिक्षुश्चकोपास्मै नरेशिने ॥ १०॥ 15 शिवगुप्तो रुषं प्राप्य जयसेनस्य धीमतः । नितान्तं मारणोपायं दध्यौ मनसि दुष्टधीः ॥११॥ अन्यदा क्रोधरक्ताक्षः पृथिवीपुरनायकः । बभूव सुमती राजा बौद्धधर्मपरायणः ॥ १२ ॥ अनेन भूभुजाऽवाचि शिवगुप्तो निजो गुरुः । बुद्धदेवं विहायेमं जयसेनो जिनं श्रितः ॥ १३ ॥ निशम्य तद्वचः कोपी शिवगुप्तः खरध्वनिः । लेखं प्रवेशयामास जयसेननृपान्तिके ॥१४॥ बुद्धधर्म विहायेम समस्तसुखकारणम् । जयसेन दुराचार जिनधर्म प्रपन्नवान् ॥ १५॥ 20 मां यदीच्छसि रे मूढ जिनधर्म विहाय च । ततो बुद्धोदितं धर्म गृहाण सुखवाञ्छया ॥ १६ ॥ तल्लेखदर्शनेनापि जयसेनो जिनप्रियः । ग्रहीतुं नेच्छति क्रूरं बुद्धधर्म मनागपि ॥ १७॥ एवं ह्यनिच्छतस्तस्य बुद्धधर्म मनीषिणः । जिनधर्मानुरक्तस्य जयसेनस्य भोगिनः ॥१८॥ अचलं दण्डसंयुक्तं सहस्रभटनामकम् । समीपं प्राहिणोति स्म सुमतिः सुमतिर्नृपः ॥ १९॥" श्रावस्ती नगरी प्राप्य जयसेनं प्रवेष्ट्य च । हस्त्यश्वरथपादातैः स्कन्धावारो व्यवस्थितः ॥२०॥ 25 स्कन्धावारं जगादेदं सहस्रभटनामकः । घनाघनघनध्वानवीरनिर्घोषया गिरा ॥ २१॥ स्कन्धावारो मदीयोऽसौ न कोऽपि नरकुञ्जरः । जयसेनं दुराचारं यो निहन्ति निकारिणम् ॥२२॥ निशम्य वचनं तस्य दीनं गद्गदभाषिणः । उपासको वभाणैतं तदानीमभिसारकः ॥ २३ ॥ भवन्तस्तिष्ठतः स्वैरं भयं हित्वा शरीरजम् । कृतघ्नं दुष्टचेतस्कं जयसेनं निहन्म्यहम् ॥ २४ ॥ एवं निगद्य तं प्राप्य सेनान्तं वृषभादिकम् । मिथ्याविनययोगेन प्रवव्राजाभिसारकः ॥ २५॥ 30 एवं तपःस्थितं श्रुत्वा जयसेनो नराधिपः । तद्वन्दनार्थमायातो भक्तिहृष्टतनूरुहः ॥२६॥ ___1 All the Mss. pur No. 155. 2 पफ शिवगुप्तविधानकः. 3 [जयसेनस्तदभ्याशे ]. 4 ज नृपान्तिकम्. 5 पफ नेच्छसि. 6 पफज युगलमिदम्. 7 पफ युग्मम् , ज युगलमिदम्. 8 [भवन्तस्तिष्ठत]. 9 पफज युगलम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy