________________
-१५५. १२ ]
वृषभसेनमुनिकथानकम्
१५४. धर्मसिंहमुनिकथानकम् । विषये कोशलामिख्ये विद्यते कौशलं पुरम् । धर्मसिंहो नृपस्तत्र चन्द्रश्रीरमणो महान् ॥ १॥ प्रियसेनः सुतस्तस्य रूपराजितविग्रहः । विनयाचारसंपन्नः समस्तजनवल्लभः ॥२॥ दक्षिणापथदेशेऽस्ति कोल्लादिगिरिपत्तनम् । वीरसेनो नृपस्तत्र रूपी वीरवतीप्रियः ॥३॥ चण्डचित्तः खरारावी तत्सुतस्तनयाऽप्यभूत् । पद्मपत्रसमानाक्षी पद्मपाणिपदद्वया ॥४॥ धर्मसिंहो नरेन्द्रोऽयं धर्मभूषितसन्मतिः । चन्द्रश्रिया समं भोगान् भुञ्जानो व्यवतिष्ठते ॥५॥ अन्यदा धर्मसिंहोऽयं राजा दमवरान्तिके । धर्म श्रुत्वा प्रवव्राज त्यक्ताशेषपरिग्रहः ॥ ६॥ चन्द्रश्रीरपि तद्भार्या सर्वव्यापारवर्जिता । स्मरन्ती भर्तुरत्यन्तं संतस्थे दीनमानसा ॥७॥ चण्डभूतोऽपि तां दृष्ट्वा स्वसारं दुःखदुःखिताम् । साधोरन्वेषणां चक्रे ग्रामखेटपुरादिषु ॥८॥ चण्डभूतो विलोक्येमं साधु तपसि संस्थितम् । व्रतभङ्गं चकारास्य भूयो भूयः प्रचण्डवाक् ॥९॥10 राजा राज्यश्रियं हित्वा महावैराग्यसंगतः । भूयो जैनेश्वरीं दीक्षां जग्राह गतमत्सरः ॥१०॥ ततः पश्चिमवेलायां चण्डभूतो महाग्रहः । अन्वेषणं चकारास्य साधोरस्य पुनः पुनः ॥११॥ प्रविशन्तं ततो दृष्ट्वा कोलादिगिरिपत्तनम् । दधाव पृष्ठतस्तस्य चण्डभूतः क्रुधान्वितः ॥ १२ ॥ मुनिर्मध्याह्नवेलायां भिक्षां कृत्वा स तत्पुरे । दृष्ट्वाऽमुं चण्डभूतं च दध्यावेवं स्वचेतसि ॥ १३ ॥ बहुधाऽनेन मे पूर्वं व्रतभङ्गः कृतो बलात् । अधुनाऽयं किमु क्षिप्रं तपोनाशं करिष्यति ॥ १४ ॥ 15 चिन्तयित्वा चिरं योगी विधायालोचनां पुनः । शरीरादेस्तथा त्यागं विष्टो हस्तिकलेवरे ॥१५॥' चण्डभूतोऽपि संक्रुद्धस्तत्पुरे सकले तदा । अदृष्ट्वा तं मुनि कापि विवेश निजपत्तनम् ॥ १६ ॥ धर्मसिंहो नृपस्तत्र कालं कृत्वा समाधिना । दिव्यबुन्दीधरो जातो देवोऽयं दिवि भासुरः ॥१७॥
॥ इति श्रीधर्मसिंहमुनिकथानकमिदम् ॥ १५४ ॥
१५५. वृषभसेनमुनिकथानकम् । बभूव पाटलीपुत्रे नगरे जनसंकुले । वृषभोपपदो दत्त इभ्यः श्रेष्ठी महाधनः ॥ १॥ वृषभश्रीः प्रिया तस्य कन्दोट्टदललोचना । वृषभोपपदः सेनः सगुणस्तत्सुतोऽभवत् ॥२॥ तस्मिन्नेव पुरे भोगी श्रेष्ठी धनपतिर्धनी । श्रीकान्ता तत्प्रिया चार्वी धनश्रीस्तत्सुताऽभवत् ॥३॥ एषा वृषभसेनाय वितीर्णा जनकेन च । अनया सह भुञ्जानो भोगांस्तस्थौ सुलीलया ॥४॥ अन्यदा धर्ममाकर्ण्य जैनं दमवरान्तिके । भोगनिःस्पृहचेतस्कः प्रवव्राज स धीरधीः ॥५॥ धनश्रीरपि शोकार्ता रोदनारक्तलोचना । तस्थौ गततनुच्छाया कपोलपतितालका ॥ ६॥ दृष्ट्वा धनश्रियं श्रेष्ठी खसुतां दुःखिनी तदा । साधोरन्वेषणं तस्य तत्कान्तस्य चकार सः ॥७॥ दृष्ट्वाऽमुं योगिनं क्वापि प्राध्वंकृत्य रुषान्वितः । कृत्वाऽमुना तपोभङ्गं सुतायै स समर्पितः ॥ ८॥ दिनानि कानिचित् स्थित्वा तया साकं धनश्रिया । वरदत्तान्तिके दीक्षां जग्राहासौ विशुद्धधीः ॥९॥ अनेन विधिना तेन वारद्वितयमस्य च । तपोभङ्गं विधायाशु भूयोऽपि तपसि स्थितः ॥१०॥ भूयस्तृतीयवेलायां बवाऽमुं खगृहान्तरे । श्रेष्ठी प्रवेशयामास साधु साधितमानसम् ॥ ११॥ खबन्धवेदनाधारव्याकुलीभूतमानसः । दध्याविदं पुनः साधुः श्रेष्ठिमन्दिरमध्यगः ॥ १२ ॥
1 पफज निकला.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org