________________
3
10
25
30
३४६
हरिषेणाचार्यकृते बृहत्कथाकोशे
१५२. सुकोशलमुनिकथानकम् ।
विनीताविषये कान्ते साकेता नगरी परा । अस्यां कीर्तिधरो राजा सहदेवीधवोऽभवत् ॥ १ ॥ परस्परसुखासंगप्रेमसंसक्तचेतसोः । सुकोशलाभिधो रूपी बभूव तनयोऽनयोः ॥ २ ॥ पितापुत्रौ तकौ दृष्ट्वा शरीरादेरनित्यताम् । महातपोधनौ जातौ जिनसेनान्तिके द्रुतम् ॥ ३ ॥ चतुर्मासोपवासस्थौ मौण्डिल्यधरणीतले । तस्थतुस्तौ महासाधू तरुमूले घनागमे ॥ ४ ॥ भर्तृपुत्रवियोगेन चार्तध्यानपरायणा । बभूव तद्भिरौ व्याघ्री सहदेवीति भीषणा ॥ ५ ॥ आहारार्थमितस्यास्य नगरं प्रति धीमतः । सुकोशलमुनेस्तत्र तथा कीर्तिधरस्य च ॥ ६॥ सहदेवीचरी व्याघ्री कोपारुणनिरीक्षणा । चखाद पिशितं पापा निर्दयं सकलं क्रुधा ॥ ७ ॥ उपसर्गं सहित्वाऽमुं तद्व्याघ्रीविहितं द्रुतम् । निर्वाणं जग्मतुर्वीरौ तद्भिरौ तौ तपोधनौ ॥ ८ ॥ ॥ इति श्रीसुकोशलमुनिकथानकमिदम् ॥ १५२ ॥
*
१५३. सुदृष्टिमुनिकथानकम् ।
अवन्तीविषये दिव्ये श्रीमदुज्जयिनी पुरी । प्रजापालो नृपस्तस्यां तत्प्रिया सुप्रभाऽभवत् ॥ १ ॥ अस्यैव भूपतेरासीद् रत्नविज्ञानकोविदः । सुदृष्टिर्नाम विख्यातस्तत्प्रिया विमलाभिधा ॥ २ ॥ अस्य वङ्काभिधः शिष्यो विमलाऽप्यमुना सह । तिष्ठति प्रीतचेतस्का कामाकुलितमानसा ॥ ३ ॥ 1 अथ मैथुनवेलायां विमलावचनेन सः । सुदृष्टिर्निहतोऽनेन वङ्गेन कुटिलात्मना ॥ ४ ॥ संजातो विमलागर्भे सुदृष्टिर्वनाशितः । जातिस्मरत्वमासाद्य सालसः स्थितवानसौ ॥ ५ ॥ अनेन कारणेनायं बालो बालक्रियोद्यतः । गतोऽलसत्कुमाराख्यां समस्तभुवनातिगाम् ॥ ६ ॥ उद्यानवनजातायाः सुप्रभाया रतं प्रति । कीटावर्ताभिधो हारत्रुटितोऽदृश्यतां ययौ ॥ ७ ॥ अन्वेषणं प्रकुर्वद्भिस्तन्नरैर्यत्नतत्परैः । महानुग्रहतः प्राप्तः स हारस्तद्वनान्तरे ॥ ८ ॥ 20 मध्ये सुवर्णकाराणां तत्पुरे सकले नरः । हारं न कोऽपि संस्कर्तुं शक्नोति कुशलाशयः ॥ ९ ॥ ततोऽलसत्कुमारेण गत्वा राजगृहं द्रुतम् । स हारः संस्कृतो दिव्यः प्रभोद्योतितपुष्करः ॥ १० ॥ राजा विलोक्य तं हारं संस्कृतं स्वपुरः स्थितम् । जगाविदं कुमारं तं विस्मयव्याप्तमानसः ॥११॥ इदं सुदृष्टि विज्ञानं त्वया सारं क्व शिक्षितम् । मम विस्मितचित्तस्य कुमार वद सांप्रतम् ॥ १२ ॥ निशम्य भूपतेर्वाक्यं कुमारो निजगाद तम् । आत्मा मया मृतः स्वेन जनितोऽयं स्वयोषिति ॥ १३ ॥ विमलेयं पुरा भार्या नृप माताऽधुना मम । अपुत्रोऽहं मृतोऽस्या हि संजातस्तनयो बत ॥ १४ ॥ श्रुत्वा सुदृष्टिसंबन्धं नरेन्द्रो बहुभिर्नृपैः | अभिनन्दनसामीप्ये तपो जैनमशिश्रियत् ॥ १५ ॥ अन्येऽपि बहवो लोका महाविस्मयसंगताः । जिनधर्मं सुखाधारं प्रतिपन्नाः सुमेधसः ॥ ततोऽलसत्कुमारोऽपि संसारत्रस्तमानसः । पूर्वोक्तस्य गुरोः पार्श्वे दीक्षां दैगम्बरीं दधौ ॥ नानातपः प्रकुर्वाणो मन्दरस्थिरमानसः । वरोत्तरदिशाभागं प्राप शौरीपुरस्य सः ॥ १८ अथालसत्कुमारोऽयं स्थित्वा पश्चिमरोधसि । यमुनायाः समाधानान्निर्वाणं गतवानसौ ॥ ॥ इति सुदृष्टिमुनि कथानकमिदम् ॥ १५३ ॥
॥
१९ ॥
[ १५२.१
For Private & Personal Use Only
१६ ॥
१७ ॥
*
1 प युग्मम् ज युगलम् फ has lost some letters. 2 ज कुटिलानना 3 पफ युग्मम्,
ज युगलम्.
Jain Education International
www.jainelibrary.org