________________
*
-१५१. १८] सुभोगभूपतिकथानकम्
३४५ द्वाभ्यां तत्सार्थवाहाभ्यां युगलं वृद्धिमागतम् । वीवाहमङ्गलं तस्य विहितं विधियोगतः ॥ ७२ ॥ योऽग्निभूतिसुतो ज्येष्ठस्तव वृन्दारिके परे । धनदेवः स मां हित्वा त्वदासक्तो वितिष्ठते ॥ ७३ ॥ सोमभूतिसुतो यो हि तवासीदन्यजन्मनि । कनिष्ठः कमला साऽहं सपत्नी त्वत्सुता हले ॥७४॥ या काश्यपी प्रिया भद्रे तवासीदन्यजन्मनि । साऽपि कालगतो जातः सुतोऽयं वरुणाभिधः ॥७॥ इदं मे मुनिना सर्व दिव्यज्ञानेन भाषितम् । तद्बोधनार्थमायाता सांप्रतं त्वत्समीपताम् ॥ ७६ ॥ 5 प्राप्योत्तमकुले जन्म साधुनिन्दाफलादिदम् । पुंवेदं त्यक्त्वा स्त्रीत्वं त्वं भूयः प्राप्ताऽस्यशोभनम् ॥७७॥ हिंसाऽसत्यं तथा चौर्यं मैथुनं च परिग्रहम् । विधाय पापकर्मेदं मधुमांसादिभक्षणम् ॥ ७८ ॥ अपारासारसंसारसागरं भीतिवीचिकम् । क्रोधमानादिनीरौघं भ्राम्यसि त्वं सुवालिके ॥ ७९ ॥ संसारकारणं सर्वं विहायेदं जुगुप्सितम् । मद्वाक्यतोऽधुना सर्वे कुरुध्वं धर्मसंग्रहम् ॥ ८०॥ कमलान्ते समाकर्ण्य जैन धर्ममहिंसकम् । वसन्ततिलका भीता धनदेवोऽपि संसृतेः ॥ ८१ ॥ सम्यक्त्वादिकमादाय वसन्ततिलका तदा । धनदेवोऽपि संजातः श्रावकः परमो भुवि ॥ ८२॥ कमलाभाषितं श्रुत्वा तचेष्टितमिदं तदा । केचिन्मुनित्वमापन्नाः केचिच्छ्रावकतां पराम् ॥ ८३॥
॥ इति धनदेववसन्ततिलकाकमलाकथानकम् ॥ १५०॥
१५१. सुभोगभूपतिकथानकम् । विदेहाख्यजनान्तेऽस्ति मिथिला नगरी परा । सुभोगनृपतिस्तस्यां तत्प्रिया च मनोरमा ॥१॥5 रूपयौवनसंयुक्तस्तयोर्दैवरतिः सुतः । कुलाद्यष्टमदोपेतस्तस्थौ स धरणीतले ॥२॥ अन्यदा संघसंयुक्तो दिव्यज्ञानी महातपाः । आययौ तत्पुरोधाने गणी देवकुरुः सुधीः ॥३॥ मुनिं तमागतं श्रुत्वा वन्दनार्थं नरेश्वरः । आजगाम तमुद्देशं मिथिलानगरीपतिः ॥ ४ ॥ नत्वा मुनिं प्रयत्नेन श्रुत्वा धर्मं सुखावहम् । पप्रच्छ स्वभवं पूर्व ज्ञानाम्भोधिं यतीश्वरम् ॥ ५॥ अन्यजन्मन्यहं नाथ कालं कृत्वा यतीश्वरः । क्व भविष्यामि मे ब्रूहि निजकर्मवशीकृतः ॥ ६ ॥ ॥ निशम्य वचनं साधुः सर्वसत्त्वहितावहः । जगादेमं मुनिर्भूपं महाकौतुकसंगतम् ॥ ७॥ अद्यप्रभृति राजेन्द्र सप्तमे दिवसे स्फुटम् । कालं कृत्वा शकृत्कूपे स्वकीये त्वं भविष्यसि ॥८॥ साभिज्ञानमिदं राजन् विशंश्चाद्य स्वपत्तनम् । श्वानं भ्रमरसंकाशं पश्यसि त्वं पथि द्रुतम् ॥ ९॥ विष्टाप्रवेशकाले च छत्रभङ्गो भविष्यति । मृतिस्तेऽशनिपातेन महागर्जनकारिणा ॥ १० ॥ मुनेर्वचनमाकर्ण्य सत्यभूतं नराधिपः । निजं पुत्रं समाहूय बभाणेदं परिस्फुटम् ॥ ११॥ 25 अद्यप्रभृति पुत्राहं मृत्वा सप्तदिनान्तरे । कीटः सितो भविष्यामि स्वकीयेऽशुचिवेश्मनि ॥ १२॥ बहुपापसमेतस्य गूथवेश्मानुयायिनः । मारणं मम कर्तव्यं त्वयावश्यं शरीरजः ॥१३॥ सुतमेवं निगद्यासौ त्यक्ताशेषपरिग्रहः । जलप्रासादमाविश्य तस्थौ तद्भीतमानसः॥१४॥ मृत्वाऽशनिप्रपातेन नरेन्द्रः सप्तमे दिने । संजातोऽसौ सितः कीटः पूर्वोक्ताशुचिमन्दिरे ॥१५॥ पितृकीटस्ततो दृष्टः पुत्रेणाशुचिमध्यगः । भयवेपितसर्वाङ्गोऽशुचिमध्ये विवेश सः ॥ १६ ॥ 30 प्रविशन्तं तमालोक्य शकृन्मध्ये च कीटकम् । तत्सुतः स्वगृहं प्राप्य तस्थौ विस्मितमानसः॥१७॥ सुभोगभूपतिं दृष्ट्वा तत्रोत्पन्नं शकट्टहे । जैनेश्वरं नराः केचिजगृहुर्धर्ममुत्तमम् ॥ १८॥
॥ इति श्रीसुभोगभूपतिखकीयाशुचिभवनोत्पत्तिकथानकम् ॥ १५१॥
1 पफज कुलकम्. 2 पफ युग्मम् , ज युगलम्. 3ज (=विष्टागृहे). 4 पफज चतुष्कुलकमिदम्. 5 [शरीरज]. 6 पफज त्रिकला.
बृ० को० ४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org