________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[१५०. ३८वृद्धस्य हि मुनेः पार्थे पठन्ती श्रुतमादरात् । आर्यिका तरुणीं यूनो दृष्ट्वा वृद्धां गतप्रभाम् ॥३८॥ सोमशर्मा विलोक्यैवं प्राह पुत्रौ व्रजन् पथि । वेधसा विहितं सुष्ठु विपरीतमिदं भुवि ॥ ३९ ॥ तरुणी या सुता जाता भार्या वृद्धस्य सा कथम् । वृद्धा तु या हि संजाता भार्या यूनो विधेर्वशात् ॥४०॥
वृद्धस्य यदि वृद्धा स्यात् समरूपा नितम्बिनी । यूनोऽपि तरुणी चावी तदा साधुसमागमः ॥४१॥ । उपहासमिमं कृत्वा साधुयुग्मस्य ते त्रयः। जग्मुर्निजगृहं हृष्टाः पापोपार्जनकारिणः ॥ ४२ ॥ सोमशर्मा द्विजो भद्रे कृत्वा कालं बभूव सः । गर्भ वसन्तसेनाया वसन्ततिलका सुता ॥ ४३ ॥ अग्निसोमादिको भूती कालं कृत्वा क्रमेण तौ । जातं कर्मानुभावेन वसन्ततिलकायुगम् ॥ ४४ ॥ ततस्तयाऽतिदुःखेन महाव्याधिगृहीतया । जातं तदर्भकद्वन्द्वं मुक्तमुज्जयनीबहिः ॥४५॥
गृहीतं सार्थवाहाभ्यां तद्युगं कृतवर्धनम् । महाविभवयोगेन कृतवीवाहमङ्गलम् ॥ ४६॥ 10 अग्निभूतिचरो यो हि सोमशर्मा द्विजः सुतः । धनदेवाभिधः सोऽयं त्वत्पतिर्वर्ततेऽधुना ॥४७॥
अग्निभूतिकनिष्ठो यः सोमभूतिसहोदरः । भ्रान्त्वा त्वं तन्वि सा नूनं कमला कमलोपमा ॥४८॥ भवतोर्यः पिता पूर्वं सोमशर्मा षडङ्गधीः । सवेदः श्रोत्रियो विप्रः सर्वमाहनपूजितः ॥ ४९ ॥ साऽधुनात्र भवे मृत्वा वसन्ततिलकाभिधा । माता सास्ते द्वयोस्तन्वि श्रीमदुज्जयनीभवा ॥ ५० ॥
धनदेवस्तया सार्धं पूर्वस्नेहवशीकृतः । इहत्यकामभोगं च भुञ्जानः स वितिष्ठते ॥ ५१॥ 15 एवं हि तिष्ठतस्तत्र सस्नेहं सुरतं प्रति । बभूव सुन्दरः पुत्रः पुत्रजन्माभिलाषिणोः ॥ ५२ ॥
मुनिदत्तवचः श्रुत्वा मदीयं जिनदेशितम् । धर्म गृहीष्यतः सारं तव मे वद सांप्रतम् ॥ ५३॥ निशम्य कमलावाक्यं मुनिदत्तमहामुनिः । बभाण तां गिरा स्पष्टं नर्तयन् शिखिनां गणम् ॥५४॥ त्वद्वाक्यतः स्फुटं तन्वि तत्रयोऽपि जनस्तको । विस्मयव्याप्तचेतस्को जिनधर्म गृहीष्यतः ॥५५॥ मुनिदत्तोदितं श्रुत्वा नत्वाऽमुं भक्तितत्परा । क्षुल्लिकारूपमादाय निर्ययौ कमला पुरात् ॥ ५६ ॥ 20 वसन्ततिलकागेहं मणिरत्नविराजितम् । क्रमेण कमला प्राप श्रीमदुज्जयिनीभवम् ॥ ५७ ॥ तगृहे दारकं दृष्ट्वा रुदन्तं परुषस्वनम् । पठन्ती कमला श्लोकं चकारेषाऽस्य शान्तताम् ॥ ५८॥ पुत्रोऽसि मे शिशो नूनं भ्रातृव्योऽसि सहोदर । त्वं देवरोऽसि मे वत्स मञ्चित्तानन्ददायक ॥५९॥ यस्ते पिता स मे कान्तो बाल प्राणातिवल्लभः । मा क्रन्द पुत्र मा क्रन्द कमलेति जगौ शिशुम् ॥६॥ कमलावाक्यमाकर्ण्य वसन्ततिलका जगौ । अर्थं श्लोकद्वयस्यापि शोभने ब्रूहि मेऽधुना ॥ ६१ ॥ 25 वसन्ततिलकावाक्यं निशम्य कमलाऽपि सा । जगादेमां परिस्पष्टं तोषेण विकसन्मुखी ॥ ६२ ॥
तत्कथां धर्मसंबन्धां महतीं चाम्बके यदि । श्रोतुमिच्छसि भावेन शृणु त्वं तां वदामि ते ॥६॥ परिवारसमायुक्ता धनदेवसमन्विता । वसन्ततिलका तस्थौ तत्पुरस्तत्कथोत्सुका ॥ ६४ ॥ पद्मपत्रसमानाक्षी कमला कमलानना । सितदन्ता जगादेवं वसन्ततिलकोद्यता ॥ ६५ ॥ सोमशर्माऽभवद् विप्रः श्रीमदुज्जयनीपुरि । तत्प्रिया काश्यपी नाम रूपयौवनराजिता ॥६६॥ 30 अग्निसोमादिको भूती तत्पुत्रौ प्रेमतत्परौ । कलाविज्ञाननिष्णातौ ब्राह्मणाचारकोविदौ ॥ ६७ ॥ सुताभ्यां सह यातेन बहिर्भूमिजिनालये । साधु जुगुप्सितौ साधू नितरां सोमशर्मणा ॥ ६८॥ सोमशमा मृति प्राप्य साधुनिन्दापरायणः । सुता वसन्तसेनाया वसन्ततिलकाऽभवत् ॥ ६९॥ सोमशर्मसुतौ कालं कृत्वा द्वावपि शोभने । त्वद्ग: दारकद्वन् संजातं विधियोगतः ॥ ७० ॥ निर्विण्णया त्वया भद्रे तद्दारकयुगं तदा । रत्नकम्बलसंयुक्तं संत्यक्तं नगरीबहिः ॥ ७१ ॥ . .
1फ omits the second line of No. 37 and the first line of No. 38.2 पफज कुलकम्. 3 पफ युग्मम् , ज युगलम्. 4 पफ पुरुषखनम्. 5 पफ युग्मम् , ज युगलम्.. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org