________________
-१५०. ३७] धनदेवादिकथानकम्
३४३ तेषु रोगेषु जातेषु कृतपीडेषु सर्वदा । त्यक्ता वसन्ततिलका सुहस्तश्रेष्ठिना द्रुतम् ॥ ५ ॥ तदुःखपीडितस्वान्ता रामानरयुगं तदा । सूता वसन्ततिलका दुःखिता वेपिताङ्गिका ॥६॥ बालद्वयं विलोक्यैषा तद्दुःखकृतरोदनम् । दध्यौ वसन्ततिलका निःशल्लीभूतविग्रहा ॥ ७॥ अनेन बालयुग्मेन गर्भस्थेनापि पापिना । त्यक्ताऽहं श्रेष्ठिना सद्यः स्नेहवर्जितचेतसा ॥ ८॥ भोगविनोऽपि मे जातः समं भी धनेशिना । पूर्वपापविपाकेन महादुःखविधायिना ॥९॥ । एवं विचिन्त्य तां कन्यां रत्नकम्बलभूषिताम् । नगरीदक्षिणाशायां मुमोच गणिका सका ॥१०॥ सुतं तं जातमात्रं सा रत्नकम्बलवेष्टितम् । नगर्यामुत्तराशायां तत्याज करुणोज्झिता ॥११॥ प्रयागनगरादागाद् गङ्गाकालिन्दिसंगमे । ससार्थः सार्थवाहोऽयं सर्वगुणसमन्वितः ॥१२॥ सुकेतुस्तां समादाय दारिका सुकुमारिकाम् । वल्लभायै ददौ स्वस्य रत्नकम्बलवेष्टिताम् ॥ १३ ॥ नीत्वा वृद्धिं सका कन्यां रूपराजितविग्रहाम् । सुकेतुरमणी तस्याश्चकार कमलाभिधाम् ॥ १४ ॥ सुभद्रसार्थवाहोऽगात् साकेतनगरादरम् । श्रीमदुज्जयिनीं प्राप्य बालं तं प्रददर्श सः ॥१५॥ दारकं तं समादाय रत्नकम्बलवेष्टितम् । अयं समर्पयामास सुव्रतायाः सुयोषितः ॥१६॥ ततस्तं वृद्धिमानीय मृष्टाशनविधानतः । धनदेवाभिधं नाम चकारास्य च सुव्रता ॥१७॥ प्राप्तयोरनयोवृद्धिं क्रमेण नवयौवनाम् । वीवाहमङ्गलं ताभ्यां कृतमुजयनीपुरे ॥१८॥ धनदेवस्ततो भायों गृहीत्वा कमलाभिधाम् । साकेतानगरी प्राप्तः पताकावलिराजिताम् ॥ १९ ॥ 15. धनदेवोऽनया साध रूपयौवनयुक्तया । साकेतनगरे भोगान् भुञ्जानो व्यवतिष्ठते ॥ २० ॥ अन्यदा धनदेवोऽयं महासार्थसमावृतः । श्रीमदुज्जयनीं प्राप नानाप्रासादतोरणाम् ॥ २१ ॥ धनदेवो विलोक्यैतां वसन्ततिलकां पुरि । संतिष्ठतेऽनया सार्धं भुञ्जानो भोगमुत्तमम् ॥ २२॥ साकेतनगरे त्यक्ता धनदेवेन दुःखिनी । तिष्ठत्यप्रीतचेतस्का कमला कमलोपमा ॥ २३ ॥ अन्यदा मुनिदत्ताख्यः साधुः साधुसमावृतः । विहरन् क्वापि संप्राप साकेतनगरं गुणी ॥ २४ ॥ 20 कमला तं मुनि ज्ञात्वा साकेतोद्यानमागतम् । जगाम प्रीतचेतस्का वन्दनार्थ सभक्तिका ॥ २५॥ नत्वा मुनिमिमं भक्त्या धर्म सम्यक्त्वपूर्वकम् । आदाय कमला वातों पप्रच्छ दयितस्य सा ॥२६॥ कमलावाक्यमाकर्ण्य दिव्यज्ञानैकलोचनः । बभाणैतां महायोगी भर्तृदुःखसमन्विताम् ॥ २७ ॥ धनदेवाभिधो भर्ता त्वदीयः कमले सति । उज्जयिन्यां पुरि श्रीमान् सार्थवाहो विशुद्धधीः ॥२८॥ घसन्ततिलकां दृष्ट्वा गणिकां जननीमिमाम् । सहानया प्रभुञ्जानो भोगान् संतिष्ठते कुधीः॥२९॥* 25 मुनिदत्तमुनेर्वाक्यं निशम्य कमलाऽमला । जगाद मुनिचन्द्रं तं भक्तिहृष्टतनूरुहा ॥ ३० ॥ धनदेवस्य योगीन्द्र वसन्ततिलका मुने । अत्र जन्मनि किं माता भवेदन्यत्र मे वद ॥ ३१ ॥ कमलाभारती श्रुत्वा जगादैतां मुनीश्वरः । कौतुकव्याप्तचेतस्कां महाविस्मयसंगताम् ॥ ३२ ॥ आस्तामत्र भवे तावत् संबन्धोऽस्य तया समम् । अन्यजन्मनि संबन्धं कथयामि तवाधुना ॥३३॥ उज्जयन्यामभूद् विप्रः सोमशर्मा षडङ्गधीः । वेदवेदाङ्गसंयुक्तः काश्यपीपतिरूर्जितः ॥ ३४ ॥ 30 अग्निसोमादिको भूती वेदस्मृतिविशारदौ । अभूतां नन्दनावेतौ तयोः प्रेमानुरक्तयोः ॥ ३५॥ एते त्रयोऽपि निर्याताः श्रीमदुज्जयिनीबहिः । पठन्तो वेदवाक्यानि चागच्छन्ति गृहं प्रति ॥३६॥ आगच्छद्भिस्तकदृष्टं साधुयुग्मं जिनालये । अर्यिकायुगलं चापि कृशीभूतशरीरकम् ॥ ३७॥ ___1 पफज चतुष्कुलकमिदम्. 2 [ समस्तगुणसंयुतः]. 3 [°यौवनम् ]. 4 पफज त्रिकलमिदम्. 5 पफ युग्मम्. ज युगलम्.
HTHHTHHTHHHHol
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org