Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 510
________________ -१५७. ७१] शकटालमुनिकथानकम् ३५१ निर्माल्यस्य सतस्तत्र संबन्धेन परीक्षणम् । कृत्वा निर्धाटितोऽनेन पिशाचोऽपि तदन्तिकात् ॥४७॥ ततो निर्धाटितेऽमुष्मिन् शकटालेन तगृहात् । श्रेष्ठिनस्तस्य संजाता सा भार्या वशवर्तिनी ॥४८॥ नन्दोपरि रुषं धृत्वा छिद्रान्वेषी दिवानिशम् । भस्मगूढाग्निवत् तस्थौ शकटालः प्रियंवदः॥४९॥ लब्ध्वा वररुचिर्दिव्यं नन्दराज्यपदं ययौ । नरेन्द्रशेखरीभूतः संतस्थे प्रीतमानसः ॥ ५० ॥ अनयोस्तिष्ठतोरेवं नन्दो वररुचिं जगौ । कौतुकव्याप्तचेतस्को महासामन्तमध्यगः ॥५१॥ काव्यस्य भट्टपुत्राहं चतुर्थं पादमादरात् । करोमि त्वं पुनः शीघ्रं कुरु पादत्रयं बुध ॥ ५२ ॥ नन्दस्य वचनं श्रुत्वा सभामध्यानुयायिनः । ऊचे वररुचिः स्पष्टमेवं भवतु भूपते ॥ ५३॥ ततोऽन्यदिवसे जाते प्रविष्टस्यास्य संसदम् । नन्दो जगाद तं भूयस्त्विदं संतुष्टमानसः ॥ ५४॥ विपश्चितां मानसवल्लभोऽयं श्रुतिप्रियः स्पष्टवराक्षरोक्तिः।। लब्धो मया काव्यचतुर्थपादो रणं टणं टण्टणटण्टणेति ॥ ५५ ॥ बालवृद्धमनोहारि बुद्धकर्मरसायनम् । काव्यपादत्रयं ब्रूहि प्रथमं त्वं महामते ॥५६॥ नन्दवाक्यं समाकर्ण्य तोषकण्टकिताङ्गकः । काव्यपादत्रयं प्रोचे पूर्व वररुचिस्त्विदम् ॥ ५७॥ नन्दनस्य राज्ञो मदविह्वलाया हस्ताच्युतः स्वर्णघटो युवत्याः। सोपानमाश्रित्य करोति शब्दं रणं टणं टण्टणटण्टणेति ॥ ५८॥ कपाटमाश्रित्य वराङ्गनायाः संदर्शितो यौवनगर्वितायाः। न रोचते तस्य जितेन्द्रियस्य सनूपुरः प्रव्रजितस्य पादः ॥ ५९॥ नाप्यागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयो न भवति प्रथमप्रदोषे । अव्यक्तनूपुररवध्वनिबोधितेन पारापतेन पतता कृतमन्धकारम् ॥ ६०॥ सुभ्र सुचारुरयं कविपुत्रो राजपथेन गतः प्रवदन् सः। पश्चिमपादमिमं हि पठंश्च कर्कशनालमकर्कशनालम् ॥ ६१॥ कापि न मेऽस्ति हि कारणबुद्धिस्तस्य पदस्य परस्य न वेत्ता। मामिदमद्य भणिष्यति राजा कर्कशनालमकर्कशनालम् ॥ ६२ ॥ उत्पलनालकृताभरणा सा त्वं न गतः स्थित एव निराश । अद्य कृतं कमलं कमलाक्षि कर्कशनालमकर्कशनालम् ॥ ६३॥ अङ्गुलितर्जनजर्जरिताङ्गं शीर्णविशीर्णपवित्रपलाशम् । अद्य कृतं कमलं कमलाक्षि कर्कशनालमकर्कशनालम् ॥ ६४ ॥ निशम्य वचनं तस्य शकटालो जगौ नृपम् । राजन्नस्य मतिर्दुष्टा त्वदन्तःपुरनाशिनी ॥६५॥ शकटालवचः श्रुत्वा कोपारुणनिरीक्षणः । जगाद किङ्करान् राजा भृकुटीभीषणालिकः ॥ ६६ ॥ इमं वररुचिं दुष्टमन्तःपुरविनाशिनम् । बहिर्नगरतो नीत्वा कुरुतास्य विहिंसनम् ॥ ६७॥" नन्दोदितं समाकर्ण्य गृहीत्वाऽमुं च किङ्कराः । मुक्त्वा वररुचिं मार्गे जनुरन्यं नरं पुनः ॥६८॥ पाटलीपुत्रसंज्ञस्य पुरस्यास्य समीपगम् । पलाशकूटनामानं ग्रामं प्राप्य स तस्थिवान् ॥ ६९॥ अथ नन्दस्य भूपस्य नन्दनो दुष्टवाजिना । नीतोऽटवीं तरुच्छन्नां सुनन्दो नाम विश्रुतः ॥७॥ भिन्नालनसमानायां क्षणदायां स तद्वने । न्यग्रोधवृक्षमारुह्य तस्थौ नरपतेः सुतः ॥ ७१॥ 1 पफ युग्मम् , ज युगलम्. 2 पफज युगलमिदम्. 3 [नन्दस्य ]. 4 पफज चतुष्कुलकमिदम्. 5 पफज युगलमिदम्. 6 पफज युगलमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566