Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 502
________________ -१५०. ३७] धनदेवादिकथानकम् ३४३ तेषु रोगेषु जातेषु कृतपीडेषु सर्वदा । त्यक्ता वसन्ततिलका सुहस्तश्रेष्ठिना द्रुतम् ॥ ५ ॥ तदुःखपीडितस्वान्ता रामानरयुगं तदा । सूता वसन्ततिलका दुःखिता वेपिताङ्गिका ॥६॥ बालद्वयं विलोक्यैषा तद्दुःखकृतरोदनम् । दध्यौ वसन्ततिलका निःशल्लीभूतविग्रहा ॥ ७॥ अनेन बालयुग्मेन गर्भस्थेनापि पापिना । त्यक्ताऽहं श्रेष्ठिना सद्यः स्नेहवर्जितचेतसा ॥ ८॥ भोगविनोऽपि मे जातः समं भी धनेशिना । पूर्वपापविपाकेन महादुःखविधायिना ॥९॥ । एवं विचिन्त्य तां कन्यां रत्नकम्बलभूषिताम् । नगरीदक्षिणाशायां मुमोच गणिका सका ॥१०॥ सुतं तं जातमात्रं सा रत्नकम्बलवेष्टितम् । नगर्यामुत्तराशायां तत्याज करुणोज्झिता ॥११॥ प्रयागनगरादागाद् गङ्गाकालिन्दिसंगमे । ससार्थः सार्थवाहोऽयं सर्वगुणसमन्वितः ॥१२॥ सुकेतुस्तां समादाय दारिका सुकुमारिकाम् । वल्लभायै ददौ स्वस्य रत्नकम्बलवेष्टिताम् ॥ १३ ॥ नीत्वा वृद्धिं सका कन्यां रूपराजितविग्रहाम् । सुकेतुरमणी तस्याश्चकार कमलाभिधाम् ॥ १४ ॥ सुभद्रसार्थवाहोऽगात् साकेतनगरादरम् । श्रीमदुज्जयिनीं प्राप्य बालं तं प्रददर्श सः ॥१५॥ दारकं तं समादाय रत्नकम्बलवेष्टितम् । अयं समर्पयामास सुव्रतायाः सुयोषितः ॥१६॥ ततस्तं वृद्धिमानीय मृष्टाशनविधानतः । धनदेवाभिधं नाम चकारास्य च सुव्रता ॥१७॥ प्राप्तयोरनयोवृद्धिं क्रमेण नवयौवनाम् । वीवाहमङ्गलं ताभ्यां कृतमुजयनीपुरे ॥१८॥ धनदेवस्ततो भायों गृहीत्वा कमलाभिधाम् । साकेतानगरी प्राप्तः पताकावलिराजिताम् ॥ १९ ॥ 15. धनदेवोऽनया साध रूपयौवनयुक्तया । साकेतनगरे भोगान् भुञ्जानो व्यवतिष्ठते ॥ २० ॥ अन्यदा धनदेवोऽयं महासार्थसमावृतः । श्रीमदुज्जयनीं प्राप नानाप्रासादतोरणाम् ॥ २१ ॥ धनदेवो विलोक्यैतां वसन्ततिलकां पुरि । संतिष्ठतेऽनया सार्धं भुञ्जानो भोगमुत्तमम् ॥ २२॥ साकेतनगरे त्यक्ता धनदेवेन दुःखिनी । तिष्ठत्यप्रीतचेतस्का कमला कमलोपमा ॥ २३ ॥ अन्यदा मुनिदत्ताख्यः साधुः साधुसमावृतः । विहरन् क्वापि संप्राप साकेतनगरं गुणी ॥ २४ ॥ 20 कमला तं मुनि ज्ञात्वा साकेतोद्यानमागतम् । जगाम प्रीतचेतस्का वन्दनार्थ सभक्तिका ॥ २५॥ नत्वा मुनिमिमं भक्त्या धर्म सम्यक्त्वपूर्वकम् । आदाय कमला वातों पप्रच्छ दयितस्य सा ॥२६॥ कमलावाक्यमाकर्ण्य दिव्यज्ञानैकलोचनः । बभाणैतां महायोगी भर्तृदुःखसमन्विताम् ॥ २७ ॥ धनदेवाभिधो भर्ता त्वदीयः कमले सति । उज्जयिन्यां पुरि श्रीमान् सार्थवाहो विशुद्धधीः ॥२८॥ घसन्ततिलकां दृष्ट्वा गणिकां जननीमिमाम् । सहानया प्रभुञ्जानो भोगान् संतिष्ठते कुधीः॥२९॥* 25 मुनिदत्तमुनेर्वाक्यं निशम्य कमलाऽमला । जगाद मुनिचन्द्रं तं भक्तिहृष्टतनूरुहा ॥ ३० ॥ धनदेवस्य योगीन्द्र वसन्ततिलका मुने । अत्र जन्मनि किं माता भवेदन्यत्र मे वद ॥ ३१ ॥ कमलाभारती श्रुत्वा जगादैतां मुनीश्वरः । कौतुकव्याप्तचेतस्कां महाविस्मयसंगताम् ॥ ३२ ॥ आस्तामत्र भवे तावत् संबन्धोऽस्य तया समम् । अन्यजन्मनि संबन्धं कथयामि तवाधुना ॥३३॥ उज्जयन्यामभूद् विप्रः सोमशर्मा षडङ्गधीः । वेदवेदाङ्गसंयुक्तः काश्यपीपतिरूर्जितः ॥ ३४ ॥ 30 अग्निसोमादिको भूती वेदस्मृतिविशारदौ । अभूतां नन्दनावेतौ तयोः प्रेमानुरक्तयोः ॥ ३५॥ एते त्रयोऽपि निर्याताः श्रीमदुज्जयिनीबहिः । पठन्तो वेदवाक्यानि चागच्छन्ति गृहं प्रति ॥३६॥ आगच्छद्भिस्तकदृष्टं साधुयुग्मं जिनालये । अर्यिकायुगलं चापि कृशीभूतशरीरकम् ॥ ३७॥ ___1 पफज चतुष्कुलकमिदम्. 2 [ समस्तगुणसंयुतः]. 3 [°यौवनम् ]. 4 पफज त्रिकलमिदम्. 5 पफ युग्मम्. ज युगलम्. HTHHTHHTHHHHol Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566