Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 505
________________ 3 10 25 30 ३४६ हरिषेणाचार्यकृते बृहत्कथाकोशे १५२. सुकोशलमुनिकथानकम् । विनीताविषये कान्ते साकेता नगरी परा । अस्यां कीर्तिधरो राजा सहदेवीधवोऽभवत् ॥ १ ॥ परस्परसुखासंगप्रेमसंसक्तचेतसोः । सुकोशलाभिधो रूपी बभूव तनयोऽनयोः ॥ २ ॥ पितापुत्रौ तकौ दृष्ट्वा शरीरादेरनित्यताम् । महातपोधनौ जातौ जिनसेनान्तिके द्रुतम् ॥ ३ ॥ चतुर्मासोपवासस्थौ मौण्डिल्यधरणीतले । तस्थतुस्तौ महासाधू तरुमूले घनागमे ॥ ४ ॥ भर्तृपुत्रवियोगेन चार्तध्यानपरायणा । बभूव तद्भिरौ व्याघ्री सहदेवीति भीषणा ॥ ५ ॥ आहारार्थमितस्यास्य नगरं प्रति धीमतः । सुकोशलमुनेस्तत्र तथा कीर्तिधरस्य च ॥ ६॥ सहदेवीचरी व्याघ्री कोपारुणनिरीक्षणा । चखाद पिशितं पापा निर्दयं सकलं क्रुधा ॥ ७ ॥ उपसर्गं सहित्वाऽमुं तद्व्याघ्रीविहितं द्रुतम् । निर्वाणं जग्मतुर्वीरौ तद्भिरौ तौ तपोधनौ ॥ ८ ॥ ॥ इति श्रीसुकोशलमुनिकथानकमिदम् ॥ १५२ ॥ * १५३. सुदृष्टिमुनिकथानकम् । अवन्तीविषये दिव्ये श्रीमदुज्जयिनी पुरी । प्रजापालो नृपस्तस्यां तत्प्रिया सुप्रभाऽभवत् ॥ १ ॥ अस्यैव भूपतेरासीद् रत्नविज्ञानकोविदः । सुदृष्टिर्नाम विख्यातस्तत्प्रिया विमलाभिधा ॥ २ ॥ अस्य वङ्काभिधः शिष्यो विमलाऽप्यमुना सह । तिष्ठति प्रीतचेतस्का कामाकुलितमानसा ॥ ३ ॥ 1 अथ मैथुनवेलायां विमलावचनेन सः । सुदृष्टिर्निहतोऽनेन वङ्गेन कुटिलात्मना ॥ ४ ॥ संजातो विमलागर्भे सुदृष्टिर्वनाशितः । जातिस्मरत्वमासाद्य सालसः स्थितवानसौ ॥ ५ ॥ अनेन कारणेनायं बालो बालक्रियोद्यतः । गतोऽलसत्कुमाराख्यां समस्तभुवनातिगाम् ॥ ६ ॥ उद्यानवनजातायाः सुप्रभाया रतं प्रति । कीटावर्ताभिधो हारत्रुटितोऽदृश्यतां ययौ ॥ ७ ॥ अन्वेषणं प्रकुर्वद्भिस्तन्नरैर्यत्नतत्परैः । महानुग्रहतः प्राप्तः स हारस्तद्वनान्तरे ॥ ८ ॥ 20 मध्ये सुवर्णकाराणां तत्पुरे सकले नरः । हारं न कोऽपि संस्कर्तुं शक्नोति कुशलाशयः ॥ ९ ॥ ततोऽलसत्कुमारेण गत्वा राजगृहं द्रुतम् । स हारः संस्कृतो दिव्यः प्रभोद्योतितपुष्करः ॥ १० ॥ राजा विलोक्य तं हारं संस्कृतं स्वपुरः स्थितम् । जगाविदं कुमारं तं विस्मयव्याप्तमानसः ॥११॥ इदं सुदृष्टि विज्ञानं त्वया सारं क्व शिक्षितम् । मम विस्मितचित्तस्य कुमार वद सांप्रतम् ॥ १२ ॥ निशम्य भूपतेर्वाक्यं कुमारो निजगाद तम् । आत्मा मया मृतः स्वेन जनितोऽयं स्वयोषिति ॥ १३ ॥ विमलेयं पुरा भार्या नृप माताऽधुना मम । अपुत्रोऽहं मृतोऽस्या हि संजातस्तनयो बत ॥ १४ ॥ श्रुत्वा सुदृष्टिसंबन्धं नरेन्द्रो बहुभिर्नृपैः | अभिनन्दनसामीप्ये तपो जैनमशिश्रियत् ॥ १५ ॥ अन्येऽपि बहवो लोका महाविस्मयसंगताः । जिनधर्मं सुखाधारं प्रतिपन्नाः सुमेधसः ॥ ततोऽलसत्कुमारोऽपि संसारत्रस्तमानसः । पूर्वोक्तस्य गुरोः पार्श्वे दीक्षां दैगम्बरीं दधौ ॥ नानातपः प्रकुर्वाणो मन्दरस्थिरमानसः । वरोत्तरदिशाभागं प्राप शौरीपुरस्य सः ॥ १८ अथालसत्कुमारोऽयं स्थित्वा पश्चिमरोधसि । यमुनायाः समाधानान्निर्वाणं गतवानसौ ॥ ॥ इति सुदृष्टिमुनि कथानकमिदम् ॥ १५३ ॥ ॥ १९ ॥ [ १५२.१ For Private & Personal Use Only १६ ॥ १७ ॥ * 1 प युग्मम् ज युगलम् फ has lost some letters. 2 ज कुटिलानना 3 पफ युग्मम्, ज युगलम्. Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566