Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 506
________________ -१५५. १२ ] वृषभसेनमुनिकथानकम् १५४. धर्मसिंहमुनिकथानकम् । विषये कोशलामिख्ये विद्यते कौशलं पुरम् । धर्मसिंहो नृपस्तत्र चन्द्रश्रीरमणो महान् ॥ १॥ प्रियसेनः सुतस्तस्य रूपराजितविग्रहः । विनयाचारसंपन्नः समस्तजनवल्लभः ॥२॥ दक्षिणापथदेशेऽस्ति कोल्लादिगिरिपत्तनम् । वीरसेनो नृपस्तत्र रूपी वीरवतीप्रियः ॥३॥ चण्डचित्तः खरारावी तत्सुतस्तनयाऽप्यभूत् । पद्मपत्रसमानाक्षी पद्मपाणिपदद्वया ॥४॥ धर्मसिंहो नरेन्द्रोऽयं धर्मभूषितसन्मतिः । चन्द्रश्रिया समं भोगान् भुञ्जानो व्यवतिष्ठते ॥५॥ अन्यदा धर्मसिंहोऽयं राजा दमवरान्तिके । धर्म श्रुत्वा प्रवव्राज त्यक्ताशेषपरिग्रहः ॥ ६॥ चन्द्रश्रीरपि तद्भार्या सर्वव्यापारवर्जिता । स्मरन्ती भर्तुरत्यन्तं संतस्थे दीनमानसा ॥७॥ चण्डभूतोऽपि तां दृष्ट्वा स्वसारं दुःखदुःखिताम् । साधोरन्वेषणां चक्रे ग्रामखेटपुरादिषु ॥८॥ चण्डभूतो विलोक्येमं साधु तपसि संस्थितम् । व्रतभङ्गं चकारास्य भूयो भूयः प्रचण्डवाक् ॥९॥10 राजा राज्यश्रियं हित्वा महावैराग्यसंगतः । भूयो जैनेश्वरीं दीक्षां जग्राह गतमत्सरः ॥१०॥ ततः पश्चिमवेलायां चण्डभूतो महाग्रहः । अन्वेषणं चकारास्य साधोरस्य पुनः पुनः ॥११॥ प्रविशन्तं ततो दृष्ट्वा कोलादिगिरिपत्तनम् । दधाव पृष्ठतस्तस्य चण्डभूतः क्रुधान्वितः ॥ १२ ॥ मुनिर्मध्याह्नवेलायां भिक्षां कृत्वा स तत्पुरे । दृष्ट्वाऽमुं चण्डभूतं च दध्यावेवं स्वचेतसि ॥ १३ ॥ बहुधाऽनेन मे पूर्वं व्रतभङ्गः कृतो बलात् । अधुनाऽयं किमु क्षिप्रं तपोनाशं करिष्यति ॥ १४ ॥ 15 चिन्तयित्वा चिरं योगी विधायालोचनां पुनः । शरीरादेस्तथा त्यागं विष्टो हस्तिकलेवरे ॥१५॥' चण्डभूतोऽपि संक्रुद्धस्तत्पुरे सकले तदा । अदृष्ट्वा तं मुनि कापि विवेश निजपत्तनम् ॥ १६ ॥ धर्मसिंहो नृपस्तत्र कालं कृत्वा समाधिना । दिव्यबुन्दीधरो जातो देवोऽयं दिवि भासुरः ॥१७॥ ॥ इति श्रीधर्मसिंहमुनिकथानकमिदम् ॥ १५४ ॥ १५५. वृषभसेनमुनिकथानकम् । बभूव पाटलीपुत्रे नगरे जनसंकुले । वृषभोपपदो दत्त इभ्यः श्रेष्ठी महाधनः ॥ १॥ वृषभश्रीः प्रिया तस्य कन्दोट्टदललोचना । वृषभोपपदः सेनः सगुणस्तत्सुतोऽभवत् ॥२॥ तस्मिन्नेव पुरे भोगी श्रेष्ठी धनपतिर्धनी । श्रीकान्ता तत्प्रिया चार्वी धनश्रीस्तत्सुताऽभवत् ॥३॥ एषा वृषभसेनाय वितीर्णा जनकेन च । अनया सह भुञ्जानो भोगांस्तस्थौ सुलीलया ॥४॥ अन्यदा धर्ममाकर्ण्य जैनं दमवरान्तिके । भोगनिःस्पृहचेतस्कः प्रवव्राज स धीरधीः ॥५॥ धनश्रीरपि शोकार्ता रोदनारक्तलोचना । तस्थौ गततनुच्छाया कपोलपतितालका ॥ ६॥ दृष्ट्वा धनश्रियं श्रेष्ठी खसुतां दुःखिनी तदा । साधोरन्वेषणं तस्य तत्कान्तस्य चकार सः ॥७॥ दृष्ट्वाऽमुं योगिनं क्वापि प्राध्वंकृत्य रुषान्वितः । कृत्वाऽमुना तपोभङ्गं सुतायै स समर्पितः ॥ ८॥ दिनानि कानिचित् स्थित्वा तया साकं धनश्रिया । वरदत्तान्तिके दीक्षां जग्राहासौ विशुद्धधीः ॥९॥ अनेन विधिना तेन वारद्वितयमस्य च । तपोभङ्गं विधायाशु भूयोऽपि तपसि स्थितः ॥१०॥ भूयस्तृतीयवेलायां बवाऽमुं खगृहान्तरे । श्रेष्ठी प्रवेशयामास साधु साधितमानसम् ॥ ११॥ खबन्धवेदनाधारव्याकुलीभूतमानसः । दध्याविदं पुनः साधुः श्रेष्ठिमन्दिरमध्यगः ॥ १२ ॥ 1 पफज निकला. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566