Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
३४८
हरिषेणाचार्यकृते बृहत्कथाकोशे [१५५. १३वारद्वयं ममानेन व्रतभङ्गः कृतः कथम् । अयं तृतीयवेलायां तपोभङ्गं करिष्यति ॥ १३ ॥ एवं विचिन्त्य तत्रत्यः स साधुः साधुचेष्टितः । संन्यास विधिना कालं कृत्वाऽभूत् त्रिदिवेश्वरः॥१४॥
॥ इति वृषभसेनमुनिकथानकमिदम् ॥ १५५ ॥'
१५६. जयसेननृपतिकथानकम् । 5 जयसेनो महीपालः श्रावस्तीनगरीभवः । आसीदुपासकः श्रीमान् वीरसेनाऽतिवल्लभः ॥ १॥
हारराजितवक्षस्कः कलाविज्ञानकौशलः । वीरसेनोऽभवत् पुत्रस्तयोरत्यन्तवल्लभः ॥२॥ मनसा वाञ्छितं भोगं तया सार्धं दिवानिशम् । अयं प्रेमाकरो रूपी भुञ्जानो व्यवतिष्ठते ॥३॥ अस्यामेव पुरि क्षुद्रः शिवगुप्ताभिधानकः । भिक्षुरेकः ससंघोऽसौ वसति प्रीतमानसः ॥ ४ ॥
भूपालस्य गुरुः प्रेयान्निजराद्धान्तकोविदः । व्याख्यानं विदधत्तस्य संघस्य पुरतो मदी ॥५॥ 10 अन्यदा बिहरन कापि वृषभो यतिपूर्वकः । राजाचार्यः समायातः श्रावस्ती संघसंगतः ॥ ६॥ जयसेनस्तदाभ्यास श्रुत्वा जैनेश्वरं वृषम् । बौद्धधर्मं विहायाशु बभूव श्रावको महान् ॥ ७॥ अनेन भूभुजा तत्र सामन्तान्तःपुरादिकः । महाजनपदः सर्वः श्रावकः परमः कृतः ॥ ८॥ खकीयं मण्डलं तेन जिनायतनमण्डितम् । कारितं भक्तियुक्तेन जयसेनेन सर्वतः ॥ ९॥ एवं कृतेऽमुना राज्ञा जिनधर्मं प्रकुर्वता । शिवगुप्ताभिधो भिक्षुश्चकोपास्मै नरेशिने ॥ १०॥ 15 शिवगुप्तो रुषं प्राप्य जयसेनस्य धीमतः । नितान्तं मारणोपायं दध्यौ मनसि दुष्टधीः ॥११॥
अन्यदा क्रोधरक्ताक्षः पृथिवीपुरनायकः । बभूव सुमती राजा बौद्धधर्मपरायणः ॥ १२ ॥ अनेन भूभुजाऽवाचि शिवगुप्तो निजो गुरुः । बुद्धदेवं विहायेमं जयसेनो जिनं श्रितः ॥ १३ ॥ निशम्य तद्वचः कोपी शिवगुप्तः खरध्वनिः । लेखं प्रवेशयामास जयसेननृपान्तिके ॥१४॥
बुद्धधर्म विहायेम समस्तसुखकारणम् । जयसेन दुराचार जिनधर्म प्रपन्नवान् ॥ १५॥ 20 मां यदीच्छसि रे मूढ जिनधर्म विहाय च । ततो बुद्धोदितं धर्म गृहाण सुखवाञ्छया ॥ १६ ॥ तल्लेखदर्शनेनापि जयसेनो जिनप्रियः । ग्रहीतुं नेच्छति क्रूरं बुद्धधर्म मनागपि ॥ १७॥ एवं ह्यनिच्छतस्तस्य बुद्धधर्म मनीषिणः । जिनधर्मानुरक्तस्य जयसेनस्य भोगिनः ॥१८॥ अचलं दण्डसंयुक्तं सहस्रभटनामकम् । समीपं प्राहिणोति स्म सुमतिः सुमतिर्नृपः ॥ १९॥"
श्रावस्ती नगरी प्राप्य जयसेनं प्रवेष्ट्य च । हस्त्यश्वरथपादातैः स्कन्धावारो व्यवस्थितः ॥२०॥ 25 स्कन्धावारं जगादेदं सहस्रभटनामकः । घनाघनघनध्वानवीरनिर्घोषया गिरा ॥ २१॥
स्कन्धावारो मदीयोऽसौ न कोऽपि नरकुञ्जरः । जयसेनं दुराचारं यो निहन्ति निकारिणम् ॥२२॥ निशम्य वचनं तस्य दीनं गद्गदभाषिणः । उपासको वभाणैतं तदानीमभिसारकः ॥ २३ ॥ भवन्तस्तिष्ठतः स्वैरं भयं हित्वा शरीरजम् । कृतघ्नं दुष्टचेतस्कं जयसेनं निहन्म्यहम् ॥ २४ ॥
एवं निगद्य तं प्राप्य सेनान्तं वृषभादिकम् । मिथ्याविनययोगेन प्रवव्राजाभिसारकः ॥ २५॥ 30 एवं तपःस्थितं श्रुत्वा जयसेनो नराधिपः । तद्वन्दनार्थमायातो भक्तिहृष्टतनूरुहः ॥२६॥
___1 All the Mss. pur No. 155. 2 पफ शिवगुप्तविधानकः. 3 [जयसेनस्तदभ्याशे ]. 4 ज नृपान्तिकम्. 5 पफ नेच्छसि. 6 पफज युगलमिदम्. 7 पफ युग्मम् , ज युगलमिदम्. 8 [भवन्तस्तिष्ठत]. 9 पफज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566