Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 504
________________ * -१५१. १८] सुभोगभूपतिकथानकम् ३४५ द्वाभ्यां तत्सार्थवाहाभ्यां युगलं वृद्धिमागतम् । वीवाहमङ्गलं तस्य विहितं विधियोगतः ॥ ७२ ॥ योऽग्निभूतिसुतो ज्येष्ठस्तव वृन्दारिके परे । धनदेवः स मां हित्वा त्वदासक्तो वितिष्ठते ॥ ७३ ॥ सोमभूतिसुतो यो हि तवासीदन्यजन्मनि । कनिष्ठः कमला साऽहं सपत्नी त्वत्सुता हले ॥७४॥ या काश्यपी प्रिया भद्रे तवासीदन्यजन्मनि । साऽपि कालगतो जातः सुतोऽयं वरुणाभिधः ॥७॥ इदं मे मुनिना सर्व दिव्यज्ञानेन भाषितम् । तद्बोधनार्थमायाता सांप्रतं त्वत्समीपताम् ॥ ७६ ॥ 5 प्राप्योत्तमकुले जन्म साधुनिन्दाफलादिदम् । पुंवेदं त्यक्त्वा स्त्रीत्वं त्वं भूयः प्राप्ताऽस्यशोभनम् ॥७७॥ हिंसाऽसत्यं तथा चौर्यं मैथुनं च परिग्रहम् । विधाय पापकर्मेदं मधुमांसादिभक्षणम् ॥ ७८ ॥ अपारासारसंसारसागरं भीतिवीचिकम् । क्रोधमानादिनीरौघं भ्राम्यसि त्वं सुवालिके ॥ ७९ ॥ संसारकारणं सर्वं विहायेदं जुगुप्सितम् । मद्वाक्यतोऽधुना सर्वे कुरुध्वं धर्मसंग्रहम् ॥ ८०॥ कमलान्ते समाकर्ण्य जैन धर्ममहिंसकम् । वसन्ततिलका भीता धनदेवोऽपि संसृतेः ॥ ८१ ॥ सम्यक्त्वादिकमादाय वसन्ततिलका तदा । धनदेवोऽपि संजातः श्रावकः परमो भुवि ॥ ८२॥ कमलाभाषितं श्रुत्वा तचेष्टितमिदं तदा । केचिन्मुनित्वमापन्नाः केचिच्छ्रावकतां पराम् ॥ ८३॥ ॥ इति धनदेववसन्ततिलकाकमलाकथानकम् ॥ १५०॥ १५१. सुभोगभूपतिकथानकम् । विदेहाख्यजनान्तेऽस्ति मिथिला नगरी परा । सुभोगनृपतिस्तस्यां तत्प्रिया च मनोरमा ॥१॥5 रूपयौवनसंयुक्तस्तयोर्दैवरतिः सुतः । कुलाद्यष्टमदोपेतस्तस्थौ स धरणीतले ॥२॥ अन्यदा संघसंयुक्तो दिव्यज्ञानी महातपाः । आययौ तत्पुरोधाने गणी देवकुरुः सुधीः ॥३॥ मुनिं तमागतं श्रुत्वा वन्दनार्थं नरेश्वरः । आजगाम तमुद्देशं मिथिलानगरीपतिः ॥ ४ ॥ नत्वा मुनिं प्रयत्नेन श्रुत्वा धर्मं सुखावहम् । पप्रच्छ स्वभवं पूर्व ज्ञानाम्भोधिं यतीश्वरम् ॥ ५॥ अन्यजन्मन्यहं नाथ कालं कृत्वा यतीश्वरः । क्व भविष्यामि मे ब्रूहि निजकर्मवशीकृतः ॥ ६ ॥ ॥ निशम्य वचनं साधुः सर्वसत्त्वहितावहः । जगादेमं मुनिर्भूपं महाकौतुकसंगतम् ॥ ७॥ अद्यप्रभृति राजेन्द्र सप्तमे दिवसे स्फुटम् । कालं कृत्वा शकृत्कूपे स्वकीये त्वं भविष्यसि ॥८॥ साभिज्ञानमिदं राजन् विशंश्चाद्य स्वपत्तनम् । श्वानं भ्रमरसंकाशं पश्यसि त्वं पथि द्रुतम् ॥ ९॥ विष्टाप्रवेशकाले च छत्रभङ्गो भविष्यति । मृतिस्तेऽशनिपातेन महागर्जनकारिणा ॥ १० ॥ मुनेर्वचनमाकर्ण्य सत्यभूतं नराधिपः । निजं पुत्रं समाहूय बभाणेदं परिस्फुटम् ॥ ११॥ 25 अद्यप्रभृति पुत्राहं मृत्वा सप्तदिनान्तरे । कीटः सितो भविष्यामि स्वकीयेऽशुचिवेश्मनि ॥ १२॥ बहुपापसमेतस्य गूथवेश्मानुयायिनः । मारणं मम कर्तव्यं त्वयावश्यं शरीरजः ॥१३॥ सुतमेवं निगद्यासौ त्यक्ताशेषपरिग्रहः । जलप्रासादमाविश्य तस्थौ तद्भीतमानसः॥१४॥ मृत्वाऽशनिप्रपातेन नरेन्द्रः सप्तमे दिने । संजातोऽसौ सितः कीटः पूर्वोक्ताशुचिमन्दिरे ॥१५॥ पितृकीटस्ततो दृष्टः पुत्रेणाशुचिमध्यगः । भयवेपितसर्वाङ्गोऽशुचिमध्ये विवेश सः ॥ १६ ॥ 30 प्रविशन्तं तमालोक्य शकृन्मध्ये च कीटकम् । तत्सुतः स्वगृहं प्राप्य तस्थौ विस्मितमानसः॥१७॥ सुभोगभूपतिं दृष्ट्वा तत्रोत्पन्नं शकट्टहे । जैनेश्वरं नराः केचिजगृहुर्धर्ममुत्तमम् ॥ १८॥ ॥ इति श्रीसुभोगभूपतिखकीयाशुचिभवनोत्पत्तिकथानकम् ॥ १५१॥ 1 पफज कुलकम्. 2 पफ युग्मम् , ज युगलम्. 3ज (=विष्टागृहे). 4 पफज चतुष्कुलकमिदम्. 5 [शरीरज]. 6 पफज त्रिकला. बृ० को० ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566