Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya,
Publisher: Bharatiya Vidya Bhavan
________________
-१४७. १३] शालिसिक्थकथानकम्
३४१ रूपी युवा गृहीतास्त्रः क्षुधापम्पाकदर्थितः । श्रेष्ठिनं प्राप वेगेन भुञ्जानं नरकुञ्जरः ॥ ६॥ करेणौदनमादाय' संनिविश्य तदन्तिके । निजे मुखे स चिक्षेप बुभुक्षाग्रस्तमानसः ॥७॥ नरेण तेन निक्षिप्ते चौदने वदने निजे । नामवादी जगादेमं कङ्कालसमविभ्रमम् ॥ ८॥ हस्तयोः पादयोः कृत्वा नर प्रक्षालनं पुनः । भाजनेऽन्यत्र विश्रब्धश्चरमं भोजनं कुरु ॥९॥ ततोऽसौ श्रेष्ठिवाक्येन हस्तपादादिधावनम् । विधाय भोजनं कर्तुमुपविष्टोऽन्यभाजने ॥१०॥ ततो यदृच्छया भुक्त्वा चाचम्याशु विधानतः । ताम्बूलं सत्समादाय विधायानेन जल्पनम् ॥११॥ निर्गत्य तगृहाद् दूरं लब्धचेष्टासमागमः । आत्मानं निन्दितुं सक्तः पथिकः शुद्धभावनः ॥ १२ ॥ क्षुधाभिभूतदेहेन कृतं कर्म विदं मया । पाटयित्वोदरं स्वस्य खड्गधेन्वा भुवं गतः ॥ १३॥ प्रहारविह्वलस्वान्तं दृष्ट्वाऽमुं श्रावकोऽवदत् । अशोभनमिदं भद्र त्वयान विहितं तराम् ॥ १४ ॥ श्रुत्वाऽस्य वचनं पान्थो विहितानुशयो जगौ । मयाऽद्य भक्तमुच्छिष्टं निक्षिप्तं वदने निजे ॥१५॥ 10 अयोग्यं विहितं कर्म मया स्वानुचितं भुवि । करोमि तदहं मित्र येन मे जायते सुखम् ॥१६॥ ऋषभादिक्रियां चावी क्रियमाणामपि क्षितौ । अनिच्छन् सर्वदा यो हि गुरुकर्मवशीकृतः ॥१७॥ आहारकारणात् सोऽयं जुगुप्सां प्राप्य भोगतः । शुभकर्मानुभावेन श्रेष्ठिपार्थ समाययौ ॥ १८ ॥ विहाय सकलं संग बाह्यमाभ्यन्तरं सकः । समाधिमरणं प्राप्य कालं कृत्वा दिवं ययौ ॥ १९ ॥
॥ इति श्रीनामवादिश्रेष्ठिमङ्गाहारार्थिपुरुषकथानकम् ॥ १४६ ॥ ॥
१४७. शालिसिक्थकथानकम् । सर्वद्वीपसमुद्राणां क्रमतः स्थितिशालिनाम् । पश्चिमो जलधिः कान्तः स्वयंभूरमणोऽभवत् ॥१॥ योजनानां शतान्येष पञ्च विष्कम्भतो झपः । सहस्रयोजनायामस्तत्कर्णावपि दीर्घकौ ॥२॥ स्वयंभूरमणस्थस्य तस्य मीनस्य वेगिनः । शालिसिक्तुप्रमाणोऽन्यः शालिशिक्काभिधो झषः ॥३॥ महागृद्धिसमेतोऽयं क्रूरचित्तोऽतिचञ्चलः । तस्य कर्णमलं खादंस्तिष्ठति प्रीतमानसः ॥ ४॥ 20 अन्यदाऽयं महामीनो भोजनार्थ बृहन्मुखः । मुखं प्रसार्य यावच्च तिष्ठति क्रूरचेतनः ॥५॥ एवं हि तिष्ठतस्तस्य शफरस्य विलासिनः । मीनकच्छपमाण्डूकाः प्रविशन्ति मुखान्तरम् ॥ ६॥ षण्मासावधिपर्यन्ते मुखे संकोचमीयुषि । तदंष्ट्रान्तरतो येऽल्पास्ते गच्छन्ति यथायथम् ॥ ७॥ विलोक्य तस्य तत्क्षुद्रान् मण्डूकादीन् झपानपि । दध्यौ तत्कर्णगः पापः शालिसिक्थः स्वचेतसि ॥८॥ अज्ञानी मूर्खतोपेतो मत्स्यः स्वार्थपरिच्युतः । दृष्ट्वैतान् पश्यतः पापः स्वैरं तिष्ठति योऽल्पकः ॥९॥2 शरीरं मे मुखं वाऽपि यदि तुङ्गं भवेदिदम् । ततो नैकोऽपि निर्याति मन्मुखाद्धि झषादिकः ॥१०॥ एवं चिन्तयतस्तस्य शालिसिक्थविसारिणः । महतोऽपि च मीनस्य याति कालो शनैः शनैः॥११॥ नानाजीववधं कृत्वा बृहन्मीनो मृतिं गतः । त्रयस्त्रिंशत्समुद्रायुः सप्तमे नरकेऽभवत् ॥ १२ ॥ शालिसिक्थोऽपि मत्स्योऽयं मृतिं कृत्वा सुदुष्टधीः । परिणामवधेनापि सप्तमं नरकं ययौ ॥१३॥
॥ इति श्रीशालि सिक्थकथानकमिदम् ॥ १४७ ॥
___1ज करेणोदन. 2 पफज त्रिकलमिदम्. 3 जनामवाद. 4 पफ जलधीः. 5 [ शालिसिक्थप्र]. 6 [शालिसिक्थाभिधो. 7 फ has lost some letters. 8 पफज चतुःकुलकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566