________________
- १४३. ६१ ]
चाणक्यमुनिकथानकम्
३३७
पश्य पादमिमं भिन्नमनया रुधिरारुणम् । शेषतोन्मूलयाम्येतां दर्भसूचीं नरोत्तम ॥ २९ ॥ अवाचि कविना भूयश्चाणाक्यः खिन्नविग्रहः । खातं बहु त्वया विप्र पर्याप्तं खननेन ते ॥ ३० ॥ कविवाक्यं समाकर्ण्य चाणाक्यो निजगावमुम् । तदाग्रहसमुद्भूतविस्मयव्याप्तमानसः ॥ ३१ ॥ मूलं नोन्मूलते यस्य तत्किं खातं भवेद् भुवि । स किं हतो नरैरज्ञैश्छिद्यते यस्य नो शिरः ||३२|| यावन्मूलं न चाप्नोति दर्भसूच्याः कृतागसः । भूयो भूयः प्रबन्धेन तेन तावत् खनाम्यहम् ||३३|| ' निशम्य तद्वचः सत्यं नन्दस्य सचिवः कविः । दध्यौ स्वचेतसि स्पष्टं विस्मयाकुलमानसः ॥३४॥ नन्दभूपालवंशस्य समर्थस्य महीतले । नाशं करिष्यति क्षिप्रं एष कोऽपि महानरः ॥ ३५ ॥ चिन्तयित्वा चिरं तत्र सभामध्ये जनाकुले । श्लोकमेकं लिलेखेमं कविविस्मितचेतसा ॥ ३६ ॥ नरेणैकशरीरेण नयशास्त्रयुतेन च । व्यवसायेन युक्तेन जेतुं शक्या वसुंधरा ॥ ३७ ॥ अन्यदाऽयं विलोक्यात्र लोकमेकं विचक्षणः । लिलेख निजहस्तेन चाणाक्यो धीरमानसः ||३८|| नरेणैकशरीरेण नयशास्त्रयुतेन च । व्यवसायेन युक्तेन जेतुं शक्या वसुंधरा ॥ ३९ ॥ इमं लिखितमालोक्य कविः श्लोकं मनोहरम् । चाणाक्योपरि संतुष्टचेतसाश्चर्यमीयुषा ॥ ४० ॥ अन्यदा भार्यया सार्धं चाणाक्योऽयं निमन्त्रितः । कविनाश्चर्ययुक्तेन तगृहं स गतोऽशितुम् ॥४१॥ ततोऽपि कविना तेन चाणाक्यस्य गृहाजिरे । दीनारा बहवः शीघ्रं निक्षिप्तास्तं परीक्षितुम् ॥४२॥ यशोमत्या गृहीतास्ते दीनाराः स्वगृहाङ्गणे । आदाय तान् पुरस्तुष्टा जगौ चाणाक्यमादरात् ॥४३॥ 1 ददाति कपिलां" नन्दो ब्राह्मणेभ्यो मनःप्रियाम् । तदन्तिकं परिप्राप्य गृहीत्वा गच्छतानरम् ॥४४॥ भार्यावचनमाकर्ण्य चाणक्यो निजगाद ताम् । त्वद्वाक्यतः प्रगृह्णामि गत्वा तां कपिलामहम् ॥४५॥ तत्संप्रधारणं श्रुत्वा कविमत्री कुतूहलात् । इदं निवेदयामास नन्दस्य प्रीतचेतसः ॥ ४६ ॥ बहुदुग्धसमायुक्तं महाराज समुज्जवलम् । गोसहस्रं प्रदेहि त्वं माहनेभ्यः सुभक्तितः ॥ ४७ ॥ कविवाक्यं समाकर्ण्य नन्दोऽपि निजगाद तम् । गोसहस्रं ददाम्येव ब्राह्मणानानय द्रुतम् ||४८ || 20 ततश्चाणक्यमाहूय नरेन्द्रवचनादरम् | कविर्निवेशयामास प्रधानाग्रासने तदा ॥ ४९ ॥ उपविष्टः स चाणक्यो दर्भासनकदम्बकम् । कुण्डिकाभिर्वृशीकाभी रुद्धा तस्थौ नृपान्तिके ॥५०॥ ततोऽयं कविना प्रोक्तो भट्टनन्दो जगाविदम् । तदर्थमासनं चैकं मुञ्च विप्राः समागताः ॥ ५१ ॥ तद्वाक्यतो विहायैकं विष्टरं स द्विजः पुनः । एकैकमासनं मुक्तं भूयः प्रोक्तोऽमुनेदृशम् ॥ ५२ ॥ भट्टनन्दो वदत्येवं भवन्तं भक्तितत्परः । अग्रासने परो विप्रो गृहीतो भूभुजा महान् ॥ ५३ ॥ 25 भव राजगृहाद्दूरे निर्गत्य त्वरितं द्विज । गत्वा बहिर्गृहद्वारे तिष्ठ त्वं सुसमाहितः ॥ ५४ ॥ निशम्य वचनं तस्य चाणक्यो " रक्तलोचनः । जगाद कर्तिका हस्तस्तं " नरं परुषस्वनः ॥ ५५ ॥ इदं न युज्यते कर्तुं भवतो न्यायवेदिनः । भोजनार्थं निविष्टस्य त्वगृहे मन्निरासनम् ॥ ५६ ॥ अर्धचन्द्रं गले दत्त्वा चाणक्यो घाटितोऽमुना । तन्निमित्तं रुषं प्राप्य निर्गतस्तगृहाद्बहिः ॥ ५७ ॥ नन्दवंशक्षयं शीघ्रं विदधामि विसंशयम् । एवं विचिन्त्य चाणाक्यो निजगाद वचः स्फुटम् ॥५८॥ ३° यदीच्छति नरः कोऽपि राज्यं निहतकण्टकम् । ततो मदन्तिके शीघ्रं तिष्ठतु प्रीतमानसः ॥ ५९ ॥ चाणाक्यवचनं श्रुत्वा नरः कोऽपि जगाविदम् । अहमिच्छामि भो राज्यं दीयतां मे द्रुतं प्रभो ॥ ६० ॥ निजहस्तेन तं हस्ते समादाय त्वरान्वितः । चाणक्यो रोषसंपूर्णो निजगाम पुरादरम् ॥ ६१ ॥
1 पफज युगलमिदम्. 2 पफज त्रिकलमिदम् 3 [ कविर्विस्मित ]. 4 फ omits Nos. 38-39. 5 पफ कपिलं. 6 [ गृहीत्वाऽऽगच्छ तामरम् ] 7 पफज युगलमिदम्. 8 पफ युग्मम्, ज युगलम्. 9 पफ युग्मम् ज युगलम्. 10 ज चाणाक्यो. 11 पफ कार्तिका [ कर्तिका ].
बृ० को ० ४३
Jain Education International
For Private & Personal Use Only
10
www.jainelibrary.org