________________
३३६ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१४२. ७-- तेन रोपानुबन्धेन भूभुजाऽयुक्तकारिणा । दुष्टमत्रिमतेनाशु मुनयो यत्रपीलिताः ॥ ७॥ शतानि पञ्च साधूनां विधायानशनं तदा । समाधि प्रतिपन्नानि निश्चयात् किं न साध्यते ॥ ८॥
॥ इति श्रीअभिनन्दनादिपञ्चशतमुनिकथानकम् ॥ १४२॥
१४३. चाणक्यमुनिकथानकम् । । पुरेऽस्ति पाटलीपुत्रे नन्दो नाम महीपतिः । सुव्रता तन्महादेवी विषाणदललोचना ॥१॥
कविः सुबन्धुनामा च शकटाख्यस्त्रयोऽप्यमी । समस्तलोकविख्याता भूपतेरस्य मत्रिणः ॥२॥ अस्मिन्नेव पुरे चासीत् कपिलो नाम माहनः । तद्भार्या देविला नाम चाणक्यस्तत्सुतः सुधीः ॥३॥ वेदवेदाङ्गसंयुक्तः सर्वशास्त्रार्थकोविदः । समस्तलोकविख्यातः समस्तजनपूजितः ॥ ४ ॥ नीलोत्पलदलश्यामा पूर्णिमाचन्द्रसन्मुखी । यशोमतिः प्रिया चास्य यशोव्याप्तदिगन्तरा ॥५॥ " कपिलस्य स्खसा तन्वी नाम्ना बन्धुमती परा । विधिना कवये दत्ता मत्रिणे कपिलेन सा ॥६॥ प्रत्यन्तवासिभूपानां क्षोभो नन्दस्य भूभुजः । कविना मत्रिणा सर्वो यथावृत्तो निवेदितः ॥ ७॥ कविवाक्येन भूपालो नन्दो मत्रिणमब्रवीत् । प्रत्यन्तवासिनो भूपान् धनं दत्त्वा वशं कुरु ॥ ८॥ नरेन्द्रवाक्यतोऽनेन मत्रिणा कविना तदा । वितीर्ण लक्षमेकैकं राज्ञां प्रत्यन्तवासिनाम् ॥ ९॥
अन्यदा नन्दभूपालो भाण्डागारिकमेककम् । पप्रच्छेदं कियन्मानं विद्यते महे धनम् ॥१०॥ 15 नन्दवाक्यं समाकर्ण्य धनपालो जगावमुम् । भाण्डागारे धनं राजन्न किंचिद्विद्यते तव ॥११॥
प्रत्यन्तवासिभूपानां कविना तव मत्रिणा । नरेन्द्र दत्तमेतेषां त्वदीयं सकलं धनम् ॥ १२ ॥ निशम्य तद्वचो राजा पुत्रदारसमन्वितम् । अन्धकूपे तकं वेगान्मत्रिणं निदधौ रुषा ॥ १३॥ एकैकं सकलं तत्र शरावं भक्तसंभृतम् । दीयते गुणयोगेन कवये हि दिने दिने ॥ १४ ॥
अत्रान्तरे कविः प्राह कुटुम्ब निजमादरात् । अन्धकूपसमासंगदुःखसंहृतमानसः ॥१५॥ 20 वैरनिर्यातने यो हि समर्थों नन्दभूपतेः । स परं भोजनं भुक्तां शरावेऽत्र सभक्तके ॥ १६ ॥
कविवाक्यं समाकर्ण्य तत्कुटुम्बो जगाद तम् । त्वमेव भोजनं मुंश्व शरावे सौदनं द्रुतम् ॥१७॥ उक्तं कुटुम्बमेतेन कविनासन्नवर्तिना । अन्धकूपान्तरे खात्वा बिलं तत्तटगोचरम् ॥ १८॥ तत्तटस्थः प्रभुञ्जानः शरावे सौदनं तदा । एवमुक्त्वा बिलं कृत्वा कविस्तस्थौ रुषान्वितः ॥१९॥ वर्षत्रयमतिक्रान्तं तत्रस्थस्य कवेः स्फुटम् । जीवनं चास्य संजातं मृतमन्यत् कुटुम्बकम् ॥२०॥ 25 किंवदन्तीं तकां ज्ञात्वा कवेः कोपारुणेक्षणैः । प्रत्यन्तवासिभिः भूपैर्वेष्टितं नन्दपत्तनम् ॥ २१ ॥ स्मृत्वा कवेः क्षणं राज्ञा नन्देनायमुदारधीः । पादयोः पतनं कृत्वा कूपादुत्तारितः पुनः ॥ २२ ॥ क्षमापणं विधायास्य नन्देनायं प्रचोदितः । वरं ब्रूहि महाबुद्धे प्रसन्नोऽस्मि तव स्फुटम् ॥ २३॥ नन्दस्य वचनं श्रुत्वा कविरूचे नरेश्वरम् । स्वहस्तेन मया द्रव्यं दातव्यं ते न चान्यतः ॥ २४ ॥
निशम्य वचनं तस्य भूभुजा मत्रिणः कवेः । प्रतिपन्नं सभामध्ये बालवृद्धसमाकुले ॥ २५ ॥ 30 अन्यदा भ्रमताऽनेन कविना द्रव्यमिच्छता । दर्भसूचीं खनन् दृष्टश्चाणाक्यश्चात्र संगतः ॥२६॥
दृष्ट्वाऽमुं कविना पृष्टश्चाणाक्यः स्खपुरः स्थितः । भट्ट किं कारणं दर्भसूचीं खनसि मे वद ॥२७॥ कवेर्वचनमाकर्ण्य चाणाक्यो निजगावमुम् । दर्भसूच्याऽनया विद्धो व्रजन् पादे सुतीक्ष्णया ॥२८॥ . 1ज चाणाक्य. 2 पफज युगलमिदम्. 3 ज बंधिमती. 4 पफज युगलमिदम्. 5 पफज युगलमिदम्. 6 पफज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org