________________
-१४२.६]
अभिनन्दनादिमुनिकथानकम् गुणयुक्तानि नामानि यथैतानि भवन्ति मे । सर्वाणि मातुल क्षिप्रं तवं विदधाम्यहम् ॥ २८॥' अवाचि मत्रिणा भूयः कुमारः पुरतः स्थितः । एवं भवतु विस्पष्टं नरवृन्दारकप्रभो ॥ २९ ॥ एवं प्रबोधिते तस्मिन् कुमारे बुद्धिशालिनि । सुबुद्धिनामयुक्तेन मत्रिणा मातुलेन हि ॥३०॥ अत्रान्तरे जिनो नेमिः केवली संघसेवितः । आजगाम तमुद्देशं महापल्लवदेशतः ॥ ३१॥ नेमिनाथं समालोक्य स्वपुरोद्यानमागतम् । प्राप धान्यकुमारोऽयं भक्तिनिर्भरमानसः ॥ ३२॥ त्रिःपरीत्य तमीशानं भक्त्या नत्वा पुनः पुनः। पप्रच्छ स्वभवं चायुः कुमारो नेमिनायकम् ॥ ३३॥ कुमारवचनं श्रुत्वा केवलज्ञानलोचनः । नेमिनाथो जगादेमं महावैराग्यसंगतम् ॥ ३४ ॥ कुमारान्यभवे राजाऽशोकमामाऽभवत् प्रभुः । सांप्रतं धान्यनामा त्वं स्वल्पायु गनिःस्पृहः॥३५॥ कृत्वा कालं समाधानात् कुमार त्वं सुधीरधीः । निहत्याशेषकर्माणि सिद्धिं यास्यसि नीरजाः॥३६॥ अन्यजन्मभवं श्रुत्वा स्वस्यायुः स्वल्पमप्यदः । नेमिनाथान्तिके दीक्षां कुमारः समशिश्रियत् ॥३७॥ 10 दीक्षामादाय जैनेन्द्रीं पूर्वकर्मानुभावतः । भिक्षां धान्यकुमारोऽयं लभते न कदाचन ॥ ३८॥ कदाचिदैवयोगेन लभते यदि पारणम् । भूयोऽपि वमनं योगी विदधाति पुनः पुनः ॥ ३९॥ अनेन साधुना सार्धं यदि भिक्षां भ्रमत्यसौ । पूर्वकर्मानुभावेन लभते न मनागपि ॥४०॥ काकतालीययोगेन प्राप्नोति यदि भोजनम् । भूयश्छदि करोत्येष प्राक्तनाशुभगौरवात् ॥४१॥ अन्यदा वीक्ष्य तच्छदि दत्तो विणुकयौषधौ । मुनेश्छर्दिन संजाता तदौषधविधानतः ॥ ४२ ॥ 15 प्रायश्चित्तादिकं कृत्वा प्रतिक्रमणमेव च । विहरन् स मुनिः प्राप तदानीं शूरपत्तनम् ॥ ४३॥ तत्पुरोत्तरदिग्भागे यमुनापूर्वरोधसि । तस्थौ प्रतिमया धीरः स मुनिः कर्महानये ॥४४॥ अथ सौरिपुरे राजा साधितारातिमण्डलः । बभूव यमुनापको यमुनापतिस्प्रधीः ॥४५॥ मृगयार्थ महासैन्यः कोपारुणनिरीक्षणः । जगाम यमुनापङ्कस्तां दिशं दैवयोगतः ॥४६॥ ततो निवर्तमानः सन् प्रतिमास्थं तकं मुनिम् । विलोक्य स नराधीशः सहसाऽयं रुषं ययौ ॥४७॥ 20 दर्शनेनास्य नग्नस्य शकुनोऽपि न मेऽभवत् । जगाम स्वपुरं राजा पूरयित्वा शरैरिमम् ॥४८॥ उपसर्ग सहित्वाऽस्य धीरो धान्यमुनिस्तदा । मोक्षं जगाम शुद्धात्मा निहताशेषकर्मकः ॥४९॥ मुनेर्धान्यकुमारस्य सिद्धिक्षेत्रं तदद्भुतम् । विद्यते पूज्यतेऽद्यापि भव्यलोकैरनारतम् ॥ ५० ॥ स नृपो यमुनापङ्कः प्राप्य कुष्ठं हि तद्भवे । जगाम नरकं घोरं रौद्रध्यानपरायणः ॥५१॥
॥ इति श्रीधान्यकुमारमुनिकथानकमिदम् ॥ १४१॥
१४२. अभिनन्दनादिमुनिकथानकम् । अत्रैव भरते वास्ये दक्षिणापथसंभवे । विद्यते विभवोपेतं कुम्भकारकृतं पुरम् ॥ १॥ दण्डवेगोऽभवद् राजा तत्पुरे साधिताहितः । तत्प्रिया सुव्रता नाम रूपयौवनगर्विता ॥२॥ अस्यैव भूपतेर्मत्री बालको नाम विश्रुतः । जिनशासनविद्वेषी मुनिसंघपराङ्मुखः ॥३॥ अभिनन्दनपूर्वाणि तत्पुरं जनसंकुलम् । शतानि पञ्च साधूनामागतानि निजेच्छया ॥४॥ वादेन चतुरङ्गेण खण्डिकाख्येन साधुना । जितोऽयं बालको मत्री सभायां नृपसंनिधौ ॥ ५॥ संबद्धेन महादेव्याः कूटमत्रं विधाय च । राजाऽयं रोषमानीतो मत्रिणा मुनिभिः समम् ॥ ६॥
1 पफज युगलमिदम्. 2 पफज युगलमिदम्, 3 [राजाऽशोकनामा ]. 4 पफज त्रिकलमिदम्. 5 [षधो]. 6 [संबन्धेन ]. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org