________________
३३४ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१४०.३३विभङ्गज्ञानतो ज्ञात्वा सुभद्रा व्यन्तरी रुषा । सौलिकारूपमादाय तन्मुनेः शिरसि स्थिता ॥ ३३॥ ततश्चञ्चूप्रहारेण सौलिका क्रूरमानसा । अक्षयुग्मं मुनेरस्य जग्राह चिरवैरतः ॥ ३४ ॥ दीर्घमस्तकयुक्ताभिः कीटिकाभिः पुनः पुनः । स्थानस्थः खाद्यमानोऽपि ध्यानाचलमधिष्ठितः ॥३५॥ अहोरात्रद्वयं सार्धमुपसर्गमिमं द्रुतम् । सोढा चिलातमित्रोऽगात् सिद्धिं सर्वार्थपूर्वकाम् ॥ ३६ ॥
॥ इति श्रीचिलातमित्रकथानकमिदम् ॥ १४ ॥
१४१. धान्यकुमारमुनिकथानकम् । अथ पूर्वविदेहस्थे वीतशोकाभिधे पुरे । अशोकसंज्ञको राजाऽशोकभार्यापतिः सुधीः ॥१॥ बलीवर्दमुखं बवा स्वकृषिक्षेत्रमागतः । राजा विगाहते तूर्णं धान्यसंग्रहलंपटः ॥२॥ प्राध्वंकृत्य स्तनांस्तासां स्तनपानं प्रति प्रभुः । महानसेऽखिलं कर्म कारापयति योषितः॥३॥ " एवं गच्छति तत्काले शिरसो वेदनस्य च । महारोगोऽभवत् सद्यो भूपतेरस्य दारुणः ॥ ४ ॥ ऊषधं भक्तसंयुक्तं प्राध्वंकृत्य महीपतिः । कृत्वा तद्भाजने चास्ते वेदनाव्याकुलाङ्गकः ॥ ५॥ अत्रान्तरे महायोगी प्रविष्टस्तस्य मन्दिरम् । दुर्वलाङ्गः स भिक्षार्थं युगान्तनिहितेक्षणः ॥ ६॥ विलोक्य भूपतिः साधुं समुत्थाय निजासनात् । सभेषजं ददावस्मै भिक्षादानं प्रयत्नतः ॥ ७॥
तदौषधप्रभावेन रोगो द्वादशवर्षजः । सद्यो मुनेः क्षयं प्राप दुःसाध्योऽपि भिषग्जनैः ॥ ८॥ 15 तद्वेदनासमासंगदुःखव्याकुलमानसः । जगाम पञ्चतां राजा कृतधर्मपरिग्रहः ॥ ९॥
अत्रैव भरतक्षेत्रे धर्मरत्नसमुद्भवे । आमलोपपदं कण्ठं नगरं समभूत् परम् ॥ १० ॥ बभूव तत्पुरे राजाऽरिष्टसेनो हताहितः । नन्दिमत्यभिधानाऽस्य रमणी रमणोचिता ॥ ११ ॥ अन्या महीपतेरस्य प्रजापालनकारिणः । निधिवेणुप्रिया चासीद् रूपराजितविग्रहा ॥ १२॥ राजाऽशोकचरो मृत्वा योगीशाहारदानतः । सुतो धान्यकुमाराख्यो नन्दिमत्या बभूव सः॥१३॥ 20 आरण्यहस्तिदमनाद् दमदत्तः प्रकीर्तितः । अनन्तवीर्यनामायं शिलोद्धरणयोगतः ॥ १४ ॥
महाशत्रुजयान्नूनमतोऽयमपराजितः । दुर्योधनस्तथा प्रोक्तः स्कन्धावारसमाश्रयात् ॥१५॥ बन्दिग्रहणतोऽन्येषां संग्रामे शूरभीतिदे । मण्डलाग्रसमाघाताजितशत्रुः प्रकीर्तितः ॥१६॥ तस्य मत्री सुबुद्धाख्यो मातुलो धान्यनामकम् । इदमाहूयते स्पष्टं मात्सर्योपहतात्मकः ॥ १७ ॥
दमदत्तादिनामानि गुणसंतानवन्त्यलम् । उच्चारयितुमेतस्य जातु वाञ्छति न क्वचित् ॥ १८ ॥ 25 अन्यदा मत्रिणाऽनेन पिशुनत्वमुपेयुषा । उक्तोऽयं तारनादेन कुमारो धान्यनामकः ॥ १९॥ निशम्य तद्वचः कोपात् कुमारः परुषस्वनः। जगादेमं स मां माम धान्यमाह्वयसे कुतः ॥२०॥ कुमारवचनं श्रुत्वा जगौ मन्त्री तकं पुनः । प्रधानकुलसंभूतस्तेन धान्यो मयोदितः ॥ २१ ॥ दमदत्तादिनामानि गुणवन्ति न तानि ते । मुनीनां हि प्रयुज्यन्ते कुमार कथयाम्यहम् ॥ २२ ॥
दमनादिन्द्रियाणां हि दमदत्तो मतो मुनिः। उग्रचर्याविधानेनानन्तवीर्यस्तथा भवेत् ॥ २३॥ ३० परीषहोपसर्गेण न कदाचित् पराजितः । अतोऽपराजितो ज्ञेयो कुमार मुनिनायकः ॥ २४ ॥
रागद्वेषादयो येन वैरिणो विषमा जिताः । जितशत्रुस्ततो ज्ञेयो नरनागमुनीश्वरः ॥ २५॥ एवमेतानि नामानि मुनीनां शुद्धचेतसाम् । भवन्ति ते न युज्यन्ते नरकुञ्जर जातुचित् ॥२६॥ मत्रिणो वाक्यमाकर्ण्य कर्णशूलविधायकम् । अवदन्मातुलं भूयः कुमारो भोगनिःस्पृहः ॥ २७॥
1 प वैरितः, फ वैरिनः. 2 [औषधं]. 3 पफ हस्तिमदना. 4 पफज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org