________________
-१४०. ३२]
चिलातमित्रकथानकम्
१४०. चिलातमित्रकथानकम् । गोपालकाभिधानोऽयं मगधाविषयोद्भवः । सार्थवाहश्चचालैकः सार्थेन महता सह ॥१॥ यशोधराभिधं दृष्ट्वा मुनिमेकविहारिणम् । भ्राम्यन्तं ग्राममध्येऽमुं क्रमतो गृहतो गृहम् ॥२॥ मृदुस्वभावयुक्तोऽयं दयार्दीकृतमानसः । भिक्षादानं ददावस्मै सार्थवाहः स साधवे ॥३॥ सार्थवाहो मृतिं कृत्वा जम्बूद्वीपे मनोरमे । पल्यैकजीवितो देवो जातोऽसौ भासुरप्रभः ॥४॥ सार्थवाहचरो देवो भुक्त्वा भोगं तदुद्भवम् । प्रश्रेणिकसुतो जातश्चिलाताख्यो विशुद्धधीः ॥५॥ ततः प्रश्रेणिको राजा श्रीमदुजयिनी पुरीम् । दूतं प्रवेशयामास मुद्रायणकुमारकम् ॥ ६॥ श्रीमदुञ्जयिनीनाथः प्रद्योतोऽपि नराधिपः । मुद्रायणं बबन्धाशु संग्रामे जनसंक्षये ॥ ७॥ सार्थेन महताऽऽगत्य कुमारः कुण्डनामकः । हृत्वा मुद्रायणं तूर्णं निन्ये राजगृहं पुरम् ॥ ८॥ ततः प्रद्योतभूपालो रुषमागत्य वेगतः । स्वसैन्यसमुदायेन ययौ प्रश्रेणिकं प्रति ॥ ९॥ श्रुत्वा प्रद्योतमायान्तं स्वपुरासन्नगोचरे । प्रश्रेणिकस्त्विमां शीघ्रं दापयामास घोषणम् ॥१०॥ बवा प्रद्योतभूपालं यस्तमानयति द्रुतम् । मदन्तिकं ददाम्यस्मै वरमिष्टं विसंशयम् ॥११॥ ततश्विलातपुत्रोऽपि श्रुत्वा जनकघोषणाम् । जलक्रीडारतं बवा प्रद्योतं प्रददौ पितुः ॥१२॥ ततः प्रद्योतमालोक्य तुष्टः प्रश्रेणिको नृपः । ददौ चिलातपुत्राय वरमेतमुदारधीः ॥१३॥ स्वकीययेच्छया पुत्र पुरे राजगृहेऽनिशम् । तिष्ठ द्वादशवर्षाणि भोगसंसक्तमानसः ॥ १४॥ ॥ ततः प्रश्रेणिको राजा वितीर्यास्मै स्वसंपदम् । जिनसेनान्तिके दीक्षां जग्राह जिनदेशिताम् ॥१५॥ ततश्चिलातपुत्रोऽपि श्रेणिकेन रुषं गते । कुर्वाणो विनयं बाढं स्वदेशादपसारितः॥१६॥ तूर्ण निर्धाटितोऽनेन निर्गत्य शनकैर्वनम् । मातामहान्तिकं प्राप चिलातो दीनमानसः ॥१७॥ दुर्गको विधायात्र गृहीत्वा देशमण्डकाम् । भुञ्जानः परमं भोगं चिलातो व्यवतिष्ठते ॥ १८॥ एवं चिलातपुत्रस्य याति कालः शनैः शनैः । अभूत् प्राणप्रियोऽत्यर्थं भर्तृमित्राभिधः सखा ॥१९॥ 20 मातुलो भद्रदत्ताख्यः सुभद्रां स्वसुतामसौ । दातुं नेच्छति तां कन्यां भर्तृमित्राय शोभनाम् ॥२०॥ सहस्रैः पञ्चभिः सार्धं भटानां तत्पुरं द्रुतम् । ग्रहीतुं तामसौ कन्यां भर्तृमित्रो ययौ रुषा ॥२१॥ स्नानं प्रकुर्वती कन्यां विवाहसमये सति । भर्तृमित्रः समादाय सुभद्रां प्रययौ ततः ॥ २२॥ तत्पृष्ठतः खसैन्येन कृतकोलाहलेन सः। दधाव श्रेणिकः कोपात् सहसाकृष्टकार्मुकः ॥ २३॥ तद्भयेनामुना कन्या भर्तृमित्रेण वेगतः । निहता व्यन्तरी जाता सुभद्रा दैवयोगतः ॥ २४ ॥ 28 भर्तृमित्रस्ततः शीघ्रं भयवेपितविग्रहः । वैभारपर्वतं तुङ्गमारुरोह श्रमातुरः ॥ २५॥ तत्पर्वतस्थितं दृष्ट्वा शिष्याणां पञ्चभिः शतैः । मुनिदत्तं मुनिं प्राप्य पप्रच्छेदमसौ तदा ॥ २६ ॥ सर्वसत्त्वदयोपेत गुणरत्नमहोदधे । किंचिदर्थपदं साधो मद्धितं ब्रूहि सांप्रतम् ॥ २७ ॥ निशम्य तद्वचः साधुः किंचिदर्थपदं त्विदम् । जगौ धर्मसमायुक्तं भर्तृमित्रस्य धीरधीः ॥२८॥ संसारसागरं घोरं तरीतुं यदि वाञ्छसि । मुनिरूपं ततो धृत्वा सांप्रतं तिष्ठ शोभनम् ॥ २९ ॥ 30 दीक्षामादाय जैनेन्द्रीं तदानीं मुनिवाक्यतः । तस्थौ चिलातपुत्रोऽयं प्रायोग्यमरणं प्रति ॥३०॥ ज्ञात्वा चिलातमित्रं च कायोत्सर्गव्यवस्थितम् । प्रणन्तुं श्रेणिकः प्राप स्कन्धावारसमन्वितः॥३१॥ त्रिःपरीत्य च तं भक्त्या पूजयित्वा प्रसूनकैः । वन्दित्वा श्रेणिको भूयो विवेश निजपत्तनम् ॥३२॥
1 पफज युगलमिदम्. 2 पफज युगलम्. 3 पफज युगलम्. 4 पफज युगलमिदम्. 5 पफ युग्मम्, ज युगलमू.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org