________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १३९. १४१
१५० ॥ १५१ ॥ १५२ ॥
१५३ ॥
१५४ ॥
नीलोत्पलदलश्यामा कन्दोट्टदललोचना । कनकोपपदा चित्रा बभूव तनयाऽनयोः ॥ १४१ ॥ साधयन्तीं तकां विद्यां खेचरीं रूपशालिनीम् । चित्रपूर्वगतिः खेटो जग्राह करपल्लवे ॥ १४२ ॥ श्रुत्वा तत्किंवदन्तीं च मनोगत्यादिखेचराः । ऊचुस्तं खरनादेन कोपारुणनिरीक्षणाः ॥ १४३ ॥ तिष्ठ द्वादश वर्षाणि भूत्वा भूगोचरः खगः । प्रायश्चित्तमिदं दत्तं तस्य तै रुपमागतैः ॥ १४४ ॥' अनेन कारणेनायं प्राप्य राजगृहं पुरम् । खेचरः प्रीतचेतस्कस्तस्थौ कामलतागृहे ॥ १४५ ॥ वर्षेर्द्वादशभिः पूर्णैर्ब्रजन्तं खेचरं दिवि । दृष्ट्वा पप्रच्छ तं विद्यां कुमारोऽभयपूर्वकः ॥ १४६ ॥ तद्वाक्यतो वितीर्णास्ता विद्याः खेटेन तस्य च । कुमारः साधयामास विद्यासंघ सुधीरधीः ॥ १४७॥ ततः साधितविद्योऽसौ कुमारोऽभयपूर्वकः । समं विद्याधरेन्द्रेण चकार स्थिरसंगतिम् ॥ १४८ ॥ अन्यदा दौहृदार्थत्वात् कुमारः प्रीतमानसः । सस्मार तस्य मित्रस्य विद्यादानविधायिनः ॥१४९॥ 10 कुमारस्मरणं ज्ञात्वा तदा दौहृदसंभवम् । खेचरेन्द्रः परिप्राप तन्मित्रं प्रेमतत्परः ॥ तदिष्टं दौहृदं कृत्वा विद्याधरमहेश्वरः । ततः पूजां परिप्राप्य जगाम स्वं निकेतनम् ॥ अथ मासेष्वतीतेषु नवसु क्रमतोऽस्य च । जातो गजकुमाराख्यस्तनयो धर्मभूषितः ॥ अत्रान्तरे समायातः सुमतिः सुमतिर्मुनिः । पूजितः सर्वलोकेन भक्तितः कृतवन्दनः ॥ समीपेऽस्य मुनेः श्रुत्वा धर्मं पूर्वभवं निजम् । जगामोपशमं धीमान् कुमारो गजपूर्वकः ॥ 15 तत्समीपे ततः प्राप्य कुमारो जैनपुङ्गवम् । गृहीत्वाऽऽगमसद्भावं प्राप्तश्चैकविहारताम् ॥ १५५ ॥ अन्यदा विहरन् क्वापि कलिङ्गविषयोद्भवम् । पुरं दन्तिपुराभिख्यमाजगाम महामुनिः ॥ १५६ ॥ तत्पश्चिमदिशो भागे स मुनिर्गजपर्वते । जग्राहातापनायोगं शुचौ कर्मविहानये ॥ १५७ ॥ पुरन्दरपुरश्रीके सुरमानसहारिणि । वसति श्रीतचेतस्को नरसिंहो नरेश्वरः ॥ १५८ ॥ अभवत् तन्महादेवी सुमतिः सुमतिस्तराम् । गुणपालः सुतस्तस्य निहताशेषशात्रवः ॥ १५९ ॥ गूढमत्रप्रयोगज्ञो मन्त्री निष्ठुरमानसः । बुद्धदासोऽभवत् तस्य नरेन्द्रस्य महामतेः ॥ १६० ॥ गजपर्वतमध्यस्थमालोक्य मुनिपुङ्गवम् । गुणपालो बभाणेदं मत्रिणं पुरतः स्थितम् ॥ १६९ ॥ किं कारणमयं योगी पर्वतेऽत्र समुन्नते । संतिष्ठतेऽचलखान्तो दिवाकरकराहतः ॥ १६२ ॥ गुणपालवचः श्रुत्वा बुद्धदासो जगावमुम् । राजन् शरीरमेतस्य गृहीतं चण्डवायुना ॥ निशम्य बुद्धदासस्य वचनं भूपतिर्जगौ । वदैतस्य मुनेः शीघ्रमौषधं वातनाशनम् ॥ 25 आकर्ण्य भूपतेर्वाक्यं बुद्धदासो जगावमुम् । शिलातलमिदं तप्तं क्रियते वह्निनौषधम् ॥ भिक्षानिमित्ततो यावन्मुनिर्यातः पुरं प्रति । तावच्छिलातलं तप्तं कारितं वह्निनाऽमुना ॥ इदं देवतया प्रोक्तो मुनिर्भिक्षां प्रति व्रजन् । मुनीन्द्र स्तोकमायुस्ते यत्पथ्ये तत्कुरु द्रुतम् ॥१६७॥ निशम्य देवतावाक्यं स मुनिवतसंशयः । आजगाम पुनर्धीरस्तदेवाभिशिलातलम् ॥ १६८ ॥ कृत्वाऽशनादिकस्यासौ नियमं सार्वकालिकम् । तस्मिन् शिलातले तस्थौ कायोत्सर्गेण धीरधीः॥ १६९॥ उपसर्गं सहित्वाऽमुं कृत्वा कालं समाधिना । अन्तकृत्केवली भूत्वा निर्वाणं गतवानसौ ॥ १७० ॥ दृष्ट्वा गजकुमारस्य तदाऽतिशयमीदृशम् । बुद्धदासोऽभवत् तूर्णं सम्यग्दर्शनसंयुतः ॥ १७१ ॥ गुणपालः खपुत्राय नरपालाय संपदम् । दत्त्वा तदा दधौ दीक्षां सुमत्यन्ते जिनोदिताम् ॥ १७२॥ ॥ इति श्रीगजकुमारमुनिकथानकमिदम् ॥ १३९ ॥
१६३ ॥ १६४ ॥
१६५ ॥
१६६ ॥
5
20
30
३३२
*
1 पफज युगलमिदम्. 2 पफज युगलमिदम् 3ज गौणपालं वचः.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org