________________
-१३९. १४० ]
गजकुमारकथानकम् अमराः केवलं ज्ञात्वा गुरुदत्तमहामुनेः । चतुर्विधाः परिप्राप्ता नन्तुं केवलिनं तदा ॥१०७॥ दृष्ट्वाऽतिशयमीक्षं गुरुदत्तस्य योगिनः । कृत्वा खनिन्दनं बाढं प्राप्य केवलिनं द्विजः ॥१०८॥ नत्वा केवलिनः पादौ श्रुत्वा धर्म जिनोदितम् । पप्रच्छ स्वभवान् पूर्वान् कपिलो भयवेपितः॥१०९॥ श्रुत्वाऽस्य वाचिकं शीघ्रं गुरुदत्तोऽपि केवली । जगाद तद्भवान् पूर्वान् संक्षेपेण यथाक्रमम् ॥११०॥ आसीस्त्वं प्रथमं भद्र विद्युदंष्ट्रः सुखेचरः । हतो नागकुमारेण मृत्वा रत्नप्रभामितः ॥१११॥5 ततो निर्गत्य रुष्टेन तोणिमत्पर्वतोपरि । पुण्डरीको महाकायः शातदंष्ट्रो भयंकरः ॥ ११२ ॥ गुरुदत्तेन भूपेन तद्गिरौ पञ्चताविधिम् । नीतोऽसि सांप्रत जातः कपिलः कपिलापतिः॥११३॥ श्रुत्वा केवलिनो वाक्यं हित्वा वैरं पुरातनम् । बभूव कपिलः सद्यस्तदन्ते मुनिपुङ्गवः ॥११४ ॥ कपिलोऽयं गृहीतार्थों गृहीतैकविहारकः । यथास्तमनशायी च कौङ्कणं विषयं ययौ ॥ ११५॥ गिरिवल्लरके भीमे शुष्ककाष्ठचयोपरि । कपिलः शर्वरीयोग जग्राह स्थिरमानसः ॥ ११६॥ 10 ततस्तद्वल्लरे वह्नि क्षिप्त्वा नक्तं स पामरः । अजानंस्तं मुनि तत्र जगाम स्खं निकेतनम् ॥११७॥ उपसर्ग सहित्वाऽरं चित्रभानुसमुद्भवम् । कपिलः शुद्धचेतस्कः कालं चक्रे समाधिना ॥११८॥ ततोऽसावच्युते कल्पे हारकुण्डलराजितः । द्वाविंशतिसमुद्रायुर्जातो देवो महर्द्धिकः ॥ ११९ ॥ ततोऽसौ कौङ्कणः प्राप्य प्रभाते वलरं द्रुतम् । तत्र तं मुनिमालोक्य वह्निना भस्मसात्कृतम् ॥१२०॥ विधाय निन्दनं वस्य गर्हणं च सुदुःखितः। तस्मिन्नग्नौ स्वयं क्षिप्त्वा देवो हीनोऽभवत् पुनः॥१२१॥ 15 आयुरन्ते सको विन्ध्ये नानाव्यालनगाकुले । श्वेतहस्ती बभूवाशु भीमरूपः सितध्वजः ॥१२२॥ अन्यदा तं गजं दृष्ट्वा कुर्वन्तं जनसंक्षयम् । अच्युतेन्द्रः समायातस्तदा बोधयितुं वने ॥१२३॥ बोधयित्वा तकं शीघ्रं नयदृष्टान्तहेतुभिः । अच्युतेन्द्रो दिवं जातो गजोऽपि प्रशमं ययौ ॥१२४॥ संयमाख्यं तपः शान्तं गजोऽयं प्रीतमानसः । चकारानुदिनं तत्र क्षान्तिभूषितविग्रहः ॥ १२५॥ अन्यदा गजवृन्दं च दावानलशिखाहतम् । अधो न्यग्रोधवृक्षस्य तस्थौ संत्रस्तमानसम् ॥१२६॥ 20 दावानलश्चिरं तत्र ज्वालाभासितपुष्करः । शुष्कशाखां दहत्यग्निनितान्तं तद्गजोपरि ॥ १२७॥ एवं ज्वलति तद्वह्नौ सम्यग्दृष्टिगजस्य च । पादमूलेऽग्निसंत्रस्तः प्रविष्टः शशकस्तदा ॥ १२८॥ सम्यग्दृष्टिगजो मृत्वा दावानलशिखाहतः । शान्तिभूषितचेतस्कः सहस्रारे सुरालये ॥ १२९ ॥ पद्मगुल्मविमानेऽभून्मुक्ताहारविराजितः । अष्टादशसमुद्रायुः सुरो रूपमनोहरः ॥ १३०॥ ततो गजचरो देवश्युत्वा राजगृहे पुरे । श्रेणिकस्य महादेव्या गर्ने सोऽयं धनश्रियः ॥ १३१ ।। 25 श्रेणिकस्य महादेव्या रूपवत्या धनश्रियः । तस्मिन् गर्भस्थिते देवे दौहृदं समभूदिदम् ॥१३२॥ अभिरुह्य गजं हन्तुं प्रावृटकाले सविद्युति । स्कन्धावारेण सर्वेण प्रविश्य गहनं वरम् ॥ १३३ ॥ न्यग्रोधस्य फलावाप्त्यै दिव्यशाखादिशालिनः । फलपत्रसमृद्धस्य चित्रपादपशोभिनः ॥ १३४॥ रजनीपश्चिमे यामे श्वेतस्य वनहस्तिनः । स्वप्ने प्रदर्शनं जातं मम नाथाद्य शोभनम् ॥ १३५ ॥ धनश्रियो वचः श्रुत्वा श्रेणिको दुःखिताशयः । अभयादिकुमारं च समाहूयाभ्यधादिदम् ॥१३६॥ 30 कुमार सुकुमाराङ्ग मतिराजितमानस । उपायं ब्रूहि मे शीघ्रं दौहृदस्य धनश्रियः ॥ १३७ ॥ तातीयं वचनं श्रुत्वा कुमारोऽभयपूर्वकः । तदुपायं जगादेमं श्रेणिकस्य पुरस्तदा ॥१३८ ॥ विद्यते विजयाधस्य दक्षिणस्यां दिशि प्रभो । आकाशतिलकाभिख्या नगरी परमोत्सवा ॥ १३९ ॥ बभूवास्यां पुरि श्रीमान् खेचरेन्द्रो मनःप्रियः । कनकोपपदा माला तत्प्रिया मनसः प्रिया ॥१४॥ ____ 1 पफज युगलमिदम्. 2 पफ काष्ठचरोपरि. 3 [ यातो ]. 4 ज गर्भे स धनश्रियः, [ सोऽयाद्धनश्रियः ]. 5 पफज चतुःकुलकमिदम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org