________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १३९.७४आकर्ण्य तं मुनिं प्राप्तं गिरावत्र मनोरमे । आजगाम महाभत्त्या गुरुदत्तस्तदन्तिकम् ॥ ७४ ॥ त्रिः परीत्य मुनिं भक्त्या नत्वाऽमुं स निविश्य च । पप्रच्छ स्वान् भवान् पूर्वान् गुरुदत्तः कृताञ्जलिः ॥ गुरुदत्तोदितं श्रुत्वा मुनिचन्द्रो महामुनिः। कृपावधूपरिष्वक्तमानसो निजगाविदम् ॥ ७६ ॥
आसीदन्यभवे राजन् राजोपरिचरोऽप्यहिः । ततो नागकुमारोऽपि गुरुदत्तोऽसि सांप्रतम् ॥७७॥ 5 श्रुत्वा भर्तृभवानेतांश्चतुरोऽपि मुनीरितान् । पप्रच्छ स्वभवं पूर्वमभयादिमतिर्यतिम् ॥ ७८॥ अभयादिमतेर्वाक्यं निशम्य मुनिनायकः । अवादीत् तद्भवान् सर्वानवधिज्ञानलोचनः ॥ ७९ ॥ आसीद् गरुडवेगाख्यो गन्धर्वनगरोद्भवः । तत्प्रिया गोमती नाम संजाता पूर्वजन्मनि ॥ ८० ॥ अन्यदैतां पुरीं वापि विहरन् गतियोगतः। मुनिः समाधिगुप्ताख्यः संप्रापज्जनवत्सलः ॥ ८१॥ मधुमांससुरापानस्तेयप्राणिवधोज्झनम् । व्रतमेतत् समादाय गत्वा त्वं स्वगृहं पुनः ॥ ८२ ॥ 10 त्वद्धवेन पुनर्बद्धा बहवस्तित्तिरा गृहे । पञ्जरस्थास्त्वया मुक्ता गतास्ते स्वमनीषितम् ॥ ८३॥ ततस्तेन रुषा त्वं च स्वगृहाद्घाटिता सती । कृत्वा निदानजान् भोगान् संप्राप्ता पञ्चतामरम् ॥८४॥ जाता त्वं चन्द्रलेखायास्तनया मतिशालिनी । अभयादिमतिः पुत्रि दयार्दीकृतमानसा ॥ ८५॥ त्वया गर्भस्थया तन्वि धर्मविन्यस्तचेतसा । त्वन्मातुश्चन्द्रलेखाया बभूव हृदि दौहृदम् ॥ ८६॥
त्वजनन्या धवोऽवाचि नाथाहमखिलाङ्गिनाम् । अभयं त्वत्प्रसादेन ददामि वसुधातले ॥ ८७॥ 15 त्वन्मातृवाक्यतोऽनेन स्वकीये विषयेऽखिले । जीवाभयप्रदानोत्था वितीर्णा घोषणा द्रुतम् ॥८८॥ अनेन कारणेनायें जनकेन दयाऽन्विता । अभयादिमतिः प्रोक्ता समस्तनृपसाक्षिकम् ॥ ८९ ॥ श्रुत्वाभयमतिः पूर्वं भवं मुनिवरोदितम् । अभयाद्यर्यिकापार्श्वे प्रवव्राज मनस्विनी ॥९॥ गुरुदत्तः सपुत्राय श्रीदत्ताय श्रियं पराम् । दत्त्वाऽमितमुनेः पार्थे तपो जैनमशिश्रियत् ॥ ९१॥
अथ भक्तं समादाय कपिला दधिमिश्रितम् । क्षेत्रं जगाम हृष्टात्मा स्वकीयं पतिशासनात् ॥९२॥ 20 कपिलो विलिखेत् क्षेत्रं लाङ्गुलेन क्षुधाऽर्दितः । क्रुद्धो मध्याह्नवेलायां प्रययौ निजमन्दिरम् ॥१३॥ दृष्ट्वा निजगृहे रुष्टः कपिलः कपिलां जगौ । दुष्टे किं कारणं भक्तं भुक्त्वा स्वगृहमागता ॥ ९४॥ अहमद्यापि पापिष्ठे क्षुधापम्पाकदर्थितः । तिष्ठामि दुष्टचेतस्को दुर्जनानां सुदुर्जनि ॥ ९५ ॥ कपिलोदितमाकर्ण्य कपिलाऽपि बभाण तम् । त्वदर्थं भक्तमादाय गता क्षेत्रं मनःप्रिय ॥९६ ॥
अदृष्ट्वा त्वां पुनस्तत्र बुभुक्षाग्रस्तचेतसम् । आगता स्वगृहं नाथ भयवेपितविग्रहा ॥ ९७ ॥ 25 कपिलाया वचः श्रुत्वा न्यगदीत् कपिलोऽपि ताम् । मुनिना तेन किं नोक्तमिदं वाक्यं पुरस्तव ॥९॥
अन्यक्षेत्रं गतो विप्रो हलमादाय बालिके । क्षेत्रस्य कर्षणं कर्तुं बुभुक्षाग्रस्तमानसः ॥ ९९ ॥ निशम्य कपिलेनोक्तं जगाद कपिलाऽपि तम् । इदं मुनिमया पृष्टो किं दृष्टो मत्पतिस्त्वया ॥१०॥ मुनिस्तथाऽपि नो किंचिद्वक्ति निष्ठुरमानसः। अलोकज्ञो विशुद्धात्मा मूकतां प्राप्य तस्थिवान्॥१०॥
तद्वाक्यतो रुपं हित्वा कपिलः कपिलोपरि । सद्यश्चुकोप दुष्टात्मा साधवेऽस्मै कृपावते ॥१०२॥ 30 वर्तिविण्टनमादाय करेणाग्निं च विप्रकः । प्रतिमास्थं मुनिं प्राप्य कोपलोहितलोचनः ॥१०३॥
पादप्रभृति तं साधु यावन्मस्तकमादरात् । वेण्टेन वेष्टयित्वाशु नितान्तं छिद्रवर्जितम् ॥ १०४॥ तन्मस्तकोपरि क्षिप्रं विस्मयाहारकं क्रुधः । कपिलोऽग्निं प्रजज्वाल पूर्ववैरानुबन्धतः ॥१०५॥ अध्यास्य वेदनां घोरां गुरुदत्तो महामुनिः। संप्राप्य केवलज्ञानं लोकालोकावलोकनम् ॥१०६॥
1 पफज कुलकमिदम्. 2 पफज त्रिकलमिदम्. 3 पफज युगलमिदम्, 4 पफज युगलमिदम्. 5 पफज युगलम्. 6 पफज त्रिकलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org