________________
३२९
-१३९. ७३]
गजकुमारकथानकम् हस्तिनागपुरे कान्ते कुरुवंशसमुद्भवः । राजा विजयदत्तोऽभूद् विजयाऽस्य नितम्बिनी ॥४१॥ देवो नागकुमारोऽपि कालं कृत्वाऽऽर्तवर्जितः । गुरुदत्ताभिधो रूपी बभूव तनयोऽनयोः॥४२॥ जनकोऽस्याष्टवर्षस्य दत्त्वा राज्यं महामतिः । जिनसेनान्तिके दीक्षां जग्राह जिनदेशिताम् ॥४३॥ हस्तिनागपुरे रम्ये गुरुदत्तोऽपि तत्सुतः । चकार विपुलं राज्यं त्रिदिवे वा पुरन्दरः॥४४॥ लाटदेशाभिधे देशे चारुलोकधनान्विते । पूर्वोत्तरदिशाभागे तोणिमद्भूधरस्य च ॥४५॥ । आसीच्चन्द्रपुरी रम्या सितप्रासादसंकुला । बहुलोकसमाकीर्णा धनधान्यसमन्विता ॥४६॥ चन्द्रकीर्तिरभूदस्यां नरेन्द्रो जितशात्रवः । चन्द्रलेखा महादेवी तस्य चन्द्रसमानना ॥४७॥ जिनमत्यादिकास्तस्या बभूवुः सप्त कन्यकाः । तन्मध्ये पश्चिमा जाताऽभयादिमतिरुत्तमा ॥४८॥ गुरुदत्तोऽपि तां कन्यां तत्तातं याचिते तराम् । तत्पिता मनसाऽपीमां दातुं नेच्छति रूपिणीम् ॥४९॥ अनेन कारणेनाशु स्कन्धावारेण भूयसा । वेष्टयित्वा पुरीमस्य गुरुदत्तोऽपि तस्थिवान् ॥ ५० ॥ ततो महाहवो जातो गुरुदत्तस्य भीषणः । चन्द्रकीर्तिनृपेणामा बहुशूरक्षयावहः ॥५१॥ ततो महीन्द्रदत्तस्य स्थितस्य रणमस्तके । सकङ्कणोऽरिणा छिन्नः केनचित् पातितः करः ॥ ५२॥ गृहीत्वा तं करं शीघ्रं सौलिका गगनस्थिता । भ्राम्यति स्म यशोऽस्यैव दर्शयन्तीव नाकिनाम् ॥५३॥ भ्रमन्त्याः सौलिकायाः खे स्थिताया निजमन्दिरम् । पपात सहसा व्योम्नः करोऽभयमतेः पुरः ॥५४॥ स्वपुरस्थं करं दृष्ट्वा महाकटकराजितम् । कन्यया धात्रिका पृष्टा ब्रूह्ययं पतितः कुतः॥ ५५ ॥ 15 कन्यावचनमाकर्ण्य धात्रिका निजगावमूम् । विस्मयव्याप्तचेतस्कां किंचिञ्चकितमानसाम् ॥५६॥ कृते ते पुत्रि संग्रामे प्रवृत्ते जनसंक्षये । कस्यचित् केनचिच्छिन्नः करोऽयं पतितो भुवि ॥ ५७॥ धात्रिकावाक्यमाकर्ण्य कन्येयं विकसन्मुखी । सविस्मया च संजाता तदानीं क्षणमात्रकम् ॥५८॥ अत्रान्तरे भयग्रस्तश्चन्द्रकीर्तिनरेश्वरः । ददौ कन्यामिमां प्रीतो गुरुदत्ताय धीमते ॥ ५९॥ अनया भार्यया सार्धं गुरुदत्तस्य तिष्ठतः । आगत्य सहसा लोको जगादेदं पुरोऽस्य सः ॥ ६० ॥ 20 तोणिमत्पर्वतस्यान्ते स्थितेन नरकुञ्जर । व्याघेणोद्वासितो देशः सकलोऽपि दुरात्मना ॥ ६१॥ श्रुत्वा लोकवचो राजा गुरुदत्ताभिधो रुषा । खसैन्यसमुदायेन तोणिमत्पर्वतं ययौ ॥ ६२॥ श्रुत्वा कलकलारावं तत्सैन्यस्य करिवनम् । प्रविवेश गुहामध्यं वसरो भयविह्वलः ॥ ६३ ॥ यदा तन्मारणं कर्तुं शक्नुवन्ति न तन्नराः । तदा गुहामुखे वह्निज्वालितस्तैस्तृणादिभिः ॥ ६४ ॥ तद्गुहामुखकीयेन महाधूमेन वह्निना । ज्वालोद्योतितखेनाशु व्याघ्रो मृतिमुपागमत् ॥६५॥ 25 चन्द्रापुर्यामभूद् विप्रो भवधर्माभिधः पुरि । तत्प्रिया माहनी नाम विश्वदेवी मनःप्रिया ॥६६॥ मृत्वा व्याघ्रोऽभवत् पुत्रस्तयोः प्रेमानुरक्तयोः। कपिलो नाम विख्यातः कपिलाऽस्य च तत्प्रिया॥६७॥ ततो बहूनि वर्षाणि भुक्त्वा भोगान् यथेप्सया । भव्यानभयमत्याऽमा चन्द्रपुर्यामनारतम् ॥६८॥ हस्तिभिर्मदिभिस्तुङ्गैतिवेगैस्तुरङ्गमैः । रथैः कनकनिर्माणैः पादातैः कृतनिखनैः ॥ ६९ ॥ सहितो बन्दिवृन्देन तूर्यमङ्गलनिखनैः । गुरुदत्तो विवेशाशु हस्तिनागपुरं परम् ॥ ७० ॥ ॥ ततोऽभयमतिश्चार्वी कालेन कलनिस्वना । सुतया भद्रनामानमसूत तनयं परम् ॥ ७१ ॥ अन्यदा तत्पुराभ्याशे धरणीभूषणं गिरिम् । नानाशिलातलोपेतं तरुषण्डविराजितम् ॥ ७२॥ अमृताश्रवनामायमाचार्यः श्रुतसागरः । आजगाम तपोराशिमुनीनां सप्तभिः शतैः ॥७३॥
1 पत्रिदेवे, फ त्रिदेवा. 2 [याचते]. 3 [खपुरस्तं]. 4 पफज युगलमिदम्. 5 पफज युगलमिदम्. 6 पफज युगलमिदम्. 7 पफज त्रिकलमिदम्. 8 पफज युगलमिदम्.
बृ० को०४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org