________________
३२८ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१३९. ८विद्युइंष्ट्रो रुषं प्राप्य नीत्वा स्वनगरं प्रियाम् । आजगाम पुनः शीघ्रं तद्वने खेचरेश्वरः ॥८॥ सुदर्शनाख्यवाप्या हि घनया शिलया रुषा । द्वारमाच्छादयामास विद्युइंष्ट्रखगेश्वरः ॥ ९॥ एवं कृतेऽमुना कोपान्मिथ्यादर्शनसंयुतः। तदोपरिचरो राजा ममार सहसाऽत्र सः ॥१०॥ मृत्वाऽऽर्तध्यानतो राजा तद्वनेऽरुणलोचनः । कृष्णाञ्जनशरीराभो दन्दशूको बभूव सः॥ ११ ॥ 5 पद्मावत्यादिका भार्या सम्यग्दर्शनसंयुताः । विधायानशनं तस्यां मग्रुर्युगपदेव ताः ॥१२॥ विमाने खस्तिकावर्ते प्रथमवर्गसंभवे । चतस्रोऽपि महादेव्यो बभूवू रूपसंयुताः ॥ १३ ॥ तृतीयदिवसे जातेऽनन्तवीर्यस्तदङ्गजः । जगाम सहसा रन्तुं तदुद्यानवनं मुदा ॥ १४ ॥ तच्छिलातलसंविष्टमवधिज्ञानलोचनम् । मुनि सागरसेनाख्यं ददर्शानन्तवीर्यकः ॥१५॥
नत्वाऽमुं भक्तितो राजा तोषशोकसमन्वितः । अवधिज्ञानसंपन्नं पप्रच्छेमं महामुनिम् ॥ १६ ॥ ॥ भव्यलोककृतानन्द सुरखेटनमस्कृत' । मत्पिता कां गति नाथ गतो ब्रूहि ममाधुना ॥ १७ ॥ निशम्यानन्तवीर्यस्य वचनं मुनिसत्तमः । वचसा सत्यरूपेण बभाणेमं पुरः स्थितम् ॥ १८॥ सुदर्शनाख्यवाप्यन्ते विद्युदंष्ट्रण कोपतः । त्वत्पिता मरणं नीतः शिलापिहिततन्मुखे ॥ १९॥ आर्तध्यानान्मृतिं प्राप्य मिथ्यादर्शनयोगतः। बभूवात्र वने कृष्णो भीमभोगो भुजङ्गमः॥२०॥
श्रुत्वा महामुनेवाक्यं तदाऽनन्तबलोऽगलन् । किमयं नाथ मे ब्रूहि जिनधर्म ग्रहीष्यति ॥ २१॥ 15 आकर्ष्यानन्तवीर्यस्य वचनं मुनिनायकः । अवधिज्ञानसंपन्नो बभाणेमं तदङ्गजम् ॥ २२॥
गत्वा तद्विलसामीप्यमेवं वद भुजङ्गमम् । यथोपरिचर क्षिप्रमेहि साधुसमीपताम् ॥ २३॥ त्वदीयवचनं श्रुत्वा बिलान्निर्गत्य वेगतः । जातिस्मरत्वमासाद्य सर्पो धर्म ग्रहीष्यति ॥ २४॥ मुनिवाक्येन संप्राप्य तदन्तं नरकुञ्जरः । बभाण मुनिवाक्येन पन्नगं बिलसंस्थितम् ॥ २५॥
अनयाऽवस्थया सर्प मुनिमासाद्य कोपतः । जिनधर्म गृहाणाशु सुखितां येन गच्छसि ॥ २६ ॥ ॥ श्रुत्वाऽनन्तबलस्योक्तं निर्गत्य शनकैर्बिलात् । मुनिपार्श्व जगामाहिधर्मविन्यस्तमानसः ॥ २७॥
पुरःस्थितमहिं साधुर्जगावुपचरं पुरा । धर्म गृहाण मद्वाक्यादधुना जिनदेशितम् ॥ २८॥ जातिस्मरत्वमासाद्य सर्पोऽयं मुनिवाक्यतः । जग्राह मनसा धर्म भक्तितो जिनभाषितम् ॥ २९॥ अल्पायुः स्वस्य विज्ञाय मुनिचन्द्रनिवेदनात् । गृहीत्वाऽनशनं तूर्ण पञ्चत्वमगमत् फणी ॥३०॥ देवो नागकुमारोऽभूत् त्रिपल्योपमजीवितः । हारराजितवक्षस्कः सुन्दरो नागमन्दिरे ॥ ३१ ॥ 25 अन्यदा जननीदेवो विज्ञायावधियोगतः । रूपराजितसर्वाङ्गं तदन्तं सहसाऽगमत् ॥ ३२॥
ततः सुवासुनामानं समाहूय स्खनन्दनम् । ददावनन्तवीर्योऽयं निजराज्यमकण्टकम् ॥ ३३॥ बाह्यमाभ्यन्तरं संगं हित्वाऽनन्तबलस्तदा । दधौ सागरसेनान्ते दीक्षां दैगम्बरीमरम् ॥ ३४ ॥ निहत्याशेषकर्माणि कृतदुःखानि देहिनाम् । मुक्तिं जगाम शुद्धात्माऽनन्तवीर्यो महामुनिः ॥३५॥
अथ नागकुमारोऽसौ नन्दीश्वरमहामहम् । विधाय मन्दरं प्राप्य वन्दनार्थं जिनेशिनाम् ॥ ३६॥ 30 विद्युद्दष्ट्रं गिरावत्र विद्यां साधयितुं श्रितम् । देवो नागकुमारोऽसौ सकलत्रं ददर्श तम् ॥ ३७॥ नीत्वा वारिधिमध्यं तं सकलत्रं निकारिणम् । पूर्ववैरानुबन्धेन ममार स सुरो रुषा ॥ ३८॥ खटखटाभिधे श्वभ्रे विद्युदंष्ट्रो हतोऽमुना । देशोनकत्रिपल्यायुः प्रथम नरकं ययौ ॥ ३९ ॥ ततो निःसृत्य दुःखेन विद्युदंष्ट्रचरो सुहृत् । बभूव पुण्डरीकोऽसौ तोणिमद्धरणीधेर ॥ ४०॥
1 पफ नमस्कृतः. 2 पफज युगलमिदम्. 3 पफज त्रिकलमिदम्. 4 [°वलोऽगदत् ]. 5 पफज निकलमिदम. 6 h has an emendation भक्तितः, 7 पफज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org