________________
३२७
-१३९.७]
गजकुमारकथानकम् पृथुराज्यं मयि स्पष्ट कुर्वाणो नरनायकः । अयं तत्पत्तनं याति नक्तं दिवमतन्द्रितः ॥५१॥ मत्पुरं सकलं राजन् रक्षताऽनेन चौरतः । मत्प्रभुस्तस्करोऽत्यर्थं तलारोऽहं च तत्पुरे ॥ ५२ ॥ न शोभनमिदं कार्य विधातुं नगरेऽत्र मे। तस्करो यत्र भूपालस्तत्र किं क्रियते मया ॥ ५३॥ चिन्तयित्वा चिरं तत्र मद्भयेन गरीयसा । आरक्षिकपदं हित्वा त्वदन्तमयमागतः ॥ ५४॥ बहुकालमदृष्ट्वाऽमुं कुर्वाणोऽस्य परीक्षणम् । अहं समागतो राजन् भवदीयं पुरं द्रुतम् ॥ ५५ ॥ । आवयोरेष संबन्धः प्राकृतः प्रकटो महान् । नरवृन्दारक स्पष्टः कथितस्ते मयाऽखिलः ॥५६॥ हारादिकं धनं सर्वं भूपालस्य पुरो लघु । तदा समर्पयामास विद्युच्चौरः सभान्तरे ॥ ५७ ॥ लोकोऽपि सकलं दिव्यं स्वकीयं तत्पुरोद्भवम् । जग्राह विस्मितस्वान्तस्तोषविस्फारितेक्षणः॥५८॥ इमं निगद्य वृत्तान्तं भूपस्य पुरतोऽखिलम् । तस्थौ मुदितचेतस्को विद्युच्चौरो नृपान्तिके ॥ ५९॥ अथ विधुच्चरस्यान्तं विज्ञाताशेषकारणेः । मत्रिभिः प्रहितो दूतो विन्यातटपुरादरम् ॥ ६०॥ ॥ विद्युच्चौरं परिप्राप्य जगौ दूतोऽपि तत्पुरः । आगत्य स्वपुरं शीघ्रं कुरु राज्यमकण्टकम् ॥ ६१ ॥ राजाऽयं सकलं ज्ञात्वा वृत्तान्तं दूतवाक्यतः । विद्युचौराभिधो नूनं भागिनेयो ममागतः ॥ ६२॥ भागिनेयं परिज्ञाय राजाऽयं निजगावमुम् । ददामि ते सुतां वत्स प्रतीच्छ द्रुतमादरात् ॥ ६३॥ अपकर्ण्य वचस्तस्य मातुलस्य विषादिनः । यमदण्डसमेतोऽसौ जगामाशु स्वपत्तनम् ॥ ६४ ॥ तत्र पुत्रं समाहूय समस्तजनसाक्षिकम् । राज्यपढें बबन्धास्य तदा विद्युच्चरः सुधीः ॥६५॥ 15 हित्वा परिग्रहं सर्वं बहुसामन्तसंगतः । गुणसेनान्तिके दीक्षां दधौ विधुच्चरस्तदा ॥६६॥ नानातपः प्रकुर्वाणः शिष्याणां पञ्चभिः शतैः । तामलिन्द्रीं पुरीं प्राप मन्दं विद्युचरो मुनिः॥६७॥ तत्पुराभ्याशवर्तिन्या दुर्गया सहसा मुनिः । गदितोऽयं महाभत्तया नतया तत्पदाम्बुजे ॥ ६८॥ यावत् समाप्तिमायाति मत्पूजा परमेश्वरः । तावन्मा पत्तनं याहि सदयं दिनपञ्चकम् ॥ ६९ ॥ अपकर्ण्य वचस्तस्याः शिष्यैः प्रेरितमानसः । विवेश नगरी धीरः पताकावलिराजिताम् ॥ ७० ॥ 20 तामलिन्द्रीपुरस्यास्य समीपे परिधेरयम् । तस्थौ पश्चिमदिग्भागे नक्तं प्रतिमया मुनिः ॥ ७१ ॥ एवं स्थिते मुनौ तत्र रात्रौ देवतया तया । रुपा दंशोपसर्गोऽयं विहितः क्रूरचित्तया ॥ ७२ ॥ नानादंशोपसर्ग तं सहित्वा मेरुनिश्चलः । विद्युच्चरः समाधानान्निर्वाणमगमद्रुतम् ॥७३॥
॥ इति श्रीविद्युच्चरमुनिकथानकमिदम् ॥ १३८ ।।
25
१३९. गजकुमारकथानकम् । अथ श्रावस्तिकाख्यायां नगर्यामभवत् प्रभुः । इक्ष्वाकुवंशसंभूत उपर्युपपदश्चरः ॥१॥ अभवत् तन्महादेवी पद्मावत्यभिधानिका । तनयोऽनन्तवीर्याख्योऽनन्तवीर्यः परोऽनयोः ॥२॥ शतानि पञ्च पुत्राणां सन्ति तस्य महीभृतः । रूपयौवनयुक्तानां वज्रपाण्यादिशालिनाम् ॥ ३॥ अथोपरिचरो राजा स्वकीयान्तःपुरान्वितः । महाप्रमोदसंयुक्तः प्रमदादिवनं ययौ ॥४॥ तत्र पद्मावती देवी द्वितीया चामितप्रभा । तृतीया सुप्रभा चाथ चतुर्थीयं प्रभावती ॥ ५॥ 30 महादेवीभिरेताभिः क्रीडितुं सह तदने । सुदर्शनाख्यवाप्यन्ते दृष्ट्वोपरिचरं नृपम् ॥ ६॥ मदनोपपदा वेगा विद्युइंष्ट्रधवान्विता । तदा प्रशंसयामास रममाणा वनान्तरे ॥७॥"
1 [द्रव्यं]. 2 ज तामलिन्द्रीपुरी. 3 [परमेश्वर ]. 4 पफ नानादेशोपसर्ग. 5 पफज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org