________________
३२६
हरिषेणाचार्यकृते बृहत्कथाकोशे
[१३८. १८श्लोकत्रयनिबद्धं यद्वचनं धूर्तसंभवम् । तचौरभाषितं सर्वं ज्ञातव्यं कोविदैरिदम् ॥१८॥ आरक्षिकेण भूपस्य कौतुकव्याप्तचेतसः। रूपस्य च परावर्तदर्शनं विहितं ध्रुवम् ॥ १९॥ अनाथो देशिको भ्रूणो यमदण्डेन नाशितः । कारणेन विना नूनं लोकस्य वचनं त्विदम् ॥२०॥ संदेहमन्तरेणैष तस्करो भवति स्फुटम् । नरेन्द्रहारचौर्योत्थं तलारवचनं त्विदम् ॥ २१॥ 5 आरक्षिकेण नीतोऽहं स्वगृहं शर्वरीमुखे । हिमवातकृताकम्पे माघमासे सुखप्रदे ॥ २२॥ द्वात्रिंशद्वेदना घोराश्चौरसंबन्धकारणाः । क्रियमाणा मया दोषे प्रापयिष्यन्ति पञ्चताम् ॥ २३॥ श्लोकद्वयेन च प्रोक्तं वचनं भयभीषणम् । तच्चौरभाषितं ज्ञेयं विद्वद्भिः कृतनिश्चयैः ॥२४॥ ततः प्रभातकाले च यमदण्डेन वेगतः । नृपस्य पुरतः प्रोक्तं तस्करोऽयं नरेश्वर ॥ २५॥
प्रत्यक्षं भूपतेरेष वदति प्रीतमानसः । शृणु मद्वचनं भूप तस्करो न भवाम्यहम् ॥ २६ ॥ 10 श्रुत्वा तद्वचनं राजा दत्त्वाऽभयमतीव सः। बभाण विस्मितस्वान्तस्तस्करं भीतिवर्जितम् ॥ २७॥
त्वं चौरोऽसि महासत्त्व विहिताश्चर्यकारण । न वा कथय मे शीघ्रं नितान्तं कौतुकेषिणः ॥ २८॥ निशम्य भूपतेर्वाक्यं बभाणेमं मलिम्लुचः । विद्युचराभिधश्चौरवित्तो भुवि भवाम्यहम् ॥ २९ ॥ अवाचि भूभुजा भूयो लंपिक्षुः पुरतः स्थितः । द्वात्रिंशद्दण्डना नक्तं कथं सोढा त्वया वद ॥३०॥ भूपालवचनं श्रुत्वा महाविस्मयकारणम् । विद्युच्चरो जगादैतं नानाशास्त्रविशारदम् ॥ ३१॥ 15 मुखारविन्दतः साधोः श्मशानस्थस्य धीमतः। श्रुतं नानाविधं दुःखं मया नरकसंभवम् ॥ ३२॥
शर्वरीसहितं दुःखं मया तेन विनिर्मितम् । इदं नरकदुःखस्य न समं लक्षभागतः ॥ ३३॥ इदं मया परिध्याय दुःखस्य सहनं नृप । कथितं तेऽखिलं सत्यमनुभूतं श्रुतं तथा ॥ ३४॥ विद्युच्चौरोदितं श्रुत्वा नरेन्द्रो निजगावमुम् । सांप्रतं सुष्ठु तुष्टोऽहं वरं ब्रूहि ददामि ते ॥ ३५ ॥
क्षोणीनाथवचः श्रुत्वा न्यगदत् तस्करोऽप्यमुम् । अभयं देहि मित्रस्य तलारस्य मम प्रभो ॥३६॥ 20 दत्त्वाऽभयं पुनः प्रोचे तस्करं धरणीधरः । यमदण्डः कथं मित्रं तव ब्रूहि ममाधुना ॥ ३७॥ धराधरवचः श्रुत्वा जगौ विद्युचरोऽपि तम् । आवयोर्मिनहेतुत्वं शृणु त्वं नरकुञ्जर ॥ ३८॥ अथास्ति वसुधासारो दक्षिणापथगोचरः । आभीरविषयो नाम धनधान्यसमन्वितः ॥ ३९॥ तस्मिन् विन्यानदीतीरे परं विन्यातटं पुरम् । जितशत्रुरभूदस्य प्रिया जयमतिः प्रिया ॥ ४० ॥
अन्योन्यस्नेहसंयुक्तमनसोरनयोरहम् । 'विद्युच्चराविधस्तोको नरेश्वरकलान्वितः ॥४१॥ 20 अत्रैव नगरे भूप यमनामा तलारकः । तत्प्रिया यमुना देवी यमदण्डस्तदङ्गजः॥४२॥ बालकाले त्वतिक्रान्ते चौरशास्त्रमिदं मया। शिक्षितं पृथिवीपाल समस्तं गुरुशासनम् ॥ ४३॥ अनेन यमदण्डेन तस्यैवान्ते नरेश्वर । तलाराणामिदं शास्त्रं शिक्षितं सकलं तदा ॥४४॥ एवं कृते सति क्षिप्रं मयाऽयं गदितः पुनः । आरक्षिकोऽसि यत्र त्वं तत्र चौरोऽस्मि भूपते ॥४५॥
श्रुत्वा मद्वचनं राजन्नेषोऽपि निजगाद माम् । लंपिक्षुरसि यत्र त्वं तत्राहं रक्षतः परः ॥ ४६ ॥ 30 कृतप्रतिज्ञयोरेवमावयोस्तत्र पत्तने । अन्योन्यप्रेमसंगेन याति कालः शनैः शनैः ॥४७॥ दत्त्वा राज्यश्रियं मह्यं मत्पिता भोगनिःस्पृहः । अभिनन्दनसामीप्ये दधौ जैनेश्वरं तपः ॥४८॥ अस्यापि जनको राजन् दत्त्वाऽस्यै स्वपदं सुधीः । अस्यैव च गुरोरन्ते तपो जैनमशिश्रयत् ॥४९॥ विन्यातटपुरे तत्र नानाजनसमाकुले । करोमि विपुलं राज्यं कण्टकैः परिवर्जितम् ॥ ५० ॥
1 पफज चतुःकुलकमिदम्. 2 पफ युगलमिदम् , ज युगलम्. 3 पफज त्रिकलमिदम्. 4 पफ युगलमिदम् , ज युगलम्. 5 The text in फ is mutilated. 6 [सोढास्त्वया]. 7 पफज त्रिकलम्. 8 [विद्युञ्चराभिध]. 9 [रक्षकः].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org