________________
३२५
-१३८. १७]
विद्युच्चरमुनिकथानकम्
१३७. अभयघोषमुनिकथानकम् । आसीदभयघोषाख्यः 'काकन्धाख्यपुरीभवः । अभयादिमतिर्भार्या तन्नरेन्द्रस्य च वल्लभा ॥१॥ अन्यदाऽनेन भूपेन निर्गतेन पुरावहिः । चतुरङ्गेन सैन्येन सहितेन प्रधावता ॥२॥ चतुर्वपि च पादेषु बवा कच्छपमादरात् । यष्टिकायां प्रलम्ब्यैतं तत्पुरं प्राविशन्मुदा ॥३॥ सर्वाङ्गीणं वदंतोष भार्याशिशुसमुत्सुकः । दृष्टः स मात्स्यिकस्तूर्णं गच्छद्गीतं समुच्चरन् ॥ ४॥ भूपेनाभयघोषेण चक्र मुक्त्वा प्रयत्नतः । कच्छपस्यैकघातेन छिन्नं पादचतुष्टयम् ॥ ५॥ जीवन् स कच्छपोऽनेन धीवरेण त्वरावता । नीतः स्वमन्दिरं बाढं भयविह्वलचेतसा ॥६॥ कालं कृत्वा स दुःखेन तस्यामेव निशि द्रुतम् । नन्दनोऽभयघोषस्य चण्डवेगाभिधोऽजनि ॥७॥ प्रासादेऽभयघोषोऽपि भुञ्जानो भोगसंपदम् । खदेवीभिः समं सारं तिष्ठति प्रीतमानसः ॥८॥ विलोक्य सहसा चन्द्रं गृहीतं राहुणा तदा । स नरेन्द्रः सवैराग्यो नन्दनान्तेऽग्रहीत् तपः॥९॥॥ काकन्दीतः स संप्राप्य श्रीमदुजयिनी पुरीम् । वीरासनेन संतस्थेऽभयघोषमहामुनिः ॥१०॥ चण्डवेगाभिधानेन तत्पुत्रेणास्य कोपतः । पूर्ववैरेण संछिन्नं हस्तपादचतुष्टयम् ॥ ११ ॥ सहित्वाऽभयघोषोऽपि चण्डवेगोपसर्गकम् । केवलज्ञानमुत्पाद्य प्रययौ मोक्षमक्षयम् ॥ १२॥
॥ इति अभयघोषमुनिकथानकमिदम् ॥ १३७ ॥
१३८. विद्युच्चरमुनिकथानकम्। अत्रैव भरतक्षेत्रे मिथिलानगरीभवः । आसीद् वामरथो राजा शूरः पद्मरथान्वये ॥१॥ बभूव तन्महादेवी रूपयौवनसंयुता । इष्टा बन्धुमती नाम बन्धुलोकमनःप्रिया ॥२॥ आरक्षिकोऽभवत् तत्र यमदण्डो यमोपमः । चौरो विधुच्चरः ख्यातश्चतुःषष्टिकलाऽन्वितः॥३॥ आदाय साररत्नानि बहुमूल्यानि तत्पुरे । भूमौ निधापयत्येष विधुच्चौरः कलाऽन्वितः॥४॥ कुष्टग्रस्तसमस्ताङ्गः कुथिताखिलविग्रहः । दिने देवकुले सोऽयं निर्विण्णो व्यवतिष्ठते ॥ ५॥ ॥ दिव्यदेहधरो नक्तं हृत्वा लोकधनं बहु । कामं गणिकया सार्धं भुञ्जानः स वितिष्ठते ॥ ६॥ अन्यदा तद्गृहं नक्तं प्रविश्य मतिकौशलात् । हारं वामरथस्यायं गृहीत्वा निर्ययौ द्रुतम् ॥ ७॥ यमदण्डं समाहूय प्रभातसमये सति । जगौ वामरथो राजा निद्राघूर्णितलोचनः॥८॥ अद्य नक्तं प्रविश्यैको मद्वासभवनं नरः। दिव्यरूपधरः श्रीमान् विद्युदुज्वलदेहकः ॥९॥ मोहं विधाय मे देव्याः पश्यतो मूढचेतसः । सुरदत्तं समादाय मुक्ताहारं स निर्ययौ ॥१०॥ यदि तं तस्करं तूर्णं लभसे दिनसप्तके । ततस्ते शोभनं नूनमन्यथा दण्डमर्हसि ॥११॥ श्रुत्वा वामरथस्सोक्तं तदानीं दण्डपाशिकः । चौरस्यान्वेषणं कर्तुं निर्गतोऽसौ नृपान्तिकात् ॥१२॥ आरामापणवापीषु "सरःसाणूरवेश्मसु । कुर्वाणोऽन्वेषणं चौरं यमदण्डो न दृष्टवान् ॥१३॥ अनाथं देशिकं धृत्वा शालायां सप्तमे दिने । तलारो हृष्टचेतस्को नृपान्तं गन्तुमुद्यतः॥१४॥ अञ्जनं गुटिकां दिव्यां गृहीत्वा रक्षकाग्रतः । मायारूपपरावर्त मायारूपं प्रकुर्वणाम् ॥ १५॥ ० नरदेवविमानानां कृतमागमनं वरम् । अनेन मायया स्पष्टमिन्द्रजालस्य दर्शनम् ॥ १६ ॥ ततोऽहं तस्करो नैव तलारो गुटिकाञ्जनम् । आदाय मद्वधार्थं च विदधाति परिस्फुटम् ॥१७॥
___ 1 [काकन्द्याख्य ]. 2 [तन्नरेन्द्रस्य वल्लभा ]. 3 पफज युगलमिदम्. 4 फज सनन्दनः. 5 पफज चतु:कुलकमिदम्. 6ज साणूर कूप. 7 ज विदधामि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org