________________
३२४ हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १३५. ५८'बुद्धदासकृतं तत्र सहित्वा तं परीषहम् । वृषभोपपदः सेनः केवलज्ञानमाप्तवान् ॥ ५८ ॥
॥ इति श्रीवृषभसेनमुनिकथानकमिदम् ॥ १३५ ॥
१३६, स्वामिकार्तिककथानकम् । कार्तिकाख्यपुरे दिव्ये राजाऽऽसीदग्निनामकः । भार्या वीरवती चास्य कलाविज्ञानभूषिता ॥१॥ 5 अनयो रूपसंपन्नाः षट् सुताः कलनिस्वनाः । विनयाचारसंपन्ना बभूवुरिमकाः पराः ॥२॥ आद्या बन्धुमती नाम श्रीषेणा श्रीमती परा । स्वयंप्रभा प्रभापूर्वा कीर्त्या लक्ष्मीमती सह ॥३॥ अन्यदा षडपि स्पष्टं नन्दीश्वरदिनेषु ताः । सोपवासा जिनेशानां चक्रुः पूजां प्रसूनकैः ॥४॥ जिनशेषां समादाय दत्त्वा यावद्जन्ति ताः। मातृपितृस्वबन्धुभ्यस्तावदृष्ट्वा नरेशिना ॥५॥
तन्मध्ये कीर्तिकां दृष्ट्वा कनिष्ठां वरकन्यकाम् । कामाकुलितचित्तेन विरहानलतापिना ॥६॥ 10 स्खलोकमपहायाशु निजां पत्नी सुयत्नतः । याचयित्वा विधानेन चोपयेमे नराधिपः ॥७॥
रतिसौख्यं धवेनामा भुञ्जानाया मनोरमम् । गर्भोऽभूत् कीर्तिसंज्ञायास्तद्भार्यायाः सुचेतसः॥८॥ नवमे मासि संजाते गर्भ तस्याः सकौतुकम् । रन्तुं शरवणोद्याने तद्वाप्यां मतिरुद्ता ॥९॥ ततः शरवणोच्छायां गुप्तायां नीलनीरजैः । वाप्यां तन्नामशालिन्यां कीर्तिः क्रीडां चकार सा ॥१०॥
जलक्रीडां विधायास्यां समुत्तीर्य ततो जलात् । प्रसूता दारकं कीर्तिः खामिकार्तिकसंज्ञकम् ॥११॥ 15 कीर्तेः कीर्तिसमेताया रूपराजितविग्रहा । ततश्च तनया जाता वीरश्रीनामभूषिता ॥ १२॥. वीरश्रीः श्रीसमा कन्या वितीर्णा जनकेन सा । रोहेटकपुरेशाय क्रौञ्चसंज्ञाय भूभुजे ॥१३॥ क्रीडन्नपि कुमाराद्यैः कुमारः प्रीतमानसः । स्वाम्यादिकीर्तिको बालश्चतुर्दशसमोऽभवत् ॥ १४ ॥ दृष्ट्वा वसन्तमासेऽसौ कुमारः प्राभृतान्यरम् । आगतानि कुमाराणां तन्मातामहमन्दिरात् ॥१५॥
सुदुःखो मातरं प्राप्य जगाद पुरतः स्थिताम् । अम्ब मातामहो मेऽस्ति न वा ब्रूहि यथायथम् ॥१६॥ 20 श्रुत्वा पुत्रवचो माता दुःखपूरितमानसा । जगाद नन्दनं चैकः पिता ते मेऽपि बालकः ॥१७॥ जननीवाक्यमाकण्ये महावैराग्यसंयुतः। यशोधरमुनेः पार्थे प्रवव्राज स बालकः ॥१८॥ नानातपः प्रकुर्वाणो विहरन् वसुधातले । स्वामिकार्तिकयोगीशः प्राप्य किकिन्धपर्वतम् ॥१९॥ नक्तं प्रतिमया तत्र संतस्थे स मुनिः सुधीः । घनवर्षेण तत्कायमलः प्रक्षालितस्तराम् ॥ २०॥ तत्साधुमलपानीयं जातं सर्वोषधं परम् । स्नात्वा तन्मुनिसन्नीरे लोको व्याधिविवर्जितः ॥२१॥ 25 ततः प्रभृति तत्तीर्थ दक्षिणापथसंभवम् । पूतं बभूव लोकानां महाव्याधिविनाशनम् ॥ २२ ॥
कदाचित् स मुनिधीरो युगान्तनिहितेक्षणः । रोहेटकपुरं दिव्यं विवेशाशनवाञ्छया ॥ २३ ॥ भार्या क्रौञ्चनरेन्द्रस्य वीरश्रीः श्रीसमप्रभा । ददर्श तं मुनिं प्रीता भ्रातरं सौधसंस्थिता ॥ २४ ॥ प्रासादशिखरस्थेन क्रौञ्चाख्येन महीभुजा । निर्गच्छन् स्वगृहात् कोपान्मुनिः शक्त्या समाहतः ॥२५॥
मयूरविद्यया क्षिप्रं समुत्क्षिप्य महामुनिः । स्वामिगेहमयं नीतस्तदा धर्मपरायणः ॥२६॥ 30 सहित्वा वेदनां तत्र समाधि प्राप्य धीरधीः। सुरलोकं जगामाशु स मुनिः स्वामिकार्तिकः ॥२७॥ कोविदैदृष्टशास्त्रार्थैर्महाकौतुकसंगतैः । तथेयं भ्रातृकोत्पत्तिर्द्रष्टव्याऽत्र कथानके ॥ २८॥
॥ इति श्रीखामिकार्तिकमुनिभ्रातृकोत्पत्तिकथानकमिदम् ॥ १३६ ॥
1 ज बुधदास. 2 फ वधुमती. 3 ज सोपवासं. 4 [दृष्टा ]. 5 [शरवणोत्थायां ]. 6 [°कार्तिको ]. 7 [सदुःखो]. 8 पफज युगलमिदम्. 9 [बालक]. 10 [किष्किन्ध].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org