________________
- १३५. ५७ ]
वृषभसेनमुनिकथानकम्
३२३
निजगेहं विहायाशु भूत्वा साऽतितपस्विनी । महावैराग्यसंपन्ना संतस्थे परवेश्मनि ॥ २५ ॥ निशम्य वचनं तस्य नरस्य रुषमागमः । क्षणमेकं पुनर्दध्याविदं मनसि भूपतिः ॥ २६ ॥ शोभते व्रतमीदृक्षं गृहस्थाया न मगृहे । योषितोऽस्या जनैः सर्वैर्निन्दितं साधुभिर्भृशम् ॥ २७ ॥ एवं विचिन्त्य राजेन्द्रः सगर्भां तां स्वसुन्दरीम् । असहायां श्मशानेऽरं मुमोच प्रीतिवर्जितम् ॥ २८॥ ततोऽस्या मुक्तमात्रायाः श्मशाने दरदायिनि । बभूव सुन्दराकारो नवमे मासि बालकः ॥ २९ ॥ तत्काले पश्चिमे यामे रजन्या वृषभं सितम् । ददर्श भूपतिः स्वने तोषविस्फारितेक्षणः ॥ ३० ॥ प्रभातसमये जाते कृताशेषतनुक्रियः । वृषभं मत्रिणः स्वप्ने कथयामास भूपतिः ॥ ३१ ॥ निशम्य भूपतेर्वाक्यं जगौ मन्त्री नरेश्वरम् । पुत्रलाभोऽद्य संजातस्तव भूपाल निश्चितम् ॥ ३२ ॥ निशम्य मत्रिणो वाक्यं स्वदेवीनां समीपकम् । पुत्रवार्तामुपालब्धुं सचिवं प्राहिणोति सः ॥ ३३ ॥ तदन्तं प्राप्य वेगेन सचिवो नृपयोषितः । पप्रच्छ पुत्रमुत्पन्नं कस्याश्चिद्वदताशु मे ॥ ३४ ॥ सचिवस्योदितं श्रुत्वा जगुस्ता युगपत्तकम् । अस्माकं दुर्भगानां हि कथं पुत्रो धवं विना ॥ ३५ ॥ भर्तृसंगं विना वत्स गर्भोत्पत्तिः कथं भवेत् । अस्माकं पुण्यहीनानां वञ्चितानामनेन भो ॥ ३६ ॥ * नृपभार्यावचः श्रुत्वा पुत्रलाभपरिच्युतम् । सचिवो विस्मितखान्तो जिनदत्ताऽन्तिकं ययौ ||३७|| जिनदत्तां विलोक्यैष चितायां पुत्रसंगताम् । संप्राप्य भूपतेः पार्श्व सचिवो निजगौ नृपम् ॥ ३८ ॥ देवदेव जनाधार भवतां कथितं मया । कुमारो जिनदत्ताया जातस्त्वत्कुलमण्डनः ॥ ३९ ॥ तद्वाक्येन समानीतो जिनदत्तासमं शिशुः । राज्ञा विभवयोगेन स्वगृहं स प्रवेशितः ॥ ४० ॥ यतो विलोकितो' नक्तं वृषभः स्वप्नदर्शने । ततो वृषभसेनोऽयं समाहूतो नरेशिना ॥ ४१ ॥ महाविभवयोगेन जिनदत्तां प्रपूज्य च । प्रभुञ्जानोऽनया भोगं प्रद्योतोऽयं वितिष्ठते ॥ ४२ ॥ कुमारः सुकुमाराङ्गो रूपराजितविग्रहः । अष्टवर्षो बभूवायं धर्मविन्यस्तमानसः ॥ ४३ ॥ अन्यदा भूभुजा प्रोक्तः कुमारोऽयं विशुद्धधीः । राज्यपट्टं प्रतीच्छ त्वं प्रव्रज्यां कर्तुमिच्छता ॥४४॥ एवमुक्तोऽमुना तत्र कुमारो निजगावमुम् | मनुष्यराज्यपट्टं किं बध्नासि त्वं मम प्रभो ॥ ४५ ॥ देवमोक्षादिसंयुक्तं राज्यपट्टे महागुणम् । प्राध्वंकृत्य मम स्पष्टं प्रव्रज्यां कर्तुमर्हसि ॥ ४६ ॥ अवाचि भूभुजा भूयस्तनयो मुक्तिलालसः । मनुष्यराज्यपट्टे ते बध्नामि प्रथमं सुतः ॥ ४७ ॥ देवादिराज्यपट्टस्तु तपसा भवति स्फुटम् । मोक्षादिराज्यपट्टोऽपि जिनोक्तज्ञानयोगतः ॥ ४८ ॥ त्रियमाणोऽपि तातेन प्रद्योताख्येन नन्दनः । अभिनन्दनसामीप्ये तपो जैनमशिश्रियत् ॥ ४९ ॥ 25 विदित्वाऽऽगमसद्भावं महामतिविकल्पतः । बभूवैकविहारी स सेनान्तो वृषभादिकः ॥ ५० ॥ विषये वत्सकावत्यां कौशाम्ब्याख्यपुरान्तके । देववाटनगे तस्थौ शुचौ प्रतिमया मुनिः ॥ ५१ ॥ एवं वृषभसेनस्य कायोत्सर्गेण तस्थुषः । तद्भिरौ सकलो लोकः श्रावकः पुरि पुण्यवान् ॥ ५२ ॥ तत्पुरे बुद्धदासाख्यो वसति क्रूरमानसः । उपासकांस्तरां द्वेष्टि जिनधर्मं मुनिं तथा ॥ ५३ ॥ यावन्मुनिः प्रविष्टोऽयं चर्यामार्गेण पत्तनम् । ययौ मध्याह्नवेलायां बुद्धदासोऽपि तन्नगम् ॥५४॥ ३० अग्निवर्णं विधायात्र तच्छिलातलमादरात् । बुद्धदासो गृहं प्राप्य स्वकं न विदितः परैः ॥ ५५ ॥ मुनिर्भिक्षां समादाय तत्पुरे स्थिरमानसः । प्राप्याग्निना तरां तसं पश्यतीदं शिलातलम् ॥ ५६ ॥ यावज्जीवं समादाय प्रत्याख्यानं महामुनिः । आरुरोह मुदा धीरमग्नितप्तं शिलातलम् ॥ ५७ ॥
20
1 पफज युगलमिदम् 2[ रुषमागतः ]. 3 पफज त्रिकलमिदम्. 4 पफज युगलमिदम्. 5 पफ 6 पफज युगलमिदम्. 7 [ बध्नामि प्रथमं सुत ] 8 [ प्राप ].
विलोक्यतो.
Jain Education International
For Private & Personal Use Only
10
15
www.jainelibrary.org