________________
३२२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १३४. ५०गृहीतसर्वशास्त्रार्थों 'कृतश्चैकविहारताम् । संप्राप्तः श्रीदत्तो योगी तपोनिहितमानसः॥ ५० ॥ कदाचित् स्वपुराभ्याशे हेमन्ते हिमसंकुले । नक्तं प्रतिमया तस्थौ श्रीदत्तो धर्मधीरयम् ॥५१॥ . अथ कीरचरो देवो व्यन्तरः श्रीदत्तं मुनिम् । विवेद वधकं स्वस्य विभङ्गज्ञानयोगतः ॥ ५२ ॥
आगत्य च तमुद्देशं शीतं वातं विधाय सः । सिञ्चति स्म मुनि कोपाजलवर्षेण भूयसा ॥ ५३॥ 5 श्रीधरोऽपि मुनिस्तत्र सहित्वा तं परीषहम् । व्यन्तरेण कृतं घोरं निर्वाणमगमल्लघु ॥ ५४॥
॥ इति श्रीधरमुनिकथानकम् ॥ १३४ ॥
१३५. वृषभसेनमुनिकथानकम् । उज्जयिन्यां पुरि श्रीमान् प्रद्योतो नाम भूपतिः । बभूव तन्महादेवी ज्योतिर्माला प्रभोज्वला ॥१॥ अन्यदाऽसौ महीपालो हस्तिनं मदशालिनम् । जगाम सहसा धर्तुं वनं नानानगाकुलम् ॥२॥ " आरूढो हस्तिनं तत्र प्रद्योतो मदनिर्भरम् । गृहीत्वाऽमुं बली नागो विवेश गहनं पुनः॥३॥ हस्तिनो धावतो वेगात् तरुशाखां प्रगृह्य सः। प्रद्योतभूपतिस्तस्थौ गजोऽन्यत्र गतो बली ॥४॥ उत्तीर्य तरुतो राजा विषयोन्मुखतां व्रजन् । एवं हि खेटकग्रामं संप्रापद् देवयोगतः ॥ ५॥ तत्रत्यक्षेत्रसामीप्ये क्षुधापम्पाकदर्थितः । कूपान्तं प्राप्य संतस्थे प्रद्योताख्यो महीपतिः ॥ ६॥ जिनपालितसंज्ञस्य ग्रामकूटस्य कन्यका । जिनमत्या जलं लातुं जिनदत्ताऽगमत् प्रधिम् ॥७॥ 15 दृष्ट्वा तां कन्यकां राजा तृष्णया शुष्कतालुकः । रूपयौवनसंयुक्तां जलपानं स याचते ॥ ८॥
जलपानं प्रदायास्मै स्तोकं कन्या पुरःस्थिता । कृत्वैकं वर्करं किंचिद्ददौ नीरं तदिच्छया ॥९॥ पाययित्वा जलं भूपं संप्राप्य निजमन्दिरम् । कथयामास तद्वाता निजतातस्य कन्यका ॥ १० ॥ ग्रामस्यास्य बहिः कोऽपि नरस्तिष्ठति शोभनः । गत्वा तदन्तिकं शीघ्रं स्वगृहं तं त्वमानय ॥११॥
सुतावचनतस्तेन ग्रामकूटेन वेगतः । निजगेहं समानीतो भूपतिः परमाकृतिः ॥ १२ ॥ 20 यावत् स तिष्ठते राजा तगृहे सुखलीलया । तावत् तन्मार्गतः सर्वः स्कन्धावारः समागतः ॥१३॥ दृष्टो नराधिपोऽमीभिस्तद्गृहे प्रीतमानसैः । ग्रामकूटेन सा कन्या वितीर्णाऽस्मै प्रमोदिना ॥१४॥ ततः प्रीतिं परां प्राप्य सामन्तादिपुरस्सरम् । नरेन्द्रो जिनदत्तायै महादेवीपदं ददौ ॥१५॥ श्वशुरं° पूजयित्वाऽत्र महाविभवसंपदा । श्रीमदुज्जयिनी राजा विवेश परमोत्सवाम् ॥ १६ ॥
अन्तःपुरमिदं सर्वं विहाय स नराधिपः । जिनदत्तासमं भोगं बुभुजे प्रीतमानसः ॥१७॥ 25 अन्यदा वारिमध्ये च पतितो मदकुञ्जरः । श्रुत्वा वार्तामिमां राजा निर्जगाम पुराद्धहिः ॥१८॥ तत्काले जिनदत्ताऽपि कुर्वती स्वस्य मण्डनम् । श्रुत्वा धवं बहिर्यान्तं सरोषा स्वगृहे स्थिता ॥१९॥ खकान्तं निर्गतं दृष्ट्वा तदानीं तत्पुरन्ध्रयः। वदन्ति स्म तदध्यक्षं तोषविस्फारितेक्षणाः ॥२०॥ वयं वल्लभिकाः पूर्व स्वभर्तुःप्राणतोऽधिकम् । अस्या भयाद् वचः स्थातुं स्वान्तिके न ददात्ययम् ॥२१॥
श्रुत्वा तद्वचनं कोपाजिनदत्ता त्वरावती । स्वकीय मन्दिरं हित्वा तस्थौ सा परवेश्मनि ॥ २२ ॥ 3) विलोक्य हस्तिनं राजा संप्राप्य निजमन्दिरम् । जिनदत्तामदृष्ट्वाऽत्र पप्रच्छान्यं नरं पुनः ॥२३॥ नरेन्द्रवचनं श्रुत्वा बभाणायं नरः प्रभुम् । जिनदत्ता रुष प्राप्य हित्वा धवसमागमम् ॥ २४ ॥
1 ज कृतचैक. 2 फज श्रीधरो. 3 फज श्रीधरं. 4 [श्रीदत्त व्यन्तरो मुनिम्]. 5 [श्रीदत्तमुनि ]. 6 पफ विषयोन्मुषता. 7 ज प्रधि-कूपम्. ४ज प्रमोदिता. 9 पफ सुखरं, 10 धवं च समागमम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org