________________
- १३४. ४९ ]
श्रीधरमुनिकथानकम्
३२१
निवृत्याह्निकीं पूजां जितशत्रुजिनेशिनाम् । आहूय तां निजाभ्याशं पप्रच्छेदं कुतूहलात् ॥१६॥ अम्ब किं कारणं जाता दुर्बला शोकसंयुता । केन वाऽपकृतं तेऽद्य कथयैतन्मम स्फुटम् ॥१७॥ जितशत्रोर्वचः श्रुत्वा धात्रिका निजगावमुम् । अष्टाह्निकमहं पुत्र कुर्वती स्वगृहे स्थिता ॥ १८ ॥ · भूयोऽपि भूभुजा प्रोक्ता धात्रिका श्रीतमानसा । मनोऽभिवाञ्छितं मातस्त्वं वरं ब्रूहि सांप्रतम् ॥ १९ ॥ भूयोऽप्यवाचि भूपालस्तया धात्रिकया तदा । प्रीतोऽसि यदि मे जैनीं पूजां तां मत्कृते कुरु ॥२०॥ भूयोऽप्यसौ समारेभे तदर्थं जिनपूजनम् । धात्रिकाऽष्टोपवासं सा चकार प्रीतमानसा ॥ २१ ॥ हिमवद्भिरिसंभूतपद्मद्रहनिवासिनी । विदित्वा तत्तपोमार्गं सामान्यनरदुःकरम् ॥ २२ ॥ निजेन परिवारेण श्रीदेवी प्राप्य तामसौ । हृष्टा तदुपवासान्ते सत्रौ भर्मकुटैररम् ॥ २३ ॥ महापूजाविधानेन पूजयित्वा पुनः पुनः । श्रीदेवी धात्रिकां भक्त्या जगाम निजमालयम् ॥ २४ ॥ श्रीदेवीविभवं दृष्ट्वा धात्रिका मुग्धमानसा । निदानं तद्विभूत्यर्थं कृत्वा पञ्चत्वमाप सा ॥ २५ ॥ ० ततो जम्बूमति द्वीपे वास्ये भरतनामनि । जाता पद्महदे देवी संभूते हिमवद्विरौ ॥ २६ ॥ इलावर्धनकस्थानं श्रीदेवी प्राप्य सत्वरम् । लोकानां दर्शयामास स्वनमेतन्निशि द्रुतम् ॥ २७ ॥ भगवन्नगरमायाता श्रीदेवी श्रीगृहं मम । कारयित्वा द्रुतं भक्तिं कुरु लोक यथाविधि ॥ २८ ॥ भवद्भ्यो येन गच्छामि' वरमिष्टमहं द्रुतम् । पूजाविधायिनां नृणां भक्त्या तुष्यन्ति देवताः ॥ २९ ॥ तद्वाक्यतो विधायाशु श्रीगृहं ध्वजभूषितम् । महिमानं चकारात्र लोकः पुष्पादिसंपदा ॥ ३० ॥ 15 श्रीदेवी श्रीगृहे दृष्ट्वाऽपचितिं तज्जनैररम् । क्रियमाणामिलादेवी ददर्श स्वगृहे स्थिता ॥ ३१ ॥ ततो द्वादश वर्षाणि पुत्रार्थं पुत्रवर्जिता । श्रीदेवी श्रीगृहे पूजामिलादेवी चकार सा ॥ ३२ ॥ इलादेवीकृतां पूजां स्वस्य दृष्ट्वा महादरात् । स्वयंप्रभजिनं प्राप्य श्रीदेवी निजगाविदम् ॥ ३३ ॥ भगवन् मत्पुरे पूतदिव्यज्ञानैकलोचन । इलादेव्याः सुतो भावी न वेति वद मेऽधुना ३४ ॥ श्रीदेवीवाक्यमाकर्ण्य स्वयंप्रभजिनोऽवदत् । इलादेव्या सुतो भावी देवि नाकपरिच्युतः ॥ स्वयंप्रभजिनेनोक्तं निशम्य सहसा सका । प्राप्येलावर्धनं देवीं निशि स्वप्ने बाण ताम् ॥ इलादेवि स्फुटं भावी मत्प्रसादेन त्वत्सुतः । वर्धमानाभिधो देवयुत्वा सौधर्मनाकतः ॥ श्रीदेवीवचनं श्रुत्वा कर्णामृतरसायनम् । इलादेवी सुखं तस्थौ तोषकण्टकिताङ्गिका ॥ ३८ ॥ क्रमतो हि यतो दत्तः श्रीदेव्यास्तनयोऽमुतः । ततः श्रीदत्तनामायं जनकेनेति शब्दितः ॥ ३९ ॥ इलावर्धनसंज्ञोऽयमिलापुरसमुद्भवः । इलादेवीसमुत्पन्नो जितशत्रोः सुतस्ततः ॥ ४० ॥ साकेताधिपतेः पुत्र्या ह्यंशुमत्यभिधानया । स्वयंवरे धृतश्चार्या श्रीदत्तः श्रीसमन्वितः ॥ ४१ ॥ अंशुमत्या समायातः शुकः क्रीडनको चितः । कलकोलाहलोपेत इलावर्धनपत्तनम् ॥ ४२ ॥ दीव्यतोरनयो द्यूते दम्पत्योरक्षसंभवे । नादं विदधतोर्मन्दमन्योन्यप्रीतचित्तयोः ॥ ४३ ॥ अंशुमत्या जिते कान्ते लीलाविक्षिप्तपक्षकः । लिखति प्रीतचेतस्को भुवि लीहाद्वयं शुकः ॥ ४४ ॥ * जितायामंशुमत्यां च तथा संततमिद्धधीः । श्रीदत्तेन लिखत्येष लीहामेकां शुको भुवि ॥ ४५ ॥ ३० एवं कृते सति क्षिप्रं भूभुजा रोषमीयुषा । ग्रीवायामाहतो दुःखी ममार बत पूषकः ॥ ४६ ततः पञ्चत्वमासाद्य कीरो मन्दकषायतः । बभूव व्यन्तरो देवो रूपराजितविग्रहः ॥ ४७ ॥ अन्यदा मेवमालोक्य सौधस्थो विलयं गतम् । श्रीदत्तभूपतिः सद्यो वैराग्यमगमत् तदा ॥ ४८ ॥ वितीर्य सकलं राज्यं सुताय विनतात्मने । वरधर्मान्तिके नूनं श्रीदत्तो मुनितामितः ॥ ४९ ॥
३५ ॥ 20
1 पज युगलम् फ युगलमिदम् 9 [ यच्छामि ]. 3 पफज त्रिकलमिदम्. 4 पफज युगलमिदम्. बृ० को ० ४१
Jain Education International
३६ ॥
३७ ॥
For Private & Personal Use Only
25
www.jainelibrary.org