________________
३२० हरिषेणाचार्यकृते पृहत्कथाकोशे
[१३३. ४विलोक्योवाच सा देवी यतिं वटतरोरधः । पीत्वा जलमिदं साधो पम्पाखेदं निराकुरु ॥४॥ गङ्गादेवीवचः श्रुत्वा जगादैतां महामुनिः । स्वतो न वर्तते पातुं जलमेतन्मनखिनि ॥५॥ मुनिवाक्यं समाकर्ण्य गङ्गादेवी त्वरावती । जिनं पूर्व विदेहस्थं संप्राप्य निजगाविदम् ॥६॥
तृष्णया 'परिभूतोऽरं मुनिरेको जिनेश्वर । ज्ञातो मया जलापूर्णः कलशोऽस्य पुरस्कृतः॥७॥ 5 मयाऽयमुदितः साधुः प्राशुकं शीतलं जलम् । मदानीतं पिब क्षिप्रं तृष्णाऽभावाय पावन ॥८॥ मुनिर्मद्वचनं श्रुत्वा मां बमाण जिनेश्वर । भवद्धस्तेन नः पातुं देवि तोयं न युज्यते ॥ ९॥ दीयमानं मया नाथ न पीतं मुनिना जलम् । किं कारणमिदं ब्रूहि सांप्रतं परमेश्वर ॥ १० ॥ देवीवचनमाकर्ण्य जगादैतां जिनेश्वरः । क्षरन्निवामृतं वाचा घनाघनगभीरया ॥११॥ तिर्यग्देवासुराणां च देवि हस्तेन नो जलम् । अन्नं वा युज्यते लातुं मुनीनां शुद्धचेतसाम् ॥१२॥ 10 सम्यक्त्वं जिनपूजां च प्रातिहार्य हि योगिनाम् । एतत्ते युज्यते कर्तुं नापरं भोजनादिकम् ॥१३॥ जिनवाक्यं समाकर्ण्य गङ्गादेवी सुभक्तितः । जलवर्षं ववर्षारात् मुनेरस्य सुशीतलम् ॥ १४ ॥ प्रातिहार्ये कृते देव्या शुक्लध्यानगतो मुनिः। निहत्य घातिकर्माणि केवलज्ञानमाप्तवान् ॥ १५॥ ततः केवलिनः पार्थे देवी धर्म निशम्य सा । पूजयित्वा मुनिं भक्त्या जगाम निजमालयम् ॥१६॥
धर्मघोषमुनिहत्वा शेषकर्मचतुष्टयम् । मोक्षं जगाम शुद्धात्मा निरावाधसुखास्पदम् ॥ १७॥ 15 ॥ इति श्रीसौधर्मघोषमुनिनिर्वाणकथानकमिदम् ॥ १३३ ॥
१३४. श्रीधरमुनिकथानकम् । अथ सिंहरथो राजा चम्पापुरवरेऽभवत् । सम्यग्दर्शनसंपन्नः श्राविकः सिंहिकापतिः ॥१॥ अंशुमानभवद् राजा साकेतानगरोद्भवः । सुदृष्टिः श्रावकः श्रीमांस्तत्प्रिया चांशुमालिनी ॥२॥
इलापुरेऽभवद् राजा जितशत्रुः सुदर्शनः । इलाभिधाऽस्य सत्कान्ता रूपयौवनशालिनी ॥३॥ 20 अन्योन्यप्रीतियुक्तानामेतेषां स्वस्वपत्तने । त्रयाणामपि मित्राणां याति कालः शनैः शनैः ॥४॥
नन्दीश्वरदिनेष्वेते त्रयोऽपि स्वस्वपत्तने । महामहं प्रकुर्वन्ति जिनानां भक्तितत्पराः ॥५॥ जितशत्रुरपि स्पष्टमिलावर्धनपत्तने । सपयाँ कर्तुमारेभे जिनानां क्षीणकर्मणाम् ॥ ६॥ तद्धात्रिका विरूपास्या विनयोपपदा मतिः । दीर्घदन्तकरालास्या जलबुद्बुदलोचना ॥७॥ पादखञ्जा बृहत्तुन्दा सत्त्वानां भयकारिणी । लम्बस्तनी च लम्बोष्ठी विषमास्थिशिराततिः ॥८॥ 25 इलापूजार्थमेतेन गच्छता जिनमन्दिरम् । गदितेयं सका यान्ती जितशत्रुमहीभुजा ॥ ९॥
अवतिष्ठ त्वमत्रैव त्वद्रूपमतिभीषणम् । जिनपूजार्थमेतेषामागतानां शरीरिणाम् ॥१०॥ वीभत्सदर्शनोपेतां भवती लोकभीतिदाम् । अतो मङ्गलहेतुत्वान्मा त्वं याहि जिनान्तिकम् ॥११॥ जितशत्रुवचः श्रुत्वा शोकसंतप्तमानसा । धात्रिकाऽमुं जगादैषा बाष्पविप्लुतलोचना ॥१२॥ जिनपूजा मया पुत्र न दृष्टा मन्दभाग्यया । न हि पुण्यैर्विना जैनं दृश्यते मुखपङ्कजम् ॥ १३ ॥ 30 अयं माहानकः ख्यातो विज्ञातोऽद्य मया सुत । धनुश्शतेन धर्मो हि रक्ष्यते जैनपुङ्गवः ॥१४॥ एवं निगद्य तं पुत्रं जिनेज्यादिवसाष्टकम् । उपवासं विधायासौ तस्थौ निजगृहे शुचा ॥१५॥
1 पफ परिभूतोयं. 2 पफज चतुःकुलकमिदम्. 3 पफज युगलमिदम्. 4' [श्रीधर्म ]. 5 [श्रावकः ]. 6 पफज युगलमिदम्. 7 पफज त्रिकलमिदम्. 8 पफज चतुष्कुलकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org