________________
-१३३. ३ ]
धर्मघोषमुनि कथानकम्
३१९
त्यक्त्वाऽर्धकर्पटं सद्यः संसारात् त्रस्तमानसाः । नैर्ग्रन्थ्यं हि तपः कृत्वा मुनिरूपं दधुत्रयः ॥ ६६ ॥ इष्टं न यैर्गुरोर्वाक्यं संसारार्णवतारकम् । जिनस्थविरकल्पं च विधाय द्विविधं भुवि ॥ ६७ ॥ अर्धफालकसंयुक्तमज्ञातपरमार्थकैः । तैरिदं कल्पितं तीर्थं कातरैः शक्तिवर्जितैः ॥ ६८ ॥' सौराष्ट्रविषये दिव्ये विद्यते वलभी पुरी । वप्रवादो नृपोऽस्यां च मिथ्यादर्शन दूषितः ॥ ६९ ॥ बभूव तन्महादेवी स्वामिनी नाम विश्रुता । अर्धफालकयुक्तानां सेयं भक्ता तपखिनाम् ॥ ७० ॥ अन्यदाऽयं नृपस्तिष्ठन् गवाक्षे सौधगोचरे । स्वामिन्या प्रियया सार्धं पश्यति स्वपुरश्रियम् ॥७१॥ तावन्मध्याह्नवेलायां अर्धफालकसंघकः । भिक्षानिमित्तमायातो भूपतेरस्य मन्दिरम् ॥ ७२ ॥ दृष्ट्वार्धफालकं संघ कौतुक व्याप्तमानसः । महादेवीमिमां प्राह महीपालपुरस्सरम् ॥ ७३ ॥ अर्धफालकसंघस्ते महादेवि न शोभनः । न चायं वस्त्रसंवीतो न नग्नः सविडम्बनः ॥ ७४ ॥ ततोऽन्यस्मिन् दिने जाते चार्धफालकसंघकः । नगरान्तिकमायातः कौतुकार्थं कलस्वनः ॥७५॥ " ट्वा भूपतिः संघ बाण वचसा हि सः । हित्वा तान्यर्धफालानि निर्ग्रन्थत्वं त्वमाश्रय ॥७६॥ यदा निर्ग्रन्थता नेष्टा नृपवाक्येन तैरिमे । तदा महीभृता प्रोक्ता भूयोऽप्याश्चर्यमीयुषा ॥ ७७ ॥ यदि निर्ग्रन्थतारूपं ग्रहीतुं नैव शक्नुथ । ततोऽर्धफालकं हित्वा स्वविडम्बनकारणम् ॥ ७८ ॥ ऋजुवस्त्रेण चाच्छाद्य स्वशरीरं तपखिनः । तिष्ठत प्रीतचेतस्का मद्वाक्येन महीतले ॥ ७९ ॥ लाटानां प्रीतिचित्तानां ततस्तद्दिवसं प्रति । बभूव काम्बलं तीर्थं वप्रवादनृपाज्ञया ॥ ८० ॥ ततः कम्बलिकातीर्थान्नूनं सावलिपत्तने । दक्षिणापथदेशस्थे जातो यापनसंघकः ॥ ८१ ॥ ॥ इति श्रीभद्रबाहुकथानकमिदम् ॥ १३१ ॥
१३२. समुद्रदत्तादिकथानकम् ।
इन्द्रदत्तादयः सन्ति कौशाम्बीनगरीभवाः । इभ्यश्रेष्ठिकुलोद्भूता द्वात्रिंशच्छ्रावकास्तराम् ॥ १ ॥ बभूवुस्तत्सुताः सन्तस्तावन्तः प्रीतचेतसः । तथा समुद्रदत्ताद्याः श्रावका जिनदेवताः ॥ २ ॥ कुमाराः सुकुमाराङ्गाः संसारत्रस्तचेतसः । तेऽयुः केवलिनः पार्श्व नन्तुं तत्पादकं जनाः ॥ ३ ॥ नत्वाऽमुं भक्तितस्ते च पृच्छन्तीदं महामुनिम् । कियत्प्रमाणमस्माकमायुः कथय मे प्रभो ॥ ४ ॥ केवली तद्वचः श्रुत्वा जगदैतान् पुरः स्थितान् । सर्वे स्तोकायुषो यूयं स्वहितं कुरुतादरात् ॥ ५॥ केवलीरितमाकर्ण्य द्वात्रिंशत् ते कुमारकाः । महावैराग्यसंपन्नास्तदन्तेऽरं प्रवव्रजुः ॥ ६ ॥ यमुनाख्यनदीतीरे पादोपगमनेन ते । तस्थुस्तजलपूरेण नीताश्चण्डेन तद्धदम् ॥ ७ ॥ तत्तोयमध्यगा वीराः शुभध्यानपरायणाः । समाधिमरणं प्राप्य सुरलोकं ययुस्तके ॥ ८ ॥ ॥ इति समुद्रदत्तादिद्वात्रिंशत्कुमारकथानकमिदम् ॥ १३२ ॥
*
१३३. धर्मघोषमुनिकथानकम् ।
चम्पानगरवास्तव्यो धर्मघोषमहामुनिः । सुधीर्मासोपवासान्ते पारणार्थं ययौ ब्रजम् ॥ १ ॥ मार्गभृष्टो गमं नेच्छन् हरिताद्युपरि स्फुटम् । गङ्गानदीतटस्याधस्तस्थौ पम्पाकदर्थितः ॥ २ ॥ तीव्र तृष्णापरिग्रस्तं ज्ञानिनं मुनिपुङ्गवम् । गङ्गादेवी जलापूर्णं कलशं तत्पुरोऽकरोत् ॥
"I
1 पफज युगलमिदम्. 2 पज युगलमिदम्. 3 फ omits Nos. 73-75. 4 फज जापन .
Jain Education International
For Private & Personal Use Only
15
20
25
30
www.jainelibrary.org