________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[१३१. ३३चिन्तयित्वा चिरं योगी भोजनातिपराङ्मुखः । ततो विस्मितचेतस्को जगाम जिनमन्दिरम् ॥३३॥ तत्रापरावेलायां कृत्वाऽवश्यकसक्रियाम् । संघस्यासौ समस्तस्य जगादैवं पुरो गुरुः ॥ ३४ ॥ एतस्मिन् विषये नूनमनावृष्टिर्भविष्यति । तथा द्वादशवर्षाणि दुर्भिक्षं च दुरुत्तरम् ॥ ३५ ॥
अयं देशो जनाकीर्णो धनधान्यसमन्वितः । शून्यो भविष्यति क्षिप्रं नृपतस्करलुण्टनैः ॥३६॥ । अहमत्रैव तिष्ठामि क्षीणमायुर्ममाधुना । भवन्तः साधवो यात लवणाब्धिसमीपताम् ॥ ३७॥ भद्रबाहुवचः श्रुत्वा चन्द्रगुप्तो नरेश्वरः । अस्यैव योगिनः पार्श्वे दधौ जैनेश्वरं तपः ॥३८॥ चन्द्रगुप्तिमुनिः शीघ्रं प्रथमो दशपूर्विणाम् । सर्वसंघाधिपो जातो विसषाचार्यसंज्ञकः ॥ ३९॥ अनेन सह संघोऽपि समस्तो गुरुवाक्यतः । दक्षिणापथदेशस्थपुन्नाटविषयं ययौ ॥ ४०॥ रामिल्लः स्थूलवृद्धोऽपि भद्राचार्यस्त्रयोऽप्यमी । वसंघसमुदायेन सिन्ध्वादिविषयं ययुः ॥४१॥ " भद्रबाहुमुनिीरो भयसप्तकवर्जितः । पम्पाक्षुधाश्रमं तीव्र जिगाय सहसोत्थितम् ॥४२॥ प्राप्य भाद्रपदं देशं श्रीमदुज्जयिनीभवम् । चकारानशनं धीरः स दिनानि बहून्यलम् ॥ ४३॥ आराधनां समाराध्य विधिना स चतुर्विधाम् । समाधिमरणं प्राप्य भद्रबाहुर्दिवं ययौ ॥४४॥ सुभिक्ष सति संजाते सर्वसंघसमन्वितः । दर्शनज्ञानचारित्रत्रयं सम्यक्प्रपाल्य च ॥४५॥
भद्रबाहुगुरोः शिष्यो विशाखाचार्यनामकः । मध्यदेशं स संप्राप दक्षिणापथदेशतः ॥४६॥ 16 रामिल्लः स्थविरो योगी भद्राचार्योऽप्यमी त्रयः। ये सिन्धुविषये याताः काले दुर्भिक्षनामनि ॥४७॥ पानान्नभोजनहींने काले लोकस्य भीषणे । आगत्य सहसा प्रोचुरिदं ते जनसंनिधौ ॥४८॥ वैदेशिकजनैःस्थैः कृतकोलाहलस्वनैः । पितापुत्रादयो लोका भोक्तुमन्नं न लेभिरे ॥४९॥ लोको निजकुटुम्बेन बुभुक्षाग्रस्तचेतसः। साधयित्वान्नमाबालं तद्भयान्निशि वल्भते ॥५०॥
भवन्तोऽपि समादाय निशि पात्राणि मगृहात्। नूनं कृत्वाऽन्नमेतेषु गत्वा देशिकतो भयात् ॥५१॥ 20 स्वश्रावकगृहे पूते भूयो विश्रब्धमानसाः । साधवो हि दिने जाते कुरुध्वं भोजनं पुनः ॥५२॥ तल्लोकवचनैरिष्टैर्भोजनं प्रीतमानसैः । अनेन विधिनाऽऽचार्यैः प्रतिपन्नमशेषतः ॥ ५३॥ अन्यदैको मुनिः कोऽपि निम्रन्थः क्षीणविग्रहः । भिक्षापात्रं करे कृत्वा विवेश श्रावकगृहम् ॥५४॥ तत्रैका श्राविका मुग्धाऽभिनवा गुर्विणी तदा । अन्धकारे मुनिं दृष्ट्वा तत्र सा गर्भमागतम् ॥५५॥
तद्दर्शनभयात् तस्याः स गर्भः पतितो द्रुतम् । दृष्ट्वाऽमुं श्रावकाः प्राप्य यतीशानिदमूचिरे ॥५६॥ ॐ विनष्टः साधवः कालः प्रायश्चित्तं विधाय च । काले हि सुस्थतां प्राप्ते भूयस्तपसि तिष्ठत ॥५७॥ यावन्न शोभनः कालो जायते साधवः स्फुटम् । तावच वामहस्तेन पुरः कृत्वाऽर्धफालकम् ॥५८॥ भिक्षापात्रं समादाय दक्षिणेन करेण च । गृहीत्वा नक्तमाहारं कुरुध्वं भोजनं दिने ॥ ५९॥ श्रावकाणां वचः श्रुत्वा तदानीं यतिभिः पुनः । तदुक्तं सकलं शीघ्रं प्रतिपन्नं मनःप्रियम् ॥ ६॥ एवं कृते सति क्षिप्रं काले सुस्थत्वमागते । सुखीभूतजनवाते दैन्यभावपरिच्युते ।। ६१॥ रामिल्लस्थविरस्थूलभद्राचार्याः स्वसाधुभिः। आहूय सकलं संघमित्थमूचुः परस्परम् ॥ ६२॥ हित्वाऽर्धफालकं तूर्णं मुनयः प्रीतमानसाः । निर्ग्रन्थरूपतां सारामाश्रयध्वं विमुक्तये ॥ ६३ ॥ श्रुत्वा तद्वचनं सारं मोक्षावाप्तिफलप्रदम् । दधुनिग्रन्थतां केचिन्मुक्तिलालसचेतसः ॥ ६४ ॥ रामिल्लः स्थविरः स्थूलभद्राचार्यस्त्रयोऽप्यमी । महावैराग्यसंपन्ना विशाखाचार्यमाययुः ॥ ६५ ॥
1 पफज निकलमिदम. 2 पफज चतुःकुलकमिदम्. 3 ज विशषा', [ विशाखाचार्य]. 4 gives an emended reading श्रावकाः for सहसा. 5ज श्रावका, 6 [दृष्टा तत्र स्वगृहमागतम् ].7 पफज कुलकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org