________________
-१३१.३२] भद्रबाहुकथानकम्
___३१७ १३१. भद्रबाहुकथानकम् । अथास्ति विषये कान्ते पौण्ड्रवर्धननामनि । कोटीमतं पुरं पूर्व देवकोटं च सांप्रतम् ॥ १॥ तत्र पद्मरथो राजा नताशेषनरेश्वरः । बभूव तन्मता देवी पद्मश्रीरतिवल्लभा ॥२॥ अस्यैव भूपतेरासीत् सोमशर्माभिधो द्विजः । रूपयौवनसंयुक्ता सोमश्री तत्प्रिया प्रिया ॥३॥ कुर्वाणः सर्वबन्धूनां भद्रं भद्राशयो यतः । भद्रबाहुस्ततः ख्यातो बभूव तनयोऽनयोः ॥४॥ भद्रबाहुः समुञ्जः सन् बहुभिब्रह्मचारिभिः । देवकोट्टपुरान्तऽसौ रममाणो वितिष्ठते ॥५॥ एवं हि तिष्ठताऽनेन रममाणेन तत्पुरे । कुमारैर्बहुभिः सार्धमनया क्रीडया यथा ॥६॥ एकस्य विहितो वट्टो वट्टकस्योपरि द्रुतम् । त्रयोदशामुना तेषु चतुर्दश निधापिताः ॥ ७॥ अत्रान्तरे महामानो वर्धमानः सुरस्तुतः। निर्वाणमगमद् वीरो हतकर्मकदम्बकः ॥८॥ गोवर्धनश्चतुर्थोऽसावाचतुर्दशपूर्विणाम् । निर्मलीकृतसर्वाशो ज्ञानचन्द्रकरोत्करैः ॥९॥ ऊर्जयन्तं गिरि नेमि स्तोतुकामो महातपाः । विहरन् क्वापि संप्राप कोटीनगरमुवजम् ॥ १० ॥ भद्रबाहुकुमारं च स दृष्ट्वा नगरे पुनः । उपर्युपरि कुर्वाणं तांश्चतुर्दशवट्टकान् ॥ ११॥ पूर्वोक्तपूर्विणां मध्ये पञ्चमः श्रुतकेवली । समस्तपूर्वधारी च नानर्द्धिगणभाजनः ॥ १२॥ देवदानवलोकार्यो भद्रबाहुरयं बटुः । स्तोकैरेव दिनैनूनं भविष्यति तपोनिधिः ॥ १३॥ . गोवर्धनो विधायेममादेशं विधिपूर्वकम् । भद्रबाहुबटुं स्वान्ते चकार पितृवाक्यतः॥१४॥ 5 गोवर्धनमुनिः क्षिप्रं नानाशास्त्रार्थकोविदम् । चकार विधिवत् तत्र भद्रबाहुकुमारकम् ॥१५॥ ततः स्वजनकं प्राप्य दृष्ट्वाऽमुं विधिपूर्वकम् । आजगाम मुनेः पार्श्व भद्रबाहुर्बटुः पुनः ॥ १६॥ .. महाबैराग्यसंपन्नो ज्ञाननिष्णातबुद्धिकः । गोवर्धनसमीपेरं भद्रबाहुस्तपोऽग्रहीत् ॥ १७॥ .... ततः स्तोकेन कालेन समस्तश्रुतपारगः । गोवर्धनप्रसादेन भद्रबाहुरभून्मुनिः ॥ १८ ॥ श्रुतं समाप्तिमायातमिति सद्भक्तिनोदितम् । भद्रबाहुः प्रभातेऽसौ कायोत्सर्गेण तस्थिवान् ॥१९॥ ॥ देवासुरनररेत्य भक्तिनिर्भरमानसैः। भद्रबाहुरयं योगी पूजितो बहुपूजया ॥ २० ॥ .. अथ धर्मोपदेशेन समस्तगणपालकः । बभूवासौ सदाचारः श्रुतसागरपारगः ॥२१॥ , नानाविधं तपः कृत्वा गोवर्धनगुरुस्तदा । सुरलोकं जगामाशु देवीगीतमनोहरम् ॥ २२ ॥ अवन्तीविषयोद्धृतश्रीमदुज्जयनी पुरी । आसीन्मनोहरी वापी सौधापणसरोवरैः ॥ २३॥ श्रीमदुजयिनीपार्थलग्नसिप्रानदीतटे । बभूवोपवनं रम्यं नानातरुकदम्बकैः ॥ २४ ॥ चतुर्विधेन संघेन महता परिवारितः । इदं वनं परिणाप भद्रबाहुमहामुनिः ॥ २५॥ तत्काले तत्पुरि श्रीमांश्चन्द्रगुप्तो नराधिपः । सम्यग्दर्शनसंपन्नो बभूव श्रावको महान् ॥ २६ ॥ कनत्कनकसद्वर्णा विद्युत्पुञ्जसमप्रभा । अभवत् तन्महादेवी सुप्रभा नाम विश्रुता ॥ २७॥ अन्यदानुक्रमेणायं भिक्षार्थ गृहतो गृहम् । भद्रबाहुमहायोगी विवेश स्थिरमानसः ॥ २८॥ गत्या मन्थरगामिन्या प्रविष्टो यत्र मन्दिरे । भद्रबाहुमुनिस्तत्र जनः कोऽपि न विद्यते ॥ २९ ॥ 30 केवलं विद्यते तत्र चोलिकान्तर्गतः शिशुः । तेनोदितो मुनिः क्षिप्रं गच्छ त्वं भगवन्नितः ॥३०॥ श्रुत्वा शिशदितं तत्र ध्यादेवं स्वचेतसि । भद्रबाहुमुनिवर्वीरो दिव्यज्ञानसमन्वितः॥३१॥ ईदृशं वचनं तत्र बालस्य श्रूयते तदा । तदा द्वादशवर्षाणि मण्डलेऽत्र न वर्षणम् ॥ ३२॥
. 1 पफज युगलमिदम्. 2 पफज चतुष्कुलकमिदम्. 3 ज भद्रबाहुमहा. 4 पफज त्रिकलमिदम्, 5 [दध्यावेवं ]. 6 पफ भद्रबाहुर्मुनि. 7 [यदा ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org